Header Ads

  • Breaking News

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 041 to 45.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 041.

    अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः।
    यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे॥ ८.०४१.०१
    तमू षु समना गिरा पितॄणां च मन्मभिः।
    नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे॥ ८.०४१.०२
    स क्षपः परि षस्वजे न्युस्रो मायया दधे स विश्वं परि दर्शतः।
    तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे॥ ८.०४१.०३
    यः ककुभो निधारयः पृथिव्यामधि दर्शतः।
    स माता पूर्व्यं पदं तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्तामन्यके समे॥ ८.०४१.०४
    यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानि गुह्या।
    स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभन्तामन्यके समे॥ ८.०४१.०५
    यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता।
    त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वाँ अयुक्षत नभन्तामन्यके समे॥ ८.०४१.०६
    य आस्वत्क आशये विश्वा जातान्येषाम्।
    परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्तामन्यके समे॥ ८.०४१.०७
    स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे।
    स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे॥ ८.०४१.०८
    यस्य श्वेता विचक्षणा तिस्रो भूमीरधिक्षितः।
    त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे॥ ८.०४१.०९
    यः श्वेताँ अधिनिर्णिजश्चक्रे कृष्णाँ अनु व्रता।
    स धाम पूर्व्यं ममे यः स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे॥ ८.०४१.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 042.

    अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः।
    आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि॥ ८.०४२.०१
    एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम्।
    स नः शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे॥ ८.०४२.०२
    इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि।
    ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम॥ ८.०४२.०३
    आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः।
    नासत्या सोमपीतये नभन्तामन्यके समे॥ ८.०४२.०४
    यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत्।
    नासत्या सोमपीतये नभन्तामन्यके समे॥ ८.०४२.०५
    एवा वामह्व ऊतये यथाहुवन्त मेधिराः।
    नासत्या सोमपीतये नभन्तामन्यके समे॥ ८.०४२.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 043.

    इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः।
    गिरः स्तोमास ईरते॥ ८.०४३.०१
    अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे।
    अग्ने जनामि सुष्टुतिम्॥ ८.०४३.०२
    आरोका इव घेदह तिग्मा अग्ने तव त्विषः।
    दद्भिर्वनानि बप्सति॥ ८.०४३.०३
    हरयो धूमकेतवो वातजूता उप द्यवि।
    यतन्ते वृथगग्नयः॥ ८.०४३.०४
    एते त्ये वृथगग्नय इद्धासः समदृक्षत।
    उषसामिव केतवः॥ ८.०४३.०५
    कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः।
    अग्निर्यद्रोधति क्षमि॥ ८.०४३.०६
    धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति।
    पुनर्यन्तरुणीरपि॥ ८.०४३.०७
    जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन्।
    अग्निर्वनेषु रोचते॥ ८.०४३.०८
    अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे।
    गर्भे सञ्जायसे पुनः॥ ८.०४३.०९
    उदग्ने तव तद्घृतादर्ची रोचत आहुतम्।
    निंसानं जुह्वो मुखे॥ ८.०४३.१०
    उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे।
    स्तोमैर्विधेमाग्नये॥ ८.०४३.११
    उत त्वा नमसा वयं होतर्वरेण्यक्रतो।
    अग्ने समिद्भिरीमहे॥ ८.०४३.१२
    उत त्वा भृगुवच्छुचे मनुष्वदग्न आहुत।
    अङ्गिरस्वद्धवामहे॥ ८.०४३.१३
    त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता।
    सखा सख्या समिध्यसे॥ ८.०४३.१४
    स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम्।
    अग्ने वीरवतीमिषम्॥ ८.०४३.१५
    अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत।
    इमं स्तोमं जुषस्व मे॥ ८.०४३.१६
    उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते।
    गोष्ठं गाव इवाशत॥ ८.०४३.१७
    तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक्।
    अग्ने कामाय येमिरे॥ ८.०४३.१८
    अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः।
    अद्मसद्याय हिन्विरे॥ ८.०४३.१९
    तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम्।
    वह्निं होतारमीळते॥ ८.०४३.२०
    पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः।
    समत्सु त्वा हवामहे॥ ८.०४३.२१
    तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः।
    इमं नः शृणवद्धवम्॥ ८.०४३.२२
    तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम्।
    अग्ने घ्नन्तमप द्विषः॥ ८.०४३.२३
    विशां राजानमद्भुतमध्यक्षं धर्मणामिमम्।
    अग्निमीळे स उ श्रवत्॥ ८.०४३.२४
    अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम्।
    सप्तिं न वाजयामसि॥ ८.०४३.२५
    घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा।
    अग्ने तिग्मेन दीदिहि॥ ८.०४३.२६
    यं त्वा जनास इन्धते मनुष्वदङ्गिरस्तम।
    अग्ने स बोधि मे वचः॥ ८.०४३.२७
    यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत।
    तं त्वा गीर्भिर्हवामहे॥ ८.०४३.२८
    तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक्।
    धासिं हिन्वन्त्यत्तवे॥ ८.०४३.२९
    ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः।
    तरन्तः स्याम दुर्गहा॥ ८.०४३.३०
    अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम्।
    हृद्भिर्मन्द्रेभिरीमहे॥ ८.०४३.३१
    स त्वमग्ने विभावसुः सृजन्सूर्यो न रश्मिभिः।
    शर्धन्तमांसि जिघ्नसे॥ ८.०४३.३२
    तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति।
    त्वदग्ने वार्यं वसु॥ ८.०४३.३३

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 044.

    समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्।
    आस्मिन्हव्या जुहोतन॥ ८.०४४.०१
    अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना।
    प्रति सूक्तानि हर्य नः॥ ८.०४४.०२
    अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे।
    देवाँ आ सादयादिह॥ ८.०४४.०३
    उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः।
    अग्ने शुक्रास ईरते॥ ८.०४४.०४
    उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत।
    अग्ने हव्या जुषस्व नः॥ ८.०४४.०५
    मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम्।
    अग्निमीळे स उ श्रवत्॥ ८.०४४.०६
    प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम्।
    अध्वराणामभिश्रियम्॥ ८.०४४.०७
    जुषाणो अङ्गिरस्तमेमा हव्यान्यानुषक्।
    अग्ने यज्ञं नय ऋतुथा॥ ८.०४४.०८
    समिधान उ सन्त्य शुक्रशोच इहा वह।
    चिकित्वान्दैव्यं जनम्॥ ८.०४४.०९
    विप्रं होतारमद्रुहं धूमकेतुं विभावसुम्।
    यज्ञानां केतुमीमहे॥ ८.०४४.१०
    अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः।
    भिन्धि द्वेषः सहस्कृत॥ ८.०४४.११
    अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम्।
    कविर्विप्रेण वावृधे॥ ८.०४४.१२
    ऊर्जो नपातमा हुवेऽग्निं पावकशोचिषम्।
    अस्मिन्यज्ञे स्वध्वरे॥ ८.०४४.१३
    स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा।
    देवैरा सत्सि बर्हिषि॥ ८.०४४.१४
    यो अग्निं तन्वो दमे देवं मर्तः सपर्यति।
    तस्मा इद्दीदयद्वसु॥ ८.०४४.१५
    अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम्।
    अपां रेतांसि जिन्वति॥ ८.०४४.१६
    उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते।
    तव ज्योतींष्यर्चयः॥ ८.०४४.१७
    ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः।
    स्तोता स्यां तव शर्मणि॥ ८.०४४.१८
    त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः।
    त्वां वर्धन्तु नो गिरः॥ ८.०४४.१९
    अदब्धस्य स्वधावतो दूतस्य रेभतः सदा।
    अग्नेः सख्यं वृणीमहे॥ ८.०४४.२०
    अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः।
    शुची रोचत आहुतः॥ ८.०४४.२१
    उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा।
    अग्ने सख्यस्य बोधि नः॥ ८.०४४.२२
    यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम्।
    स्युष्टे सत्या इहाशिषः॥ ८.०४४.२३
    वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः।
    स्याम ते सुमतावपि॥ ८.०४४.२४
    अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः।
    गिरो वाश्रास ईरते॥ ८.०४४.२५
    युवानं विश्पतिं कविं विश्वादं पुरुवेपसम्।
    अग्निं शुम्भामि मन्मभिः॥ ८.०४४.२६
    यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे।
    स्तोमैरिषेमाग्नये॥ ८.०४४.२७
    अयमग्ने त्वे अपि जरिता भूतु सन्त्य।
    तस्मै पावक मृळय॥ ८.०४४.२८
    धीरो ह्यस्यद्मसद्विप्रो न जागृविः सदा।
    अग्ने दीदयसि द्यवि॥ ८.०४४.२९
    पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे।
    प्र ण आयुर्वसो तिर॥ ८.०४४.३०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 045.

    आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक्।
    येषामिन्द्रो युवा सखा॥ ८.०४५.०१
    बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः।
    येषामिन्द्रो युवा सखा॥ ८.०४५.०२
    अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः।
    येषामिन्द्रो युवा सखा॥ ८.०४५.०३
    आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम्।
    क उग्राः के ह शृण्विरे॥ ८.०४५.०४
    प्रति त्वा शवसी वदद्गिरावप्सो न योधिषत्।
    यस्ते शत्रुत्वमाचके॥ ८.०४५.०५
    उत त्वं मघवञ्छृणु यस्ते वष्टि ववक्षि तत्।
    यद्वीळयासि वीळु तत्॥ ८.०४५.०६
    यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप।
    रथीतमो रथीनाम्॥ ८.०४५.०७
    वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह।
    भवा नः सुश्रवस्तमः॥ ८.०४५.०८
    अस्माकं सु रथं पुर इन्द्रः कृणोतु सातये।
    न यं धूर्वन्ति धूर्तयः॥ ८.०४५.०९
    वृज्याम ते परि द्विषोऽरं ते शक्र दावने।
    गमेमेदिन्द्र गोमतः॥ ८.०४५.१०
    शनैश्चिद्यन्तो अद्रिवोऽश्वावन्तः शतग्विनः।
    विवक्षणा अनेहसः॥ ८.०४५.११
    ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता शता।
    जरितृभ्यो विमंहते॥ ८.०४५.१२
    विद्मा हि त्वा धनंजयमिन्द्र दृळ्हा चिदारुजम्।
    आदारिणं यथा गयम्॥ ८.०४५.१३
    ककुहं चित्त्वा कवे मन्दन्तु धृष्णविन्दवः।
    आ त्वा पणिं यदीमहे॥ ८.०४५.१४
    यस्ते रेवाँ अदाशुरिः प्रममर्ष मघत्तये।
    तस्य नो वेद आ भर॥ ८.०४५.१५
    इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः।
    पुष्टावन्तो यथा पशुम्॥ ८.०४५.१६
    उत त्वाबधिरं वयं श्रुत्कर्णं सन्तमूतये।
    दूरादिह हवामहे॥ ८.०४५.१७
    यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत।
    भवेरापिर्नो अन्तमः॥ ८.०४५.१८
    यच्चिद्धि ते अपि व्यथिर्जगन्वांसो अमन्महि।
    गोदा इदिन्द्र बोधि नः॥ ८.०४५.१९
    आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस्पते।
    उश्मसि त्वा सधस्थ आ॥ ८.०४५.२०
    स्तोत्रमिन्द्राय गायत पुरुनृम्णाय सत्वने।
    नकिर्यं वृण्वते युधि॥ ८.०४५.२१
    अभि त्वा वृषभा सुते सुतं सृजामि पीतये।
    तृम्पा व्यश्नुही मदम्॥ ८.०४५.२२
    मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन्।
    माकीं ब्रह्मद्विषो वनः॥ ८.०४५.२३
    इह त्वा गोपरीणसा महे मन्दन्तु राधसे।
    सरो गौरो यथा पिब॥ ८.०४५.२४
    या वृत्रहा परावति सना नवा च चुच्युवे।
    ता संसत्सु प्र वोचत॥ ८.०४५.२५
    अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे।
    अत्रादेदिष्ट पौंस्यम्॥ ८.०४५.२६
    सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम्।
    व्यानट् तुर्वणे शमि॥ ८.०४५.२७
    तरणिं वो जनानां त्रदं वाजस्य गोमतः।
    समानमु प्र शंसिषम्॥ ८.०४५.२८
    ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम्।
    इन्द्रं सोमे सचा सुते॥ ८.०४५.२९
    यः कृन्तदिद्वि योन्यं त्रिशोकाय गिरिं पृथुम्।
    गोभ्यो गातुं निरेतवे॥ ८.०४५.३०
    यद्दधिषे मनस्यसि मन्दानः प्रेदियक्षसि।
    मा तत्करिन्द्र मृळय॥ ८.०४५.३१
    दभ्रं चिद्धि त्वावतः कृतं शृण्वे अधि क्षमि।
    जिगात्विन्द्र ते मनः॥ ८.०४५.३२
    तवेदु ताः सुकीर्तयोऽसन्नुत प्रशस्तयः।
    यदिन्द्र मृळयासि नः॥ ८.०४५.३३
    मा न एकस्मिन्नागसि मा द्वयोरुत त्रिषु।
    वधीर्मा शूर भूरिषु॥ ८.०४५.३४
    बिभया हि त्वावत उग्रादभिप्रभङ्गिणः।
    दस्मादहमृतीषहः॥ ८.०४५.३५
    मा सख्युः शूनमा विदे मा पुत्रस्य प्रभूवसो।
    आवृत्वद्भूतु ते मनः॥ ८.०४५.३६
    को नु मर्या अमिथितः सखा सखायमब्रवीत्।
    जहा को अस्मदीषते॥ ८.०४५.३७
    एवारे वृषभा सुतेऽसिन्वन्भूर्यावयः।
    श्वघ्नीव निवता चरन्॥ ८.०४५.३८
    आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा।
    यदीं ब्रह्मभ्य इद्ददः॥ ८.०४५.३९
    भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः।
    वसु स्पार्हं तदा भर॥ ८.०४५.४०
    यद्वीळाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम्।
    वसु स्पार्हं तदा भर॥ ८.०४५.४१
    यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति।
    वसु स्पार्हं तदा भर॥ ८.०४५.४२

    Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad