ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 031 to 35.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 031.
यो यजाति यजात इत्सुनवच्च पचाति च।
ब्रह्मेदिन्द्रस्य चाकनत्॥ ८.०३१.०१
पुरोळाशं यो अस्मै सोमं ररत आशिरम्।
पादित्तं शक्रो अंहसः॥ ८.०३१.०२
तस्य द्युमाँ असद्रथो देवजूतः स शूशुवत्।
विश्वा वन्वन्नमित्रिया॥ ८.०३१.०३
अस्य प्रजावती गृहेऽसश्चन्ती दिवेदिवे।
इळा धेनुमती दुहे॥ ८.०३१.०४
या दम्पती समनसा सुनुत आ च धावतः।
देवासो नित्ययाशिरा॥ ८.०३१.०५
प्रति प्राशव्याँ इतः सम्यञ्चा बर्हिराशाते।
न ता वाजेषु वायतः॥ ८.०३१.०६
न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः।
श्रवो बृहद्विवासतः॥ ८.०३१.०७
पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः।
उभा हिरण्यपेशसा॥ ८.०३१.०८
वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम्।
समूधो रोमशं हतो देवेषु कृणुतो दुवः॥ ८.०३१.०९
आ शर्म पर्वतानां वृणीमहे नदीनाम्।
आ विष्णोः सचाभुवः॥ ८.०३१.१०
ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः।
उरुरध्वा स्वस्तये॥ ८.०३१.११
अरमतिरनर्वणो विश्वो देवस्य मनसा।
आदित्यानामनेह इत्॥ ८.०३१.१२
यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः।
सुगा ऋतस्य पन्थाः॥ ८.०३१.१३
अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम्।
सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम्॥ ८.०३१.१४
मक्षू देववतो रथः शूरो वा पृत्सु कासु चित्।
देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्॥ ८.०३१.१५
न यजमान रिष्यसि न सुन्वान न देवयो।
देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्॥ ८.०३१.१६
नकिष्टं कर्मणा नशन्न प्र योषन्न योषति।
देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्॥ ८.०३१.१७
असदत्र सुवीर्यमुत त्यदाश्वश्व्यम्।
देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्॥ ८.०३१.१८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 032.
प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया।
मदे सोमस्य वोचत॥ ८.०३२.०१
यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम्।
वधीदुग्रो रिणन्नपः॥ ८.०३२.०२
न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर।
कृषे तदिन्द्र पौंस्यम्॥ ८.०३२.०३
प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि।
हुवे सुशिप्रमूतये॥ ८.०३२.०४
स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः।
पुरं न शूर दर्षसि॥ ८.०३२.०५
यदि मे रारणः सुत उक्थे वा दधसे चनः।
आरादुप स्वधा गहि॥ ८.०३२.०६
वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः।
त्वं नो जिन्व सोमपाः॥ ८.०३२.०७
उत नः पितुमा भर संरराणो अविक्षितम्।
मघवन्भूरि ते वसु॥ ८.०३२.०८
उत नो गोमतस्कृधि हिरण्यवतो अश्विनः।
इळाभिः सं रभेमहि॥ ८.०३२.०९
बृबदुक्थं हवामहे सृप्रकरस्नमूतये।
साधु कृण्वन्तमवसे॥ ८.०३२.१०
यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा।
जरितृभ्यः पुरूवसुः॥ ८.०३२.११
स नः शक्रश्चिदा शकद्दानवाँ अन्तराभरः।
इन्द्रो विश्वाभिरूतिभिः॥ ८.०३२.१२
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा।
तमिन्द्रमभि गायत॥ ८.०३२.१३
आयन्तारं महि स्थिरं पृतनासु श्रवोजितम्।
भूरेरीशानमोजसा॥ ८.०३२.१४
नकिरस्य शचीनां नियन्ता सूनृतानाम्।
नकिर्वक्ता न दादिति॥ ८.०३२.१५
न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम्।
न सोमो अप्रता पपे॥ ८.०३२.१६
पन्य इदुप गायत पन्य उक्थानि शंसत।
ब्रह्मा कृणोत पन्य इत्॥ ८.०३२.१७
पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः।
इन्द्रो यो यज्वनो वृधः॥ ८.०३२.१८
वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः।
इन्द्र पिब सुतानाम्॥ ८.०३२.१९
पिब स्वधैनवानामुत यस्तुग्र्ये सचा।
उतायमिन्द्र यस्तव॥ ८.०३२.२०
अतीहि मन्युषाविणं सुषुवांसमुपारणे।
इमं रातं सुतं पिब॥ ८.०३२.२१
इहि तिस्रः परावत इहि पञ्च जनाँ अति।
धेना इन्द्रावचाकशत्॥ ८.०३२.२२
सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः।
निम्नमापो न सध्र्यक्॥ ८.०३२.२३
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे।
भरा सुतस्य पीतये॥ ८.०३२.२४
य उद्नः फलिगं भिनन्न्यक्सिन्धूँरवासृजत्।
यो गोषु पक्वं धारयत्॥ ८.०३२.२५
अहन्वृत्रमृचीषम और्णवाभमहीशुवम्।
हिमेनाविध्यदर्बुदम्॥ ८.०३२.२६
प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे।
देवत्तं ब्रह्म गायत॥ ८.०३२.२७
यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः।
इन्द्रो देवेषु चेतति॥ ८.०३२.२८
इह त्या सधमाद्या हरी हिरण्यकेश्या।
वोळ्हामभि प्रयो हितम्॥ ८.०३२.२९
अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी।
सोमपेयाय वक्षतः॥ ८.०३२.३०
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 033.
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः।
पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते॥ ८.०३३.०१
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः।
कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः॥ ८.०३३.०२
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम्।
पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे॥ ८.०३३.०३
पाहि गायान्धसो मद इन्द्राय मेध्यातिथे।
यः सम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः॥ ८.०३३.०४
यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्गृणे।
य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः॥ ८.०३३.०५
यो धृषितो योऽवृतो यो अस्ति श्मश्रुषु श्रितः।
विभूतद्युम्नश्च्यवनः पुरुष्टुतः क्रत्वा गौरिव शाकिनः॥ ८.०३३.०६
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे।
अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः॥ ८.०३३.०७
दाना मृगो न वारणः पुरुत्रा चरथं दधे।
नकिष्ट्वा नि यमदा सुते गमो महाँश्चरस्योजसा॥ ८.०३३.०८
य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः।
यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥ ८.०३३.०९
सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः।
वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः॥ ८.०३३.१०
वृषणस्ते अभीशवो वृषा कशा हिरण्ययी।
वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो॥ ८.०३३.११
वृषा सोता सुनोतु ते वृषन्नृजीपिन्ना भर।
वृषा दधन्वे वृषणं नदीष्वा तुभ्यं स्थातर्हरीणाम्॥ ८.०३३.१२
एन्द्र याहि पीतये मधु शविष्ठ सोम्यम्।
नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः॥ ८.०३३.१३
वहन्तु त्वा रथेष्ठामा हरयो रथयुजः।
तिरश्चिदर्यं सवनानि वृत्रहन्नन्येषां या शतक्रतो॥ ८.०३३.१४
अस्माकमद्यान्तमं स्तोमं धिष्व महामह।
अस्माकं ते सवना सन्तु शंतमा मदाय द्युक्ष सोमपाः॥ ८.०३३.१५
नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति।
यो अस्मान्वीर आनयत्॥ ८.०३३.१६
इन्द्रश्चिद्घा तदब्रवीत्स्त्रिया अशास्यं मनः।
उतो अह क्रतुं रघुम्॥ ८.०३३.१७
सप्ती चिद्घा मदच्युता मिथुना वहतो रथम्।
एवेद्धूर्वृष्ण उत्तरा॥ ८.०३३.१८
अधः पश्यस्व मोपरि संतरां पादकौ हर।
मा ते कशप्लकौ दृशन्स्त्री हि ब्रह्मा बभूविथ॥ ८.०३३.१९
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 034.
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम्।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.०१
आ त्वा ग्रावा वदन्निह सोमी घोषेण यच्छतु।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.०२
अत्रा वि नेमिरेषामुरां न धूनुते वृकः।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.०३
आ त्वा कण्वा इहावसे हवन्ते वाजसातये।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.०४
दधामि ते सुतानां वृष्णे न पूर्वपाय्यम्।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.०५
स्मत्पुरंधिर्न आ गहि विश्वतोधीर्न ऊतये।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.०६
आ नो याहि महेमते सहस्रोते शतामघ।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.०७
आ त्वा होता मनुर्हितो देवत्रा वक्षदीड्यः।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.०८
आ त्वा मदच्युता हरी श्येनं पक्षेव वक्षतः।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.०९
आ याह्यर्य आ परि स्वाहा सोमस्य पीतये।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.१०
आ नो याह्युपश्रुत्युक्थेषु रणया इह।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.११
सरूपैरा सु नो गहि सम्भृतैः सम्भृताश्वः।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.१२
आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.१३
आ नो गव्यान्यश्व्या सहस्रा शूर दर्दृहि।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.१४
आ नः सहस्रशो भरायुतानि शतानि च।
दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.१५
आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः।
ओजिष्ठमश्व्यं पशुम्॥ ८.०३४.१६
य ऋज्रा वातरंहसोऽरुषासो रघुष्यदः।
भ्राजन्ते सूर्या इव॥ ८.०३४.१७
पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु।
तिष्ठं वनस्य मध्य आ॥ ८.०३४.१८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 035.
अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा।
सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना॥ ८.०३५.०१
विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा।
सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना॥ ८.०३५.०२
विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा।
सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना॥ ८.०३५.०३
जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम्।
सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना॥ ८.०३५.०४
स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम्।
सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना॥ ८.०३५.०५
गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम्।
सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना॥ ८.०३५.०६
हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः।
सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना॥ ८.०३५.०७
हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गच्छथः।
सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना॥ ८.०३५.०८
श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः।
सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना॥ ८.०३५.०९
पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम्।
सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना॥ ८.०३५.१०
जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम्।
सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना॥ ८.०३५.११
हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम्।
सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना॥ ८.०३५.१२
मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम्।
सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना॥ ८.०३५.१३
अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम्।
सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना॥ ८.०३५.१४
ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम्।
सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना॥ ८.०३५.१५
ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः।
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना॥ ८.०३५.१६
क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः।
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना॥ ८.०३५.१७
धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः।
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना॥ ८.०३५.१८
अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता।
सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम्॥ ८.०३५.१९
सर्गाँ इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता।
सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम्॥ ८.०३५.२०
रश्मीँरिव यच्छतमध्वराँ उप श्यावाश्वस्य सुन्वतो मदच्युता।
सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम्॥ ८.०३५.२१
अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु।
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे॥ ८.०३५.२२
नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये।
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे॥ ८.०३५.२३
स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः।
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे॥ ८.०३५.२४
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

No comments