ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 066 to 70.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 066.
तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये।
बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम्॥ ८.०६६.०१
न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः।
य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम्॥ ८.०६६.०२
यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः।
स ऊर्वस्य रेजयत्यपावृतिमिन्द्रो गव्यस्य वृत्रहा॥ ८.०६६.०३
निखातं चिद्यः पुरुसम्भृतं वसूदिद्वपति दाशुषे।
वज्री सुशिप्रो हर्यश्व इत्करदिन्द्रः क्रत्वा यथा वशत्॥ ८.०६६.०४
यद्वावन्थ पुरुष्टुत पुरा चिच्छूर नृणाम्।
वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः॥ ८.०६६.०५
सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः।
त्वमिद्धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः॥ ८.०६६.०६
वयमेनमिदा ह्योऽपीपेमेह वज्रिणम्।
तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते॥ ८.०६६.०७
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति।
सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया॥ ८.०६६.०८
कदू न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम्।
केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा॥ ८.०६६.०९
कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तृतम्।
इन्द्रो विश्वान्बेकनाटाँ अहर्दृश उत क्रत्वा पणीँरभि॥ ८.०६६.१०
वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन्।
पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि॥ ८.०६६.११
पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः।
तिरश्चिदर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम्॥ ८.०६६.१२
वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि।
नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता॥ ८.०६६.१३
त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि।
त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित्॥ ८.०६६.१४
सोम इद्वः सुतो अस्तु कलयो मा बिभीतन।
अपेदेष ध्वस्मायति स्वयं घैषो अपायति॥ ८.०६६.१५
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 067.
त्यान्नु क्षत्रियाँ अव आदित्यान्याचिषामहे।
सुमृळीकाँ अभिष्टये॥ ८.०६७.०१
मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा।
आदित्यासो यथा विदुः॥ ८.०६७.०२
तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे।
आदित्यानामरंकृते॥ ८.०६७.०३
महि वो महतामवो वरुण मित्रार्यमन्।
अवांस्या वृणीमहे॥ ८.०६७.०४
जीवान्नो अभि धेतनादित्यासः पुरा हथात्।
कद्ध स्थ हवनश्रुतः॥ ८.०६७.०५
यद्वः श्रान्ताय सुन्वते वरूथमस्ति यच्छर्दिः।
तेना नो अधि वोचत॥ ८.०६७.०६
अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः।
आदित्या अद्भुतैनसः॥ ८.०६७.०७
मा नः सेतुः सिषेदयं महे वृणक्तु नस्परि।
इन्द्र इद्धि श्रुतो वशी॥ ८.०६७.०८
मा नो मृचा रिपूणां वृजिनानामविष्यवः।
देवा अभि प्र मृक्षत॥ ८.०६७.०९
उत त्वामदिते मह्यहं देव्युप ब्रुवे।
सुमृळीकामभिष्टये॥ ८.०६७.१०
पर्षि दीने गभीर आँ उग्रपुत्रे जिघांसतः।
माकिस्तोकस्य नो रिषत्॥ ८.०६७.११
अनेहो न उरुव्रज उरूचि वि प्रसर्तवे।
कृधि तोकाय जीवसे॥ ८.०६७.१२
ये मूर्धानः क्षितीनामदब्धासः स्वयशसः।
व्रता रक्षन्ते अद्रुहः॥ ८.०६७.१३
ते न आस्नो वृकाणामादित्यासो मुमोचत।
स्तेनं बद्धमिवादिते॥ ८.०६७.१४
अपो षु ण इयं शरुरादित्या अप दुर्मतिः।
अस्मदेत्वजघ्नुषी॥ ८.०६७.१५
शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम्।
पुरा नूनं बुभुज्महे॥ ८.०६७.१६
शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः।
देवाः कृणुथ जीवसे॥ ८.०६७.१७
तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति।
बन्धाद्बद्धमिवादिते॥ ८.०६७.१८
नास्माकमस्ति तत्तर आदित्यासो अतिष्कदे।
यूयमस्मभ्यं मृळत॥ ८.०६७.१९
मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः।
पुरा नु जरसो वधीत्॥ ८.०६७.२०
वि षु द्वेषो व्यंहतिमादित्यासो वि संहितम्।
विष्वग्वि वृहता रपः॥ ८.०६७.२१
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 068.
आ त्वा रथं यथोतये सुम्नाय वर्तयामसि।
तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पते॥ ८.०६८.०१
तुविशुष्म तुविक्रतो शचीवो विश्वया मते।
आ पप्राथ महित्वना॥ ८.०६८.०२
यस्य ते महिना महः परि ज्मायन्तमीयतुः।
हस्ता वज्रं हिरण्ययम्॥ ८.०६८.०३
विश्वानरस्य वस्पतिमनानतस्य शवसः।
एवैश्च चर्षणीनामूती हुवे रथानाम्॥ ८.०६८.०४
अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः।
नाना हवन्त ऊतये॥ ८.०६८.०५
परोमात्रमृचीषममिन्द्रमुग्रं सुराधसम्।
ईशानं चिद्वसूनाम्॥ ८.०६८.०६
तंतमिद्राधसे मह इन्द्रं चोदामि पीतये।
यः पूर्व्यामनुष्टुतिमीशे कृष्टीनां नृतुः॥ ८.०६८.०७
न यस्य ते शवसान सख्यमानंश मर्त्यः।
नकिः शवांसि ते नशत्॥ ८.०६८.०८
त्वोतासस्त्वा युजाप्सु सूर्ये महद्धनम्।
जयेम पृत्सु वज्रिवः॥ ८.०६८.०९
तं त्वा यज्ञेभिरीमहे तं गीर्भिर्गिर्वणस्तम।
इन्द्र यथा चिदाविथ वाजेषु पुरुमाय्यम्॥ ८.०६८.१०
यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिरद्रिवः।
यज्ञो वितन्तसाय्यः॥ ८.०६८.११
उरु णस्तन्वे तन उरु क्षयाय नस्कृधि।
उरु णो यन्धि जीवसे॥ ८.०६८.१२
उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम्।
देववीतिं मनामहे॥ ८.०६८.१३
उप मा षड्द्वाद्वा नरः सोमस्य हर्ष्या।
तिष्ठन्ति स्वादुरातयः॥ ८.०६८.१४
ऋज्राविन्द्रोत आ ददे हरी ऋक्षस्य सूनवि।
आश्वमेधस्य रोहिता॥ ८.०६८.१५
सुरथाँ आतिथिग्वे स्वभीशूँरार्क्षे।
आश्वमेधे सुपेशसः॥ ८.०६८.१६
षळश्वाँ आतिथिग्व इन्द्रोते वधूमतः।
सचा पूतक्रतौ सनम्॥ ८.०६८.१७
ऐषु चेतद्वृषण्वत्यन्तरृज्रेष्वरुषी।
स्वभीशुः कशावती॥ ८.०६८.१८
न युष्मे वाजबन्धवो निनित्सुश्चन मर्त्यः।
अवद्यमधि दीधरत्॥ ८.०६८.१९
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 069.
प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे।
धिया वो मेधसातये पुरंध्या विवासति॥ ८.०६९.०१
नदं व ओदतीनां नदं योयुवतीनाम्।
पतिं वो अघ्न्यानां धेनूनामिषुध्यसि॥ ८.०६९.०२
ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः।
जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः॥ ८.०६९.०३
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे।
सूनुं सत्यस्य सत्पतिम्॥ ८.०६९.०४
आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि।
यत्राभि संनवामहे॥ ८.०६९.०५
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु।
यत्सीमुपह्वरे विदत्॥ ८.०६९.०६
उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि।
मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे॥ ८.०६९.०७
अर्चत प्रार्चत प्रियमेधासो अर्चत।
अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत॥ ८.०६९.०८
अव स्वराति गर्गरो गोधा परि सनिष्वणत्।
पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम्॥ ८.०६९.०९
आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः।
अपस्फुरं गृभायत सोममिन्द्राय पातवे॥ ८.०६९.१०
अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत।
वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव॥ ८.०६९.११
सुदेवो असि वरुण यस्य ते सप्त सिन्धवः।
अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव॥ ८.०६९.१२
यो व्यतीँरफाणयत्सुयुक्ताँ उप दाशुषे।
तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत॥ ८.०६९.१३
अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः।
भिनत्कनीन ओदनं पच्यमानं परो गिरा॥ ८.०६९.१४
अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम्।
स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम्॥ ८.०६९.१५
आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम्।
अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम्॥ ८.०६९.१६
तं घेमित्था नमस्विन उप स्वराजमासते।
अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने॥ ८.०६९.१७
अनु प्रत्नस्यौकसः प्रियमेधास एषाम्।
पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत॥ ८.०६९.१८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 070.
यो राजा चर्षणीनां याता रथेभिरध्रिगुः।
विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे॥ ८.०७०.०१
इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि।
हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः॥ ८.०७०.०२
नकिष्टं कर्मणा नशद्यश्चकार सदावृधम्।
इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम्॥ ८.०७०.०३
अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः।
सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः॥ ८.०७०.०४
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः।
न त्वा वज्रिन्सहस्रं सूर्या अनु न जातमष्ट रोदसी॥ ८.०७०.०५
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा।
अस्माँ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः॥ ८.०७०.०६
न सीमदेव आपदिषं दीर्घायो मर्त्यः।
एतग्वा चिद्य एतशा युयोजते हरी इन्द्रो युयोजते॥ ८.०७०.०७
तं वो महो महाय्यमिन्द्रं दानाय सक्षणिम्।
यो गाधेषु य आरणेषु हव्यो वाजेष्वस्ति हव्यः॥ ८.०७०.०८
उदू षु णो वसो महे मृशस्व शूर राधसे।
उदू षु मह्यै मघवन्मघत्तय उदिन्द्र श्रवसे महे॥ ८.०७०.०९
त्वं न इन्द्र ऋतयुस्त्वानिदो नि तृम्पसि।
मध्ये वसिष्व तुविनृम्णोर्वोर्नि दासं शिश्नथो हथैः॥ ८.०७०.१०
अन्यव्रतममानुषमयज्वानमदेवयुम्।
अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युं पर्वतः॥ ८.०७०.११
त्वं न इन्द्रासां हस्ते शविष्ठ दावने।
धानानां न सं गृभायास्मयुर्द्विः सं गृभायास्मयुः॥ ८.०७०.१२
सखायः क्रतुमिच्छत कथा राधाम शरस्य।
उपस्तुतिं भोजः सूरिर्यो अह्रयः॥ ८.०७०.१३
भूरिभिः समह ऋषिभिर्बर्हिष्मद्भिः स्तविष्यसे।
यदित्थमेकमेकमिच्छर वत्सान्पराददः॥ ८.०७०.१४
कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत्।
अजां सूरिर्न धातवे॥ ८.०७०.१५
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

No comments