ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 061 to 66.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 061.
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः।
सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्॥ ८.०६१.०१
तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः।
उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः॥ ८.०६१.०२
आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः।
विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम्॥ ८.०६१.०३
अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः।
सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः॥ ८.०६१.०४
शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः।
भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि॥ ८.०६१.०५
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः।
नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर॥ ८.०६१.०६
त्वं ह्येहि चेरवे विदा भगं वसुत्तये।
उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये॥ ८.०६१.०७
त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे।
आ पुरंदरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे॥ ८.०६१.०८
अविप्रो वा यदविधद्विप्रो वेन्द्र ते वचः।
स प्र ममन्दत्त्वाया शतक्रतो प्राचामन्यो अहंसन॥ ८.०६१.०९
उग्रबाहुर्म्रक्षकृत्वा पुरंदरो यदि मे शृणवद्धवम्।
वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे॥ ८.०६१.१०
न पापासो मनामहे नारायासो न जळ्हवः।
यदिन्न्विन्द्रं वृषणं सचा सुते सखायं कृणवामहै॥ ८.०६१.११
उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यम्।
वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत्॥ ८.०६१.१२
यत इन्द्र भयामहे ततो नो अभयं कृधि।
मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि॥ ८.०६१.१३
त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः।
तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे॥ ८.०६१.१४
इन्द्रः स्पळुत वृत्रहा परस्पा नो वरेण्यः।
स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः॥ ८.०६१.१५
त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः।
आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः॥ ८.०६१.१६
अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः।
विश्वा च नो जरितॄन्सत्पते अहा दिवा नक्तं च रक्षिषः॥ ८.०६१.१७
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम्।
उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः॥ ८.०६१.१८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 062.
प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति।
उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः॥ ८.०६२.०१
अयुजो असमो नृभिरेकः कृष्टीरयास्यः।
पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः॥ ८.०६२.०२
अहितेन चिदर्वता जीरदानुः सिषासति।
प्रवाच्यमिन्द्र तत्तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः॥ ८.०६२.०३
आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना।
येभिः शविष्ठ चाकनो भद्रमिह श्रवस्यते भद्रा इन्द्रस्य रातयः॥ ८.०६२.०४
धृषतश्चिद्धृषन्मनः कृणोषीन्द्र यत्त्वम्।
तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः॥ ८.०६२.०५
अव चष्ट ऋचीषमोऽवताँ इव मानुषः।
जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इन्द्रस्य रातयः॥ ८.०६२.०६
विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः।
भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः॥ ८.०६२.०७
गृणे तदिन्द्र ते शव उपमं देवतातये।
यद्धंसि वृत्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः॥ ८.०६२.०८
समनेव वपुष्यतः कृणवन्मानुषा युगा।
विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातयः॥ ८.०६२.०९
उज्जातमिन्द्र ते शव उत्त्वामुत्तव क्रतुम्।
भूरिगो भूरि वावृधुर्मघवन्तव शर्मणि भद्रा इन्द्रस्य रातयः॥ ८.०६२.१०
अहं च त्वं च वृत्रहन्सं युज्याव सनिभ्य आ।
अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः॥ ८.०६२.११
सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम नानृतम्।
महाँ असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः॥ ८.०६२.१२
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 063.
स पूर्व्यो महानां वेनः क्रतुभिरानजे।
यस्य द्वारा मनुष्पिता देवेषु धिय आनजे॥ ८.०६३.०१
दिवो मानं नोत्सदन्सोमपृष्ठासो अद्रयः।
उक्था ब्रह्म च शंस्या॥ ८.०६३.०२
स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोदप।
स्तुषे तदस्य पौंस्यम्॥ ८.०६३.०३
स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः।
शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे॥ ८.०६३.०४
आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः।
श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने॥ ८.०६३.०५
इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च।
यमर्का अध्वरं विदुः॥ ८.०६३.०६
यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत।
अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः॥ ८.०६३.०७
इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या।
प्रावश्चक्रस्य वर्तनिम्॥ ८.०६३.०८
अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे।
यवं न पश्व आ ददे॥ ८.०६३.०९
तद्दधाना अवस्यवो युष्माभिर्दक्षपितरः।
स्याम मरुत्वतो वृधे॥ ८.०६३.१०
बळृत्वियाय धाम्न ऋक्वभिः शूर नोनुमः।
जेषामेन्द्र त्वया युजा॥ ८.०६३.११
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः।
यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माँ अवन्तु देवाः॥ ८.०६३.१२
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 064.
उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः।
अव ब्रह्मद्विषो जहि॥ ८.०६४.०१
पदा पणीँरराधसो नि बाधस्व महाँ असि।
नहि त्वा कश्चन प्रति॥ ८.०६४.०२
त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम्।
त्वं राजा जनानाम्॥ ८.०६४.०३
एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम्।
ओभे पृणासि रोदसी॥ ८.०६४.०४
त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम्।
वि स्तोतृभ्यो रुरोजिथ॥ ८.०६४.०५
वयमु त्वा दिवा सुते वयं नक्तं हवामहे।
अस्माकं काममा पृण॥ ८.०६४.०६
क्व स्य वृषभो युवा तुविग्रीवो अनानतः।
ब्रह्मा कस्तं सपर्यति॥ ८.०६४.०७
कस्य स्वित्सवनं वृषा जुजुष्वाँ अव गच्छति।
इन्द्रं क उ स्विदा चके॥ ८.०६४.०८
कं ते दाना असक्षत वृत्रहन्कं सुवीर्या।
उक्थे क उ स्विदन्तमः॥ ८.०६४.०९
अयं ते मानुषे जने सोमः पूरुषु सूयते।
तस्येहि प्र द्रवा पिब॥ ८.०६४.१०
अयं ते शर्यणावति सुषोमायामधि प्रियः।
आर्जीकीये मदिन्तमः॥ ८.०६४.११
तमद्य राधसे महे चारुं मदाय घृष्वये।
एहीमिन्द्र द्रवा पिब॥ ८.०६४.१२
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 065.
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः।
आ याहि तूयमाशुभिः॥ ८.०६५.०१
यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे।
यद्वा समुद्रे अन्धसः॥ ८.०६५.०२
आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे।
इन्द्र सोमस्य पीतये॥ ८.०६५.०३
आ त इन्द्र महिमानं हरयो देव ते महः।
रथे वहन्तु बिभ्रतः॥ ८.०६५.०४
इन्द्र गृणीष उ स्तुषे महाँ उग्र ईशानकृत्।
एहि नः सुतं पिब॥ ८.०६५.०५
सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे।
इदं नो बर्हिरासदे॥ ८.०६५.०६
यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम्।
तं त्वा वयं हवामहे॥ ८.०६५.०७
इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः।
जुषाण इन्द्र तत्पिब॥ ८.०६५.०८
विश्वाँ अर्यो विपश्चितोऽति ख्यस्तूयमा गहि।
अस्मे धेहि श्रवो बृहत्॥ ८.०६५.०९
दाता मे पृषतीनां राजा हिरण्यवीनाम्।
मा देवा मघवा रिषत्॥ ८.०६५.१०
सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु।
शुक्रं हिरण्यमा ददे॥ ८.०६५.११
नपातो दुर्गहस्य मे सहस्रेण सुराधसः।
श्रवो देवेष्वक्रत॥ ८.०६५.१२
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

No comments