Header Ads

  • Breaking News

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 056 to 60.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 056.

    प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम्।
    द्यौर्न प्रथिना शवः॥ ८.०५६.०१
    दश मह्यं पौतक्रतः सहस्रा दस्यवे वृकः।
    नित्याद्रायो अमंहत॥ ८.०५६.०२
    शतं मे गर्दभानां शतमूर्णावतीनाम्।
    शतं दासाँ अति स्रजः॥ ८.०५६.०३
    तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता।
    अश्वानामिन्न यूथ्याम्॥ ८.०५६.०४
    अचेत्यग्निश्चिकितुर्हव्यवाट् स सुमद्रथः।
    अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत॥ ८.०५६.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 057.

    युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा।
    आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः॥ ८.०५७.०१
    युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात्।
    अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी॥ ८.०५७.०२
    पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः।
    सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै॥ ८.०५७.०३
    अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम्।
    पिबतं सोमं मधुमन्तमस्मे प्र दाश्वांसमवतं शचीभिः॥ ८.०५७.०४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 058.

    यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति।
    यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित्॥ ८.०५८.०१
    एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः।
    एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम्॥ ८.०५८.०२
    ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदं भूरिवारम्।
    चित्रामघा यस्य योगेऽधिजज्ञे तं वां हुवे अति रिक्तं पिबध्यै॥ ८.०५८.०३


    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 059.

    इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम्।
    यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः॥ ८.०५९.०१
    निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत।
    या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते॥ ८.०५९.०२
    सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः।
    ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः॥ ८.०५९.०३
    घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य।
    या ह वामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम्॥ ८.०५९.०४
    अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम्।
    अस्मान्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती॥ ८.०५९.०५
    इन्द्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे।
    यानि स्थानान्यसृजन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम्॥ ८.०५९.०६
    इन्द्रावरुणा सौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तम्।
    प्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः॥ ८.०५९.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 060.

    अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे।
    आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे॥ ८.०६०.०१
    अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे।
    ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम्॥ ८.०६०.०२
    अग्ने कविर्वेधा असि होता पावक यक्ष्यः।
    मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः॥ ८.०६०.०३
    अद्रोघमा वहोशतो यविष्ठ्य देवाँ अजस्र वीतये।
    अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः॥ ८.०६०.०४
    त्वमित्सप्रथा अस्यग्ने त्रातरृतस्कविः।
    त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः॥ ८.०६०.०५
    शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाँ असि।
    देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः॥ ८.०६०.०६
    यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि।
    एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति॥ ८.०६०.०७
    मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः।
    अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः॥ ८.०६०.०८
    पाहि नो अग्न एकया पाह्युत द्वितीयया।
    पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो॥ ८.०६०.०९
    पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव।
    त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे॥ ८.०६०.१०
    आ नो अग्ने वयोवृधं रयिं पावक शंस्यम्।
    रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम्॥ ८.०६०.११
    येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः।
    स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः॥ ८.०६०.१२
    शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत्।
    तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः॥ ८.०६०.१३
    नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे।
    स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु॥ ८.०६०.१४
    शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते।
    अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि॥ ८.०६०.१५
    सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयम्।
    भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनाँ अति॥ ८.०६०.१६
    अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः।
    अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम्॥ ८.०६०.१७
    केतेन शर्मन्सचते सुषामण्यग्ने तुभ्यं चिकित्वना।
    इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये॥ ८.०६०.१८
    अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः।
    अप्रोषिवान्गृहपतिर्महाँ असि दिवस्पायुर्दुरोणयुः॥ ८.०६०.१९
    मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावताम्।
    परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विनः॥ ८.०६०.२०

    Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad