ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 051 to 55.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 051.
यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम्।
नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा॥ ८.०५१.०१
पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम्।
सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृकः॥ ८.०५१.०२
य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः।
इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसे॥ ८.०५१.०३
यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे।
स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम्॥ ८.०५१.०४
यो नो दाता वसूनामिन्द्रं तं हूमहे वयम्।
विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजे॥ ८.०५१.०५
यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते।
तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे॥ ८.०५१.०६
कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे।
उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते॥ ८.०५१.०७
प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन्।
यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः॥ ८.०५१.०८
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः।
तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयिः॥ ८.०५१.०९
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः।
अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः॥ ८.०५१.१०
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 052.
यथा मनौ विवस्वति सोमं शक्रापिबः सुतम्।
यथा त्रिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा॥ ८.०५२.०१
पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः।
यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि॥ ८.०५२.०२
य उक्था केवला दधे यः सोमं धृषितापिबत्।
यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः॥ ८.०५२.०३
यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो।
तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः॥ ८.०५२.०४
यो नो दाता स नः पिता महाँ उग्र ईशानकृत्।
अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः॥ ८.०५२.०५
यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति।
वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे॥ ८.०५२.०६
कदा चन प्र युच्छस्युभे नि पासि जन्मनी।
तुरीयादित्य हवनं त इन्द्रियमा तस्थावमृतं दिवि॥ ८.०५२.०७
यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे।
अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवम्॥ ८.०५२.०८
अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत।
पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत॥ ८.०५२.०९
समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम्।
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः॥ ८.०५२.१०
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 053.
उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम्।
पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे॥ ८.०५३.०१
य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे।
तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे॥ ८.०५३.०२
आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः।
ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः॥ ८.०५३.०३
विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु।
शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि॥ ८.०५३.०४
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः।
आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभिः॥ ८.०५३.०५
आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम्।
प्र सू तिरा शचीभिर्ये त उक्थिनः क्रतुं पुनत आनुषक्॥ ८.०५३.०६
यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते।
वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे॥ ८.०५३.०७
अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः।
त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनाम्॥ ८.०५३.०८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 054.
एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः।
ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः॥ ८.०५४.०१
नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे।
यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व॥ ८.०५४.०२
आ नो विश्वे सजोषसो देवासो गन्तनोप नः।
वसवो रुद्रा अवसे न आ गमञ्छृण्वन्तु मरुतो हवम्॥ ८.०५४.०३
पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः।
आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम्॥ ८.०५४.०४
यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम।
तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन्॥ ८.०५४.०५
आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो।
वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे॥ ८.०५४.०६
सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम्।
अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम्॥ ८.०५४.०७
वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो।
महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय॥ ८.०५४.०८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 055.
भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति।
राधस्ते दस्यवे वृक॥ ८.०५५.०१
शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते।
मह्ना दिवं न तस्तभुः॥ ८.०५५.०२
शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि।
शतं मे बल्बजस्तुका अरुषीणां चतुःशतम्॥ ८.०५५.०३
सुदेवाः स्थ काण्वायना वयोवयो विचरन्तः।
अश्वासो न चङ्क्रमत॥ ८.०५५.०४
आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः।
श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे॥ ८.०५५.०५
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

No comments