Header Ads

  • Breaking News

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 046 to 50.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 046.

    त्वावतः पुरूवसो वयमिन्द्र प्रणेतः।
    स्मसि स्थातर्हरीणाम्॥ ८.०४६.०१
    त्वां हि सत्यमद्रिवो विद्म दातारमिषाम्।
    विद्म दातारं रयीणाम्॥ ८.०४६.०२
    आ यस्य ते महिमानं शतमूते शतक्रतो।
    गीर्भिर्गृणन्ति कारवः॥ ८.०४६.०३
    सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा।
    मित्रः पान्त्यद्रुहः॥ ८.०४६.०४
    दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते।
    सदा राया पुरुस्पृहा॥ ८.०४६.०५
    तमिन्द्रं दानमीमहे शवसानमभीर्वम्।
    ईशानं राय ईमहे॥ ८.०४६.०६
    तस्मिन्हि सन्त्यूतयो विश्वा अभीरवः सचा।
    तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम्॥ ८.०४६.०७
    यस्ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः।
    य आददिः स्वर्नृभिर्यः पृतनासु दुष्टरः॥ ८.०४६.०८
    यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता।
    स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे॥ ८.०४६.०९
    गव्यो षु णो यथा पुराश्वयोत रथया।
    वरिवस्य महामह॥ ८.०४६.१०
    नहि ते शूर राधसोऽन्तं विन्दामि सत्रा।
    दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ॥ ८.०४६.११
    य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः।
    तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः॥ ८.०४६.१२
    स नो वाजेष्वविता पुरूवसुः पुरःस्थाता मघवा वृत्रहा भुवत्॥ ८.०४६.१३
    अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम्।
    इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा॥ ८.०४६.१४
    ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम्।
    नूनमथ॥ ८.०४६.१५
    विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः।
    कृपयतो नूनमत्यथ॥ ८.०४६.१६
    महः सु वो अरमिषे स्तवामहे मीळ्हुषे अरंगमाय जग्मये।
    यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गाये त्वा नमसा गिरा॥ ८.०४६.१७
    ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम्।
    यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे॥ ८.०४६.१८
    प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर।
    रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते॥ ८.०४६.१९
    सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत।
    प्रासहा सम्राट् सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम्॥ ८.०४६.२०
    आ स एतु य ईवदाँ अदेवः पूर्तमाददे।
    यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीतेऽस्या व्युष्याददे॥ ८.०४६.२१
    षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता।
    दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा॥ ८.०४६.२२
    दश श्यावा ऋधद्रयो वीतवारास आशवः।
    मथ्रा नेमिं नि वावृतुः॥ ८.०४६.२३
    दानासः पृथुश्रवसः कानीतस्य सुराधसः।
    रथं हिरण्ययं ददन्मंहिष्ठः सूरिरभूद्वर्षिष्ठमकृत श्रवः॥ ८.०४६.२४
    आ नो वायो महे तने याहि मखाय पाजसे।
    वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने॥ ८.०४६.२५
    यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम्।
    एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः॥ ८.०४६.२६
    यो म इमं चिदु त्मनामन्दच्चित्रं दावने।
    अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः॥ ८.०४६.२७
    उचथ्ये वपुषि यः स्वराळुत वायो घृतस्नाः।
    अश्वेषितं रजेषितं शुनेषितं प्राज्म तदिदं नु तत्॥ ८.०४६.२८
    अध प्रियमिषिराय षष्टिं सहस्रासनम्।
    अश्वानामिन्न वृष्णाम्॥ ८.०४६.२९
    गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः॥ ८.०४६.३०
    अध यच्चारथे गणे शतमुष्ट्राँ अचिक्रदत्।
    अध श्वित्नेषु विंशतिं शता॥ ८.०४६.३१
    शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे।
    ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः॥ ८.०४६.३२
    अध स्या योषणा मही प्रतीची वशमश्व्यम्।
    अधिरुक्मा वि नीयते॥ ८.०४६.३३

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 047.

    महि वो महतामवो वरुण मित्र दाशुषे।
    यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.०१
    विदा देवा अघानामादित्यासो अपाकृतिम्।
    पक्षा वयो यथोपरि व्यस्मे शर्म यच्छतानेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.०२
    व्यस्मे अधि शर्म तत्पक्षा वयो न यन्तन।
    विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.०३
    यस्मा अरासत क्षयं जीवातुं च प्रचेतसः।
    मनोर्विश्वस्य घेदिम आदित्या राय ईशतेऽनेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.०४
    परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा।
    स्यामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.०५
    परिह्वृतेदना जनो युष्मादत्तस्य वायति।
    देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.०६
    न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु।
    यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.०७
    युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु।
    यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.०८
    अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु।
    माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.०९
    यद्देवाः शर्म शरणं यद्भद्रं यदनातुरम्।
    त्रिधातु यद्वरूथ्यं तदस्मासु वि यन्तनानेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.१०
    आदित्या अव हि ख्यताधि कूलादिव स्पशः।
    सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.११
    नेह भद्रं रक्षस्विने नावयै नोपया उत।
    गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.१२
    यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतम्।
    त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.१३
    यच्च गोषु दुष्ष्वप्न्यं यच्चास्मे दुहितर्दिवः।
    त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.१४
    निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः।
    त्रिते दुष्ष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.१५
    तदन्नाय तदपसे तं भागमुपसेदुषे।
    त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.१६
    यथा कलां यथा शफं यथ ऋणं संनयामसि।
    एवा दुष्ष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.१७
    अजैष्माद्यासनाम चाभूमानागसो वयम्।
    उषो यस्माद्दुष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.१८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 048.

    स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य।
    विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति॥ ८.०४८.०१
    अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य।
    इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः॥ ८.०४८.०२
    अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान्।
    किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य॥ ८.०४८.०३
    शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः।
    सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः॥ ८.०४८.०४
    इमे मा पीता यशस उरुष्यवो रथं न गावः समनाह पर्वसु।
    ते मा रक्षन्तु विस्रसश्चरित्रादुत मा स्रामाद्यवयन्त्विन्दवः॥ ८.०४८.०५
    अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः।
    अथा हि ते मद आ सोम मन्ये रेवाँ इव प्र चरा पुष्टिमच्छ॥ ८.०४८.०६
    इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः।
    सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि॥ ८.०४८.०७
    सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्यास्तस्य विद्धि।
    अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परा दाः॥ ८.०४८.०८
    त्वं हि नस्तन्वः सोम गोपा गात्रेगात्रे निषसत्था नृचक्षाः।
    यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः॥ ८.०४८.०९
    ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः।
    अयं यः सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः॥ ८.०४८.१०
    अप त्या अस्थुरनिरा अमीवा निरत्रसन्तमिषीचीरभैषुः।
    आ सोमो अस्माँ अरुहद्विहाया अगन्म यत्र प्रतिरन्त आयुः॥ ८.०४८.११
    यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्याँ आविवेश।
    तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम॥ ८.०४८.१२
    त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आ ततन्थ।
    तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम्॥ ८.०४८.१३
    त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः।
    वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथमा वदेम॥ ८.०४८.१४
    त्वं नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः।
    त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात्॥ ८.०४८.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 049.

    अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे।
    यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति॥ ८.०४९.०१
    शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे।
    गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः॥ ८.०४९.०२
    आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः।
    आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसे॥ ८.०४९.०३
    अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब।
    आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत्॥ ८.०४९.०४
    आ नः स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः।
    यं ते स्वधावन्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः॥ ८.०४९.०५
    उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम्।
    उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयः॥ ८.०४९.०६
    यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि।
    अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि॥ ८.०४९.०७
    अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः।
    येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे॥ ८.०४९.०८
    एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः।
    यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने॥ ८.०४९.०९
    यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे।
    यथा गोशर्ये असनोरृजिश्वनीन्द्र गोमद्धिरण्यवत्॥ ८.०४९.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 050.

    प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये।
    यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते॥ ८.०५०.०१
    शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः।
    गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः॥ ८.०५०.०२
    यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः।
    आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे॥ ८.०५०.०३
    अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः।
    आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे॥ ८.०५०.०४
    आ नः सोमे स्वध्वर इयानो अत्यो न तोशते।
    यं ते स्वदावन्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम्॥ ८.०५०.०५
    प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः।
    उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे॥ ८.०५०.०६
    यद्ध नूनं परावति यद्वा पृथिव्यां दिवि।
    युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहि॥ ८.०५०.०७
    रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति।
    येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसे॥ ८.०५०.०८
    एतावतस्ते वसो विद्याम शूर नव्यसः।
    यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे॥ ८.०५०.०९
    यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि।
    यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम्॥ ८.०५०.१०

    Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad