Phaladipika. फलदीपिका ।। Astro Classes.
Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.
षड्विंशोऽध्यायः ।। गोचरफल ।।
सर्वेषु लग्नेष्वपि सत्सु चन्द्र-
लग्नं प्रधानं खलु गोचरेषु ।
तस्मात्तदृक्षादपि वर्तमान्-
ग्रहेन्द्रचारैः कथयेत्फलानि ॥ १॥
सूर्यः षट्त्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमाः
जीवस्त्वस्ततपोद्विपञ्चमगतो वक्रार्कजौ षट्त्रिगौ ।
सौम्यः षट्स्वचतुर्दशाष्टमगतः सर्वेऽप्युपान्तस्थिताः
शुक्रः खास्तरिपून्विहाय शुभदस्तिग्मांशुवद्भोगिनौ ॥ २॥
लाभविक्रमखशत्रषु स्थितः
शोभनो निगदितो दिवाकरः ।
खेचरैः सुततपोजलान्त्यगैः
व्यार्किभिर्यदि न विद्ध्यते तदा ॥ ३॥
द्यूनजन्मरिपुलाभखत्रिगः
चन्द्रमाः शुभफलप्रदः सदा ।
स्वात्मजान्त्यमृतिबन्धुधर्मगै
विध्द्यते न विबुधैर्यदि ग्रहैह् ॥ ४॥
विक्रमायरिपुगः कुजः शुभः
स्यात्तदान्त्यसुतधर्मगैः खगैः ।
चेन्न विद्ध इनसूनुरप्यसौ
किन्तु धर्मधृणना न विध्द्यते ॥ ५॥
स्वाम्बुशत्रुमृतिखायगः शुभो
ज्ञस्तदा न खलु विध्द्यते सदा ।
स्वाल्मजत्रितप आद्यनैधन
प्राप्तिगैविबुधुभिर्यदि ग्रहैः ॥ ६॥
स्वायधर्मतनयास्तसंस्थितो नाकनायकपुरोहितः शुभः ।
रिःफरन्ध्रखजलत्रिगैर्यदा विध्द्यते गगनचारिभिर्न हि ॥ ७॥
आसुताष्टमतपोव्ययायगो विद्ध आस्फुजिदशोभनः स्मृतः ।
नैधनास्ततनुकर्मधर्मधीलाभवरिसहजस्थखेचरैः ॥ ८॥
जन्मन्यायासदाता क्षपयति विभवान् क्रोधरोगाध्वदाता
वित्तभ्रंशं द्वितीये दिशति न सुखदो पञ्चनामाग्रहं च ।
स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारिहन्ता
रोगाण् दत्ते चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् ॥ ९॥
वित्तक्षोभं सुतस्थो वितरति बहुशो रोगमोहादिदाता
षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपूञ्छोकमोहान्प्रमाष्टिं ।
आध्वानं सप्तमस्थो जठरगुदभयं दैन्यभावं च तस्मै
रुक्त्रासावष्टमस्थः कलयति कलहं राजभीतिं च तापम् ॥ १०॥
आपद्दैन्यं तपसि विरहं चित्तचेष्टानिरोधं
प्राप्तोन्युग्रां दशमगृहगे कर्मसिद्धिं दिनेशे ।
स्थानं मानं विभवमपि चैकादशे रोगनाशं
क्लेशं वित्तक्षयमपि सुहृद्वैरमन्त्ये ज्वरं च ॥ ११॥
क्रमेण भाग्योदयमर्थहातिं जयं श्लोकमरोगतां च ।
सुखान्यनिष्टं गदमिष्टसिद्धिं मोदं व्ययं च प्रददाति चन्द्रः ॥ १२॥
अन्तः शोकं स्वजनविरहं रक्तपित्तोष्णरोगं
लग्ने वित्ते भयमपि गिरां दोषमर्थक्षयं च ।
धैरे भौमो जनयति जयं स्वर्णभूषम्प्रमोदं
स्थानभ्रंशं रुजमुदरजां बन्धुदुःखं चतुर्थे ॥ १३॥
ज्वरमनुचितचिन्तां पुत्रहेतुव्यथां वा
कलयति कलहंस्वैः पञ्चमे भूमिपुत्रः ।
रिपुकलहनिवृत्तिं रोगशान्तिं च षष्ठे
विजयमथ धनाप्तिं सर्वकार्यानुकूल्यम् ॥ १४॥
कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे
ज्वरक्षतजरूक्षितो विगतवित्तमानोऽष्टमे ।
कुजे नवमसंस्थिते परिभवोऽर्थनाशादिभि-
विलम्बितगतिर्भवत्यबलदेहधातुक्षयैः ॥ १५॥
दुश्चेष्टा वा कर्मविघ्नः श्रमः खे
द्रव्यारोग्यक्षेत्रवृद्धिश्च लाभे ।
भौमः खेटो गोचरे द्वादशस्थो
द्रव्यच्छेदस्ताप उष्णामयाद्यैः ॥ १६॥
वित्तक्षयं श्रियमरातिभयं धनाप्तिं
भार्याप्तनूजकलहं यिजयं विरोधम् ।
पुत्रार्थलाभमथ विघ्नमशेषसौख्यं
पुष्टिं पराभवभयं प्रकरोति चान्द्रिः ॥ १७॥
जीवे जन्मनि देशनिर्गमनमप्यर्थच्युतिं शत्रुतां
प्राप्नोति द्रविणं कुटुम्बसुखमप्यर्थे स्ववाचां फलम् ।
दुश्चिक्ये स्थितिनाशमिष्टवियुतिं कार्यान्तरायं रुजं
दुःखैर्बन्धुजनोद्भवैश्च हिबुके दैन्यं चतुष्पाद्भयम् ॥ १८॥
पुत्रोत्पत्तिमुपैति सज्जनयुतिं राजामुकूल्यं सुते
षष्ठे मन्त्रिणि पीडयन्ति रिपवः स्वज्ञातयो व्याधयः ।
यात्रां शोभनहेतवे वनितया सौख्यं सुताप्तिं स्मरे
मार्गक्लेशमरिष्टमष्टमगते नष्टं धनैः कष्टताम् ॥ १९॥
भाग्ये जीवे सर्वसौभाग्यसिद्धिः
कर्मण्यर्थास्थनपुत्रादिपिडा
लाभे पुत्रस्थानमानदिलाभो
रिःफे दुःखं साध्वसं द्रव्यहेतोः ॥ २०॥
अखिलविषयभोगं वित्तसिद्धिं विभूतिं
सुखसुहृदभिवृद्धिं पुत्रलब्धिं विपत्तिम् ।
दिशति युवतिपीडां सम्पदं वा सुखाप्तिं
कलहमभयमर्थप्राप्तिमिन्द्रारिमन्त्री ॥ २१॥
रोगाशौचक्रियाप्तिं धनसुतविहतिं स्थानभृत्यार्थलाभं
स्त्रीबन्ध्वर्थप्रणाशं द्रविणसुतमतिप्रच्युतिं सर्वसौख्यम् ।
स्त्रीरोगाध्वावभीतिं स्वसुतपशुसुहृद्बित्तनाशामयातिं
जन्मादेरष्टमान्तं दिशति पदवशेनार्कसूनुः क्रमेण ॥ २२॥
दारिध्रं धर्मविघ्नं पितृसमविलयं नित्यदुःखं शुभस्थे
दुर्व्यापारप्रवृत्तिं कलयति दशमे मानभङ्गं रुजं वा ।
सौख्यान्येकादशस्थो बहुविधविभवप्राप्तिमुत्कृष्टकीर्तिं
विश्रान्ति व्यर्थकार्याद्विसुहृतिमरिभिः स्त्रीसुतव्याधिमन्त्ये ॥ २३॥
देहक्षयं वित्तविनाशसौख्ये
दुःखार्थनाशौ सुखनाशमृत्यून् ।
हानिं च लाभं सुभगं व्ययं च
कुर्यत्तमो जन्मगृहात्क्रमेण ॥ २४॥
क्षितितनयपतङ्गौ राशिपूर्वत्रिभागे
सुरपतिगुरुशुक्रौ राशिमध्यत्रिभागे।
तुहिनकिरणमन्दौ राशिपाश्चात्यभागे
शशितनयभुजङ्गौ पाकदौ सार्वकालम् ॥ २५॥
नक्षत्रगोचरम्
रेखाह् सप्तसमालिखेदुपरिगास्तिर्यक्तथैव क्रमा-
दीशादग्निभमादितोऽपि गणयेदादित्यभस्यावधि ।
वेधा जन्मादिने मृतिर्भयमथाधानाख्यनक्षत्रके
कर्मण्यर्थविनाशं खलु रविर्दद्यात्सपापो मृतिम् ॥ २६॥
एवं विद्धे खचरैः क्रररन्यैर्मरणम् ।
सौम्यैर्विद्धे न मृतिविद्यादेवं सकलं ॥ २७॥
आधनकर्मर्क्षविपन्निजर्क्षे
वैनाशिके प्रत्यरभे वधाख्ये
पापग्रहो मृत्युभयं विदध्या
द्वेधेतथा कार्यहरः शुभाख्ये ॥ २८॥
आदित्यसङ्क्रान्तिदिने ग्रहाणं
प्रवेशने वा ग्रहणे च युद्धे ।
उल्कानिपाते च तथाद्भुते च
जन्मत्रयं स्यान्मरणादिदुःखम् ॥ २९॥
असत्फलः सौम्यनिरीक्षितो यः
शुभप्रदश्चाप्यशुभेक्षितश्च ।
द्वौ निष्फलौ द्वावपि खेचरेन्द्रौ
यः शत्रुणा स्वेन विलोकितश्च ॥ ३०॥
अनिष्टभावस्थितखेचरेन्द्रः
स्वोच्चस्वगेहोपगतो यदि स्यात् ।
न दोषकृच्चोत्तमभावगश्चेत्
पूर्णं फलं यच्छति गोचरेषु ॥ ३१॥
ग्रहेश्वरारुते शुभगोचरस्था
नीचारिमौढ्यं समुपाश्रिताश्रेत् ।
ते निष्फलाः किन्त्वशुभाङ्कसंस्थाः
कष्टं फलं संविदधत्यनल्पम् ॥ ३२॥
द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गारका गुरुः ।
कुर्वन्ति प्राणसन्देहं स्थानभ्रंशं धनक्षयम् ॥ ३३॥
चद्राष्टमे च धरणीतनयः कलत्रे
राहुः शुभे कविररौ च गुरुस्तृतीये ।
अर्कः सुतेऽर्किरुदये च बुधश्चतुर्थे
मानार्थहानिमरणानि वदेद्विशेषात् ॥ ३४॥
अङ्गग्रहाः
वक्त्रे क्ष्मा मूर्घ्नि चत्वार्युरसि च चतुरः सव्यहस्ते चतुष्कं
पादे षड्वामहस्ते चतुरथ नयने द्वौ च गुह्ये द्वयं च ।
भानुर्नाशं विभुतिं विजयमथ धनं निर्धनं देहपीडां
लाभं मृत्युं च चक्रे जनयति विविधान् जन्मभाद्देहसंस्थः ॥ ३५॥
शीतांशोर्वदने द्वयोरतिभयं क्षेमंशिरस्यम्बुधौ
पृष्ठे शत्रुजयं द्वयोर्नयनयोर्नेत्रे धनं जन्मभात् ।
पञ्चस्वात्मसुखं हृदि त्रिषु करे वामे विरोधं क्रमात्
पादौ षट्सु विदेशतां जनयति त्रिष्वर्थलाभं करे ॥ ३६॥
वक्त्रे द्वे मरणं करोत्यवनिजः षट् पादयोविग्रहं
क्रोडे त्रीणि जयं चतुर्विधनतां वामे करे मस्तके ।
द्वे लाभं चतुराननेऽधिकभयं क्षेमङ्करे दक्षिणे
वार्द्धिर्द्वे नयने विदेशगमनं चक्रे स्वजन्मर्क्षतः ॥ ३७॥
मूघ्निं त्रीणि मुखे त्रयं च करयोः षट् पञ्च कुक्षौ तथा
लिङ्गे द्वे द्विचतुष्टयं चरणयोः प्राप्तेऽमरेन्द्राचिन्तः ।
शोकं लाभमनर्थमर्थनिचयं नाशं प्रतिष्ठां तथा
दद्यादात्मदिनात्तथैव भृगुजस्तद्वद्बुधोऽपि क्रमात् ॥ ३८॥
भूवेदवह्निगुणवेदशराग्नेत्र-
दस्त्रं च वक्त्रकरपादपदेषु हस्ते ।
कुक्षौ च मूर्घ्नि नयनद्वयपृष्ठोभागे
न्यस्य क्रमेण शनिसंयुतभान्निजर्क्षात् ॥ ३९॥
दुःखं च सौख्यं गमनं च नाशं
लाभं स्वभोगं सुखसौख्यमृत्यून् ।
वक्त्रक्रमादाह फलानि मन्द-
स्यैवं तमःखेचरयोर्वदन्तु ॥ ४०॥
यत्राष्टवर्गेऽधिकबिन्दवः स्यु-
स्तत्र स्थितो गोचरतो ग्रहेन्द्रः ।
तद्वत्फलं प्राह शुभं व्ययारि-
रन्ध्रस्थितो वाऽपि शुभं विद्धत्ते ॥ ४१॥
रवेद्वदिशनक्षत्रं भूसुतस्य तृतीयकम् ।
गुरोः षट्तारकं चैव शनेरष्टमतारकम् ॥ ४२॥
एतेषां च पुरोलत्ता पृष्ठोलत्तः प्रकीर्त्तिताः ।
शुक्रस्य पञ्चमं तारं चन्द्रजस्य तु सप्तमम् ॥ ४३॥
राहोस्तु नवम चैव द्वाविंशं भं हिमद्युतेः ।
ग्रहस्थितर्क्षाद्गणयेल्लत्तायां जन्मभे व्यथा ॥ ४४॥
रवेः सर्वार्थहानिः स्यात्तमसोर्दुःखमुच्यते ।
मरणं जीवलत्तायां बन्धुनाशो भयावहः ॥ ४५॥
शुक्रस्य कलहो भ्रंश अनर्थः शशिजस्य तु ।
चन्द्रस्य तु महाहानिर्लत्तामात्रफलं भवेत् ॥ ४६॥
सर्वत्र लत्तासाङ्कर्ये द्विगुणत्रिगुणादिकम् ।
वदेद्दोषफलं नॄणां ग्रहाल्लत्ताधिकक्रमात् ॥ ४७॥
सर्वतो भद्र चक्रोक्त शुभवेधाः शुभावहाः ।
पापवेधा दुःखतरा गोचरेताश्च चित्तयेत् ॥ ४८॥

No comments