Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    चतुर्विंशोऽध्यायः ।। प्रष्टकवर्गफल ।।

    अर्कस्थितस्य नवमो राशिः पितृगृहः स्मृतः
    तद्राशिफलसङ्ख्याभिर्वर्द्धयेच्क्षोध्यपिण्डकम् ॥ १॥
    सप्तविंशहृताल्लब्धं नक्षत्रं याति भानुजे ।
    तस्मिन् काले पितृक्लेशो भवेष्यति न संशयः ॥ २॥
    तत्त्रिकोणगते वाऽपि पितृतुल्यस्य वा मृतः ।
    संयोगः शोध्यशिषाणां शोध्यपिण्ड इति स्मृतः ॥ ३॥
    लग्नात्सुखेश्वरांशेशदशायां च पितृक्षयः ।
    सुखनाथदशायां वा पितृतुल्यमृतिं वदेत् ॥ ४॥
    संशोध्य पिण्डं सूर्यस्य रन्ध्रमानेन वर्द्धयेत् ।
    द्वादशेन हताच्छेषराशिं याते दिवाकरे ॥ ५॥
    तत्त्रिकोणगते वाऽपि मरणं तस्य निर्दिशेत् ।
    एवं ग्रहाणां सर्वेषां चिन्तयेन्मतिमान्नरः ॥ ६॥
    चन्द्रात्सुखफलैः पिन्डं हत्वा सारावशेषितम् ।
    शनौ याते मातृहानिः त्रिकोणर्क्षगतेऽपि वा ॥ ७॥
    चन्द्रात्सुखाष्टमेशंशत्रिकोणे विदेसाधिपे ।
    मातुविंयोगं तन्मासे निर्दिश्लेल्लग्नतः पितुः ॥ ८॥
    भौमात्तृत्तीयराशिस्थफलैभ्रातृगणं वदेत् ।
    बुधात्सुखफलैर्बन्धुगणं वा मातुलस्य च ॥ ९॥
    गुरुस्थितसुतस्थाने यावतां विद्यते फलम् ।
    शत्रुनीचग्रहं स्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥ १०॥
    गुरोरष्टकवर्गे तु शोध्यशिष्टफलानि वै ।
    क्रूरराशिफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥ ११॥
    फलाधिकं भृगोर्यत्र तत्र भार्याजनिर्यदि ।
    तस्यां वंशाभिवृद्धिः स्यादल्पे क्षीणार्थसन्ततिः ॥ १२॥
    शोध्यपिण्डं शनेर्लग्नाद्धत्वा रन्ध्रफलैः सुखैः ।
    हृत्वावशेषभं याते मन्दे जीवेऽपि वा मृतिः ॥ १३॥
    लग्नादिमन्दान्तफलैक्यसङ्ख्या-
    वर्षे विपत्तिस्तु तथार्कपुत्रात् ।
    यावद्विलग्गान्तफलानि तस्मिन्-
    नाशो हि तद्योगसमानवर्षे ॥ १४॥
    अष्टमस्त्थफलैर्लग्नात्पिण्डं हत्वा सुखैर्भजेत् ।
    फलमायुविजानीयात्प्राग्वद्वेलां तु कल्पयेत्
    त्रिकोण शोधन
    त्रिकोणेषु तु यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् ।
    एकस्मिन् भवने शून्ये तत्रिकोणं न शोधयेत् ॥ १६॥
    भवनद्वयशून्ये तु शोधयेदन्यमन्दिरम् ।
    समत्वे सर्वगेहेषु सर्वं संशोधयेत्तदा ॥ १७॥
    एकाधिपत्य शोधन
    त्रिकोणशोधनां कृत्वा प्रश्चदैकाहिपत्यकम् ।
    क्षेत्रेद्वये फलानि स्युस्तदा संशोधयेत्सुधीः ॥ १८॥
    ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके ।
    ऊनेन सदृशन्त्वस्मिन् शोधयेद्ग्रहवर्जिते ॥ १९॥
    फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वम्त्सृजेत् ।
    सग्रहाग्रहतुल्यत्वे सर्वं संशोध्यमग्रहात् ॥ २०॥
    उभाभ्यां ग्रहहीनाभ्यांसमत्वे सकलं त्यजेत् ।
    उभयोर्ग्रहसंयुक्ते न संशोध्यं कदाचन ॥ २१॥
    एकस्मिन् भवने शून्ये न संशोध्यं कदाचन ।
    द्वावग्रहौ चेद्यन्नयूनं तत्तुल्यं शोधयेद्द्वयोः ॥ २२॥
    शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्द्धयेत् ।
    ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत् ॥ २३॥
    राशि गुणक आउर ग्रह गुणक
    गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिभे ।
    वणिङ्मेषौ च मुनिभिः कन्यकामकरे शरैः ॥ २४॥
    शेषाः स्वमानगुणिताः कर्किचापघटीभुषाः ।
    एते राशिगुणाः प्रोक्ताः पृथग्ग्रहगुणाः पृथक् ॥ २५॥
    जीवारशुक्रसौम्यानां दशवसुमप्तेन्द्रियैः क्रमाद्गुणिता ।
    बुधसङ्ख्या शेषाणां राशिगुणाद्ग्रहगुणः पृथक्कार्यः ॥ २६॥
    एवं गुनित्वा संयोज्य सप्तभिर्गुणयेत्पुनः ।
    सप्तविंशहृतालब्धवर्षाण्यत्र भवन्ति हि ॥ २७॥
    द्वादशाद्गुणयेल्लब्धा मासाहर्घतिकाः क्रमात् ।
    सप्तविंशति वर्शाणि मण्डलं शोधयेत्पुनः ॥ २८॥
    अन्योऽन्यमर्द्धहरणं ग्रहयुक्ते तु कारयेत् ।
    नीचेऽर्द्धमस्तगेऽप्यर्द्धहरणं तेषु कारयेत् ॥ २९॥
    शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा ।
    त्र्यंशोनहरणं भङ्गे सूर्येन्द्वोः पातसंश्रयात् ॥ ३०॥
    बहुत्वे हरणे प्राप्ते कारयेद्वलवत्तरम् ।
    पश्चात्तान् सकलान् कृत्वा वराङ्गेण विवर्द्धयेत् ॥ ३१॥
    मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः ।
    पूर्ववद्दिनमासाब्दान् कृत्वा तस्य दशा भवेत् ॥ ३२॥
    एवं ग्रहानां सर्वेषं दशां कुर्यात् पृथक् पृथक् ।
    अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः ॥ ३३॥
    बलो बलिष्तो लवणागमोसुरो
    रागी मुररिः शिखरीन्द्रगाथया
    भौमो गणेन्द्रो लघुभावतासुरो
    गोकर्णरक्ता तु पुरणर्मथिली ॥ ३४॥
    रुद्रः परं गह्वरम्भैरवस्थली
    रागी वली भास्वरगीर्भगाचलाः ।
    गिरौ विवस्वान्बलवद्विवक्षया
    शुली मम प्रीतिकरोऽत्र तीर्थकृत् ॥ ३५॥
    सर्वकर्मफलोपेतमष्टवर्गकमुच्यते ।
    अन्यथा बलविज्ञानं दुर्ज्ञेयं गुणदोषजम् ॥ ३६॥
    त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।
    पञ्चविंशात्परं मध्यं कष्टं तस्मादधः फलम् ॥ ३७॥
    मध्यात्फलाधिकं लाभे लाभात् क्षीणतरे व्यये ।
    यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत् ॥ ३८॥
    मूर्त्यादि व्ययभावान्तं दृष्ट्वा भावफलानि वै ।
    अधिके शोभनं विद्याद्धीने दोषं विनिर्दिशेत् ॥ ३९॥
    षष्ठाष्ठमव्ययांस्त्यक्त्वा शेषेष्वेव परकल्पयेत् ।
    श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत् ॥ ४०॥
    लग्नात्प्रभृति मन्दान्तमेकीकृत्य फलानि वै ।
    सप्तभिर्गुणयेत्पश्चात्सप्तविंशहृतात्फलम् ॥ ४१॥
    तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् ।
    एवं मन्दानि लग्नान्तं भौमराह्वोस्तथा फलम् ॥ ४२॥
    शुभग्रहाणां संयोगसमानाब्दे शुभं भवेत् ।
    पुत्रवित्तसुखादीनि लभते नात्र संशयः ॥ ४३॥
    सङ्ग्रहेण मया प्रोक्तमष्टवर्गफलं त्विह ।
    तज्ज्ञैर्विस्तरतः प्रोक्तमन्यत्र पटुबुद्धिभिः ॥ ४४॥

    No comments

    Post Top Ad

    Post Bottom Ad