Phaladipika. फलदीपिका ।। Astro Classes.
Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.
एकविंशोऽध्यायः ।। प्रत्यन्तर्दशाफल ।।
अपहारविभागलक्षणं तत्पङ्क्तिं क्रमशः स्फुटं प्रवचिम् ।
यदुदीरितमत्र तत्समस्तं कथयेत्स्वदशान्तरान्तरादौ ॥ १॥
पाकेशाब्दहता दशेश्वरसमा नेत्राङ्कभक्ताः समाः
शिष्ट रूपहता नराङ्कविहृता मासा नगैर्वासराः ।
छिद्रादिष्वपि चैवमेव कलयेत्पाकक्रमाच्चेद्दशा-
नाथाद्या पुनरन्तरान्तरदशास्तत्पाकनाथक्रमाः ॥ २॥
सूर्य
महीश्वरादुपलभतेऽधिकं यशो
वनाचलस्थलवसतिं धनागमम् ।
ज्वरोष्णरुग्जनकवियोगजं भयं
निजां दशां प्रविशति नीक्षणदीधितौ ॥ ३॥
रिपुक्षयो व्यसनशमो धनागमः
कृषिक्रिया गृहकरणं सुहृद्युतिः
क्षयानलप्रतिहतिरकर्दायकं
शशी यदा हरति जलोद्भवा रुजः ॥ ४ ॥
रुजागमः पदविरहोऽरिपीडनं
वर्णोद्भवः स्वकुलजनैर्वरोधिता
महीभृतो भवति भयं धनच्युति
यर्दा कुजो हरति तद्ऽर्कर्वत्सरम् ॥ ५ ॥
रिपूदयो धनहृतिरापदुद्गमो
विषाद्भयं विषयविमूढता पुनः
शिरोदृशोरधिकरुगेव देहिनाम्
अहौ भवेधिमकरायुरन्तरो ॥ ६॥
रिपुक्षयो विविधधनाप्तिरन्वहं
सुरार्चनं द्विजगुरुबन्धुपूजनम् ।
श्रवःश्रमो भवति च यक्ष्मरोगिता
सुराचिन्ते प्रविशति गोपशति गोपतेर्दशाम् ॥ ७॥
धनाहतिः सुतविरहः स्त्रिया रुजो
गुरुव्ययः सपदि परिच्छदच्युतिः ।
मलिष्ठता भवति कफप्रपीदनं
शनैश्चरे सवितृदशान्तरं गते ॥ ८॥
विचन्चिका पिटकसकुष्ठकामिला
विशर्धनं जठरकटिप्रपीडनम् ।
महीक्षयः त्रिगदभयं भवेत्तदा
विधोः सुते चरति रवेरथाब्दकम् ॥ ९॥
सुहृव्द्ययुः स्वजनकुटुम्बविग्रहो
रिपोर्भयं धनहरणं पदच्युतिः ।
गुरोर्गदश्चरणशिरोरुगुच्चकैः
शिखी यदा विशति दशां विवस्वतः ॥ १०॥
शिरोरुजा जठरगुदातिम्पीडनं
कृषिक्रिया गृहधनधन्यविच्युतिः ।
सुतस्त्रियोरसुखमतीव देहिनां
भृगोः सुते चरति रवेरथाब्दकम् ॥ ११॥
चन्द्र-विचार
स्त्रीप्रजाप्तिरमलांशुकागमो
भूसुरोत्तमसमागमो भवेत् ।
मातुरिष्टफलमङ्गनासुखं
स्वां दशां विशति शीतदीधितौ ॥ १२॥
पित्तवह्निरुधिरोद्भवा रुजः
क्लेशदुःखरिपुचोरपीडनम् ।
वित्तमानविहतिर्भवेत्कुजे
शीतदीधितिदशान्तरं गते ॥ १३॥
तीव्रदोषरिपुवृद्धिबन्धुरुङ् मारुताशनिभयातिरुद्भवेत् ।
अन्नपानजनितज्वरोदयाश्चन्द्रवत्सरविहारके ह्यहौ ॥ १४॥
दानधर्मनिरतिः सुखोदयो वस्त्रभूषणसुहृत्समागमः ।
राजसत्कृतिरतीव जायते कैरवप्रियवयोहरे गुरऊ ॥ १५॥
नैकरोगविहतिः सुहृत्सुत-
स्त्रीरुजा व्यसनसम्भवो महान् ।
प्राणहानिरथवा भवेच्छनौ
मारबन्धुवयसो गतेऽन्तरम् ॥ १६॥
सर्वदा धनगजाश्वगोकुल-
प्राप्तिराभरणसौख्यसम्पदः ।
चित्तबोध इति जायते विधो-
रायुषि प्रवेशति प्रबोधने ॥ १७
चित्तहानिरपि सपदश्च्युति-
र्बन्धुहानिरपि तोयजं भयम् ।
दासभृत्यहतिरस्ति देहिनां
केतुके हरति चान्द्रमब्दकम् ॥ १८॥
तोययानवसुभूषणाङ्गनाविक्रयक्रयकृषिक्रियादयः ।
पुत्रमित्रपशुधान्यसंयुतिश्चन्द्रदायहरणोन्मुखे भृगौ ॥ १९॥
राजमाननमतीव शूरता रोगशान्तिररिपक्षविच्युतिः ।
पित्तवातरुगिने गते तदा स्याच्छशाङ्कपरिवत्सरान्तरम् ॥ २०॥
मङ्गल की महादशा में विविध अन्तर्दशों का फल
पित्तोष्णरुग्व्रणभयं सहजैवियोगः
क्षेत्रप्रवादजनितार्थविभूतिसिद्धिः ।
ज्ञात्यग्निशत्रुनृपचोरजनैविरोधो
धात्रीसुतो हरति चेच्छरदं स्वकीयाम् ॥ २१॥
शस्त्राग्निचोररिपुभूपभयं विषातिः
शुक्ष्यक्षिशीर्षजगदो गुरुबन्धुहानिः ।
प्राणव्ययोऽथ यदिवा विपुलापदो वा
वक्रायुरन्तरगते भुजगाधिनाथे ॥ २२॥
द्विजविबुधसमर्चा तिर्थपुण्यानुसेवा
सततमतिथिपूजा पुत्रमित्रादिवृद्धिः ।
श्रवणरुगतिमात्रं श्लेष्मरोगोद्भवो वा
भवतिकुजदशान्तः सङ्गते वागधीशे ॥ २३॥
उपर्युपरिविनाशः स्वात्मजस्त्रीगुरूणा-
मगणितविपदन्तर्दुःखमर्थोपहानिः ।
वसुहरणमरिभ्यो भीतिरुष्णानिलाग्नि-
र्भवति कुजदशायामर्कजे सम्प्रयाते ॥ २४॥
अरिभयमुरुचोरोपद्रवोऽथार्थहानिः
पशुगजतुरगाणां विप्लवोऽमित्रयोगः ।
नृपकृतपरिपीडा शूद्रवैरोद्भवो वा
विशति शशितनूजे विष्वधात्रीसुतायुः ॥ २५॥
अशनिभयमकस्मादग्निशस्त्रप्रपीडा
विगमनमथ देहाद्वित्तनाशोऽथवा स्यात् ।
अपगमनमसुभ्यो योषितो वा विनाशः
प्रविशति यदि केतुः क्रूरनेत्रायुरन्तम् ॥ २६॥
युधि जनितविमानं विप्रवासः स्वदेशा-
द्वसुहृतिरपि चोरैर्वमनेत्रोपरोधः ।
परिजनपरिहानिर्जायते मानवाना-
मपहरति यदायुर्भौमिजं भार्गवेन्द्रः ॥ २७॥
नृपकृतपरिपूजा यद्धलब्धप्रभावः
परिजनधनधान्यश्रीमदन्तःपुरं च ।
अतिविलसितकृत्तः साहसादाप्तलक्ष्मी-
स्तिमिरभिदि कुजायुर्दायसंहारिणीति ॥ २८॥
विविधधनसुताप्तिविप्रयोगोऽरिवर्गै-
र्वसनशयनभूषारत्नसम्पत्प्रसूतिः ।
भवति गुरुजनातिर्गुल्मपित्तप्रपीडा
धरणितनयवर्षं शीतगौ सम्प्रयाते ॥ २९॥
राहु की महादशा में विविध अन्तर्दशों का फल
विषाम्बुरुग्दुष्टभुजङ्गदर्शनं
पराबलासंयुतिरिष्टविच्युतिः ।
अरिष्टवाग्दुष्टजनव्यथा
भवेद्विधुन्तुदेनापहृते स्ववत्सरे ॥ ३०॥
सुखोपनीतिः सुरविप्रपूजनं
विरोगता वामदृशां समागमः ।
सुपुण्यशास्त्रर्थविचारसम्भवः
सुरारिदायान्तगे बृहस्पतौ ॥ ३१॥
समीरपित्तप्रगदक्षतिस्तनौ
तनूजयोषित्सहजैश्च विग्रहः ।
स्वभृत्यनाशश्च पदच्युतिर्भवेत्-
दितिप्रजायुः प्रविस्शत्यथार्कजे ॥ ३२॥
सुतस्वसिद्धिः सुहृदां समागमो
मनोविनिन्द्यत्वमतीव जायते ।
पटुक्रियाभूषणकौशलादयो
भुजङ्गसंवत्सरहारिणीन्दुजे ॥ ३३॥
ज्वराग्निशस्त्रारिभयं शिरोरुजा
शरीरकम्पः स्वसुहृद्गुरुव्यथा ।
विषव्रणातिः कलहः सुहृज्जनै-
रहीन्द्रदायान्तरगे शिखाधरे ॥ ३४॥
कलत्रलब्धिः शयनोपचारता
तुरङ्गमातङ्गमहीसमागमः ।
कफानिलाप्तिः स्वजनैविरोधिता
भवेद्भुजङ्गायुरपाहृतौ भृगोः ॥ ३५॥
अरिव्यथा स्यादतिपीडनं
दृशोविंषाग्निशस्त्राहतिरापदुद्गमः ।
वधूसुतातिर्नृपतेर्महद्भयं
भुजङ्गवर्षे तिमिरारिणा हृते ॥ ३६॥
वधूविनाशः कलहो मनोरुजा
कृषिक्रयावित्तपशुप्रजाक्षयः ।
सुहृद्विपत्तिः सलिलाद्भयं भवे-
द्विधौ दशाभक्तरि देवविद्विधः ॥ ३७॥
नृपाग्निचोरास्त्रभयं शरीरिणां
शरीरनाशो यदि वा महारुजः ।
पदभ्रमो हृन्नयनप्रपीडनं
यदात्र सर्पयुषि सञ्चरेत्कुजः ॥ ३८॥
बृहस्पति की महादशा में विविध अन्तर्दशों का फल
सौभाग्यकान्तितबहुमानगुणोदयः
स्यात्सत्पुत्रसिद्धिरवनीपतिपूजनं च ।
आचार्यसाधुजनसंयुतिरिष्टसिद्धिः
सवत्सरं हरति देवगुरौ स्वकीयम् ॥ ३९॥
वेश्याङ्गनामदकृदासवदोषसङ्ग
उत्कर्षसौख्यसकुटुम्बपशुप्रपीडा ।
अर्थव्ययोरुभयमक्षिजरुक्सुताति
जैवीं दशां विशति दैनकरे नराणाम् ॥ ४०॥
स्त्रीद्यूतमद्यजमहाव्यसनं त्रिदोषैः
केचिद्वदन्त्यपि च केवलमङ्गलाप्तिः ।
देवद्विजार्चनसुतार्थसुखप्रयोगै-
र्गीवर्णपूजितदशां हरतीन्दुसूतौ ॥ ४१॥
शस्त्रव्रणं भवति भृत्यजनैविरोध-
श्चित्तव्यथा तनययोषिदुपद्रवश्च ।
प्रणच्युतिर्गुरुसुहृज्जनविप्रयोगः
सौरेड्यमायुरपहृत्य ददाति केतुः ॥ ४२॥
नानाविधार्थपशुधान्यपरिच्छदस्त्री-
पुत्रान्नपानशयनाम्बरभूषणाप्तिः ।
देवद्विजार्चनमुपासनतत्परत्व-
मायुर्यदा हरति जैवमथासुरेड्यः ॥ ४३॥
शत्रोर्जयः क्षितिपमाननकीर्तिलाभः
स्याच्चण्डता नरतुरङ्गमवाहनाप्तिः ।
श्रेण्यग्रहारपुरराष्ट्रसमस्तसम्पद
दुच्चैरुचथ्यसहजायुरपाहृतेऽर्के ॥ ४४॥
योषिद्बहुत्वमरिनाशनमर्थलाभः
कृष्यर्थवस्तुपरमोन्नतकीर्तिलाभः ।
दवद्विजार्चनपरत्वमतीव पुंसां
सञ्जायते गुरुदशाहृति शर्वरीशे ॥ ४५॥
बन्धूपतोषणमरिव्रजतोऽर्थलाभः
सुक्षेत्रसत्कृतिरिह प्रथितप्रभावः
इर्षद्गुरूपहतिरीक्षणसुक्षतिर्वा
क्षित्यात्मजे हरति वत्सरमार्यजातम् ॥ ४६॥
बन्धूपतप्तिरुरुमानसरुग्गदार्ति-
श्चोराद्भयं गुरुगदो जठरोद्भवो वा ।
राजेन्द्रपीडनमरिव्यसनं स्वनाशः
सम्पद्यते हरति सूरिदशां सुरारौ ॥ ४७॥
शनि को महादशा में विविध अन्तर्दशों का फल
कृषिवृद्धभृत्यमहिषाभ्युदयः
पवनामयो वृषलजातिधनम् ।
स्थविराङ्गनाप्तिरलसत्वमघो
निजवत्सरान्तरगते रविजे ॥ ४८॥
सुभगत्वमस्ति सुखित वनिता
नृपलालनं विजयमित्रयुतिः
त्रिगदोद्भवः सहजपुत्ररुजा
शनिदायहारिणि शशाङ्कसुते ॥ ४९॥
मरुदग्निपीडनमरिव्यसनं
सुतदारविग्रमतिः सततम् ।
अशुभावलोकनमहेश्च भयं
मृदुवत्सरं हरति केतुपतौ ॥ ५०॥
सुहृदङ्गनातनयसौख्ययुतः
कृषितोययानजनितार्थचयः ।
शुभकीर्तिरुद्भवति देहभृतां
यमदायहारिणि भृगोस्तनये ॥ ५१॥
मरणं तु वा रिपुभयं सततं
गुरुवर्गरुग्जठरनेत्ररुजा ।
धनधान्यविच्युतिरिह प्रभवेत्-
रविजायुराविशति तीव्रकरे ॥ ५२॥
वनिताहतिर्मरणमेव नृणां
सुहृदां विपत्तिरथ रोगभयम् ।
जलवातजं भयमतीव भवेत्-
रविजायुराविशति रात्रिकरे ॥ ५३॥
स्वपदच्युतिः स्वजनविग्रहरुक्-
ज्वरवाह्नशस्त्रविशभिरथ वा ।
अरिवृद्धिरान्तररुगक्षिभयं
रविजायुराविशति भुमिसुते ॥ ५४॥
अप्मार्गयानमसुभिविरहस्तु
अथ वा प्रमेहगुरुगुल्मभयम् ।
ज्वररुक्क्षतिः सततमेव नृणा-
मसितान्तरं विशति भोगिपतौ ॥ ५५॥
अमरार्चनद्विजगणाभिरुचि-
र्गृहपुत्रदारविहतिस्तु भवेत् ।
धनधान्यवृद्धिरधिका हि नृणां
गतवत्यथार्किवयसीन्द्रगुरौ ॥ ५६॥
बुध की महादशा में विविध अन्तर्दशों का फल
धर्मार्गनिरतिर्विवपश्चितां
सङ्गमो विमलधीर्घनं द्विजात् ।
विद्यया बहुयशः सुखं सदा
चन्द्रजे हरति वत्सरं स्वकम् ॥ ५७॥
दुःखशोककलहाकुलात्मता
गात्रकम्पनममित्रसंयुतिः ।
क्षेत्रयान्विप्युतिर्यदा भवेत्-
सोममसूनुशरदं गतः शिखी ॥ ५८॥
देवविप्रगुरुपूजनक्रिया दानधर्मपरतासमागमः ।
वस्त्रभूषणसुहृद्युतिर्भवेद्बोधनायुषि समागते सिते ॥ ५९॥
हेमविद्रुमतुरङ्गवारणप्रावृतं भवनमन्नपानयुक् ।
भूपतेरपि च पूजनं भवेद्भानुमालिनि बुधाब्दकं गते ॥ ६०॥
मस्तकव्यसनमक्षिपीडनं कुष्ठदद्रुबहुकण्ठपीडनम् ।
प्राणसंशययुतिर्नृणां भवेज्ज्ञायुषं व्रजति शीतदीघितौ ॥ ६१॥
अग्निभीतिरपि नेत्रजा रुजा चोरजं भयमतीव दुःखिता ।
स्थानहानिरथ वातरोगिता ज्ञायुषं हरति मेदिनीसुते ॥ ६२॥
मानहानिरथवाश्रयच्युतिः स्वक्षयोऽग्निविषतोयजं भयम् ।
मस्तकाक्षिजठरप्रपीडनं शीतरश्मिजदशां गतेऽसुरे ॥ ६३॥
व्याधिशत्रुभयविच्युतिर्भवे-
द्ब्रह्मसिद्धिरवनीशसत्कृतिः ।
धर्मसिद्धितपसां समुद्ग्रमो
देवमन्त्रिणि विदो दशां गते ॥ ६४॥
अर्थधर्मपरिलुप्तिरुच्चकैः
सर्वकार्यविफलत्वमङ्गिनाम् ।
श्लेष्मवातजनिता रुगुद्भवे-
द्वोधनायुषि समागतेऽसिते ॥ ६५॥
केतु की महादशा में विविध अन्तर्दशों का फल
रिपुजनकलहं सुहृद्विरोधं
त्वशुभचः श्रवणं ज्वराङ्गदाहम् ।
गमनपरधाम्नि वित्तनाशं
शिखिनि लभेत् दशां गते स्वकीयाम् ॥ ६६॥
द्विजवरकलहः स्त्रिया विरोधः
स्वकुलजनैरपि कन्यकाप्रसूतिः ।
परिभवजननं परोपतापो
भवति सिते शिखिवत्सरान्तराले ॥ ६७॥
गुरुजनमरणं ज्वर्तारः
स्वजनविरोधविदेशयानलभः ।
नृपकृतकलहः कफानिलाति-
र्विशति रवौ शिखिवत्सरान्तरालम् ॥ ६८॥
सुलभबहुधनं तथैव हानिः
सुतविरहो बहुदुःखभाक्प्रसूतिः ।
परिजनयुवतिप्रजाप्रलाभः
शशिनि यदा शिखिदायमभ्युपेते ॥ ६९॥
स्वकुलजकलहं स्वबन्धुनाशं
भयमपि पन्नगजं वदन्ति चोरात्
हुतवहभयशत्रुपीडनं च
व्रजतिकुजे ध्वजनामखेचरायुः ॥ ७०॥
अरिकृतकलहं नृपाग्निचौरै-
र्भयमपि पन्नगजं वदन्ति तज्ज्ञाः ।
खलजनवचनं दुरिष्टचेष्टा
समसि गतेऽत्र शिखीन्द्रदायमाहुः ॥ ७१॥
सुतवरजननं सुरेन्द्रपूजा
धरणिधनाप्तिरुपायनार्थसिद्धिः ।
धनचयजननं महीशमानो
भवति गतेऽत्र गुरौ शिखीन्द्रदायम् ॥ ७२॥
परिजनविहतिं परोपतापं
रिपुजनविग्रहमङ्गभङ्गतां च ।
धनपदविर्युतिं तथाहुरार्या
गतवति सूर्यसुते शिखाधरायुः ॥ ७३॥
सुतवर्जननं प्रभुप्रशस्तिः
क्षितिधनसिद्धिररीश्वरप्रपीडा ।
पशुकृषीविहतिर्भवेत्तु पुंसां
विशति बुधे शिखिवत्सरान्तरालम् ॥ ७४॥
शुक्र की महादशा में विविध अन्तर्दशों का फल
वसनभूषणवाहचन्दना-
द्यनुभवः प्रमदासुखसम्पदः ।
द्युतियुतिः क्षितिपाद्धनलब्धयो
भृगुसुते स्वदशां प्रविशत्यपि ॥ ७५॥
नयनकुक्षिकपोलगदोद्भवः
क्षितिभृतो भयमस्ति शरीरिणाम् ।
गुरुकुलोद्भवबान्धवपीडनं
भृगुसुतायुषि भानुमति स्थिते ॥ ७६॥
नखशिरोरदनक्षतिरुच्चकैः
पवनपित्तरुगर्थविनाशनम् ।
ग्रहणिगुल्मकयक्ष्मकपीडनं
सितवयोहृति तत्र हिमल्विषि ॥ ७७॥
रुधिरपित्तगदातिसमाश्रयः
कनकताम्रचयावनिसङ्ग्रहः ।
सुवतिदूषणमुद्यमविच्युति-
र्वृषभवल्लभवत्सरगे कुजे ॥ ७८॥
निधिभवः सुतलब्धिरभीष्तवाक्
स्वजनपूजनमप्यरिबन्धनम् ।
दहनचोरविषोद्भवपीडनं
तुलधरेश्वरवत्सरगेऽसुरे ॥ ७९॥
विविधधर्मसुरेशनमस्क्रिया
भवति चात्मजवामदृगागमः ।
विविधराज्यसुखं च शरीरिणां
कविदशाहृति कार्मुकनायके ॥ ८०॥
नगरयोधनृपोद्भवपूजनं
प्रवरयोषिदवाप्तिरथास्ति वा ।
विविधवित्तपरिच्छदसंयुति-
दितिपूजितदायगते शनौ ॥ ८१॥
तनयसौख्यमागमसम्पदां
निचयलब्धिरतिप्रभुता यशः ।
पवनपित्तकफातिररिच्युतिर्-
दनुजमन्त्रिदशाहृति चन्द्रजे ॥ ८२॥
सुतसुखादिबहिः स्थितिरग्निजं
भयमतीव विनाशनमङ्गरुक् ।
अपि च वारवधूजनसंयुतिः
शिखिनि यात्यलमौशनसीम् दशाम् ॥ ८३॥
दशापहारेषु फलं यदुक्तं
वर्णाधिकारानुगुणं वदन्तु ।
छिद्रेषु सूक्ष्मेष्वपि तत्फलाप्तिः
छायाङ्कवार्तश्रवणानि वा स्युः ॥ ८४॥
एकविंशोऽध्यायः ।। प्रत्यन्तर्दशाफल ।।
अपहारविभागलक्षणं तत्पङ्क्तिं क्रमशः स्फुटं प्रवचिम् ।
यदुदीरितमत्र तत्समस्तं कथयेत्स्वदशान्तरान्तरादौ ॥ १॥
पाकेशाब्दहता दशेश्वरसमा नेत्राङ्कभक्ताः समाः
शिष्ट रूपहता नराङ्कविहृता मासा नगैर्वासराः ।
छिद्रादिष्वपि चैवमेव कलयेत्पाकक्रमाच्चेद्दशा-
नाथाद्या पुनरन्तरान्तरदशास्तत्पाकनाथक्रमाः ॥ २॥
सूर्य
महीश्वरादुपलभतेऽधिकं यशो
वनाचलस्थलवसतिं धनागमम् ।
ज्वरोष्णरुग्जनकवियोगजं भयं
निजां दशां प्रविशति नीक्षणदीधितौ ॥ ३॥
रिपुक्षयो व्यसनशमो धनागमः
कृषिक्रिया गृहकरणं सुहृद्युतिः
क्षयानलप्रतिहतिरकर्दायकं
शशी यदा हरति जलोद्भवा रुजः ॥ ४ ॥
रुजागमः पदविरहोऽरिपीडनं
वर्णोद्भवः स्वकुलजनैर्वरोधिता
महीभृतो भवति भयं धनच्युति
यर्दा कुजो हरति तद्ऽर्कर्वत्सरम् ॥ ५ ॥
रिपूदयो धनहृतिरापदुद्गमो
विषाद्भयं विषयविमूढता पुनः
शिरोदृशोरधिकरुगेव देहिनाम्
अहौ भवेधिमकरायुरन्तरो ॥ ६॥
रिपुक्षयो विविधधनाप्तिरन्वहं
सुरार्चनं द्विजगुरुबन्धुपूजनम् ।
श्रवःश्रमो भवति च यक्ष्मरोगिता
सुराचिन्ते प्रविशति गोपशति गोपतेर्दशाम् ॥ ७॥
धनाहतिः सुतविरहः स्त्रिया रुजो
गुरुव्ययः सपदि परिच्छदच्युतिः ।
मलिष्ठता भवति कफप्रपीदनं
शनैश्चरे सवितृदशान्तरं गते ॥ ८॥
विचन्चिका पिटकसकुष्ठकामिला
विशर्धनं जठरकटिप्रपीडनम् ।
महीक्षयः त्रिगदभयं भवेत्तदा
विधोः सुते चरति रवेरथाब्दकम् ॥ ९॥
सुहृव्द्ययुः स्वजनकुटुम्बविग्रहो
रिपोर्भयं धनहरणं पदच्युतिः ।
गुरोर्गदश्चरणशिरोरुगुच्चकैः
शिखी यदा विशति दशां विवस्वतः ॥ १०॥
शिरोरुजा जठरगुदातिम्पीडनं
कृषिक्रिया गृहधनधन्यविच्युतिः ।
सुतस्त्रियोरसुखमतीव देहिनां
भृगोः सुते चरति रवेरथाब्दकम् ॥ ११॥
चन्द्र-विचार
स्त्रीप्रजाप्तिरमलांशुकागमो
भूसुरोत्तमसमागमो भवेत् ।
मातुरिष्टफलमङ्गनासुखं
स्वां दशां विशति शीतदीधितौ ॥ १२॥
पित्तवह्निरुधिरोद्भवा रुजः
क्लेशदुःखरिपुचोरपीडनम् ।
वित्तमानविहतिर्भवेत्कुजे
शीतदीधितिदशान्तरं गते ॥ १३॥
तीव्रदोषरिपुवृद्धिबन्धुरुङ् मारुताशनिभयातिरुद्भवेत् ।
अन्नपानजनितज्वरोदयाश्चन्द्रवत्सरविहारके ह्यहौ ॥ १४॥
दानधर्मनिरतिः सुखोदयो वस्त्रभूषणसुहृत्समागमः ।
राजसत्कृतिरतीव जायते कैरवप्रियवयोहरे गुरऊ ॥ १५॥
नैकरोगविहतिः सुहृत्सुत-
स्त्रीरुजा व्यसनसम्भवो महान् ।
प्राणहानिरथवा भवेच्छनौ
मारबन्धुवयसो गतेऽन्तरम् ॥ १६॥
सर्वदा धनगजाश्वगोकुल-
प्राप्तिराभरणसौख्यसम्पदः ।
चित्तबोध इति जायते विधो-
रायुषि प्रवेशति प्रबोधने ॥ १७
चित्तहानिरपि सपदश्च्युति-
र्बन्धुहानिरपि तोयजं भयम् ।
दासभृत्यहतिरस्ति देहिनां
केतुके हरति चान्द्रमब्दकम् ॥ १८॥
तोययानवसुभूषणाङ्गनाविक्रयक्रयकृषिक्रियादयः ।
पुत्रमित्रपशुधान्यसंयुतिश्चन्द्रदायहरणोन्मुखे भृगौ ॥ १९॥
राजमाननमतीव शूरता रोगशान्तिररिपक्षविच्युतिः ।
पित्तवातरुगिने गते तदा स्याच्छशाङ्कपरिवत्सरान्तरम् ॥ २०॥
मङ्गल की महादशा में विविध अन्तर्दशों का फल
पित्तोष्णरुग्व्रणभयं सहजैवियोगः
क्षेत्रप्रवादजनितार्थविभूतिसिद्धिः ।
ज्ञात्यग्निशत्रुनृपचोरजनैविरोधो
धात्रीसुतो हरति चेच्छरदं स्वकीयाम् ॥ २१॥
शस्त्राग्निचोररिपुभूपभयं विषातिः
शुक्ष्यक्षिशीर्षजगदो गुरुबन्धुहानिः ।
प्राणव्ययोऽथ यदिवा विपुलापदो वा
वक्रायुरन्तरगते भुजगाधिनाथे ॥ २२॥
द्विजविबुधसमर्चा तिर्थपुण्यानुसेवा
सततमतिथिपूजा पुत्रमित्रादिवृद्धिः ।
श्रवणरुगतिमात्रं श्लेष्मरोगोद्भवो वा
भवतिकुजदशान्तः सङ्गते वागधीशे ॥ २३॥
उपर्युपरिविनाशः स्वात्मजस्त्रीगुरूणा-
मगणितविपदन्तर्दुःखमर्थोपहानिः ।
वसुहरणमरिभ्यो भीतिरुष्णानिलाग्नि-
र्भवति कुजदशायामर्कजे सम्प्रयाते ॥ २४॥
अरिभयमुरुचोरोपद्रवोऽथार्थहानिः
पशुगजतुरगाणां विप्लवोऽमित्रयोगः ।
नृपकृतपरिपीडा शूद्रवैरोद्भवो वा
विशति शशितनूजे विष्वधात्रीसुतायुः ॥ २५॥
अशनिभयमकस्मादग्निशस्त्रप्रपीडा
विगमनमथ देहाद्वित्तनाशोऽथवा स्यात् ।
अपगमनमसुभ्यो योषितो वा विनाशः
प्रविशति यदि केतुः क्रूरनेत्रायुरन्तम् ॥ २६॥
युधि जनितविमानं विप्रवासः स्वदेशा-
द्वसुहृतिरपि चोरैर्वमनेत्रोपरोधः ।
परिजनपरिहानिर्जायते मानवाना-
मपहरति यदायुर्भौमिजं भार्गवेन्द्रः ॥ २७॥
नृपकृतपरिपूजा यद्धलब्धप्रभावः
परिजनधनधान्यश्रीमदन्तःपुरं च ।
अतिविलसितकृत्तः साहसादाप्तलक्ष्मी-
स्तिमिरभिदि कुजायुर्दायसंहारिणीति ॥ २८॥
विविधधनसुताप्तिविप्रयोगोऽरिवर्गै-
र्वसनशयनभूषारत्नसम्पत्प्रसूतिः ।
भवति गुरुजनातिर्गुल्मपित्तप्रपीडा
धरणितनयवर्षं शीतगौ सम्प्रयाते ॥ २९॥
राहु की महादशा में विविध अन्तर्दशों का फल
विषाम्बुरुग्दुष्टभुजङ्गदर्शनं
पराबलासंयुतिरिष्टविच्युतिः ।
अरिष्टवाग्दुष्टजनव्यथा
भवेद्विधुन्तुदेनापहृते स्ववत्सरे ॥ ३०॥
सुखोपनीतिः सुरविप्रपूजनं
विरोगता वामदृशां समागमः ।
सुपुण्यशास्त्रर्थविचारसम्भवः
सुरारिदायान्तगे बृहस्पतौ ॥ ३१॥
समीरपित्तप्रगदक्षतिस्तनौ
तनूजयोषित्सहजैश्च विग्रहः ।
स्वभृत्यनाशश्च पदच्युतिर्भवेत्-
दितिप्रजायुः प्रविस्शत्यथार्कजे ॥ ३२॥
सुतस्वसिद्धिः सुहृदां समागमो
मनोविनिन्द्यत्वमतीव जायते ।
पटुक्रियाभूषणकौशलादयो
भुजङ्गसंवत्सरहारिणीन्दुजे ॥ ३३॥
ज्वराग्निशस्त्रारिभयं शिरोरुजा
शरीरकम्पः स्वसुहृद्गुरुव्यथा ।
विषव्रणातिः कलहः सुहृज्जनै-
रहीन्द्रदायान्तरगे शिखाधरे ॥ ३४॥
कलत्रलब्धिः शयनोपचारता
तुरङ्गमातङ्गमहीसमागमः ।
कफानिलाप्तिः स्वजनैविरोधिता
भवेद्भुजङ्गायुरपाहृतौ भृगोः ॥ ३५॥
अरिव्यथा स्यादतिपीडनं
दृशोविंषाग्निशस्त्राहतिरापदुद्गमः ।
वधूसुतातिर्नृपतेर्महद्भयं
भुजङ्गवर्षे तिमिरारिणा हृते ॥ ३६॥
वधूविनाशः कलहो मनोरुजा
कृषिक्रयावित्तपशुप्रजाक्षयः ।
सुहृद्विपत्तिः सलिलाद्भयं भवे-
द्विधौ दशाभक्तरि देवविद्विधः ॥ ३७॥
नृपाग्निचोरास्त्रभयं शरीरिणां
शरीरनाशो यदि वा महारुजः ।
पदभ्रमो हृन्नयनप्रपीडनं
यदात्र सर्पयुषि सञ्चरेत्कुजः ॥ ३८॥
बृहस्पति की महादशा में विविध अन्तर्दशों का फल
सौभाग्यकान्तितबहुमानगुणोदयः
स्यात्सत्पुत्रसिद्धिरवनीपतिपूजनं च ।
आचार्यसाधुजनसंयुतिरिष्टसिद्धिः
सवत्सरं हरति देवगुरौ स्वकीयम् ॥ ३९॥
वेश्याङ्गनामदकृदासवदोषसङ्ग
उत्कर्षसौख्यसकुटुम्बपशुप्रपीडा ।
अर्थव्ययोरुभयमक्षिजरुक्सुताति
जैवीं दशां विशति दैनकरे नराणाम् ॥ ४०॥
स्त्रीद्यूतमद्यजमहाव्यसनं त्रिदोषैः
केचिद्वदन्त्यपि च केवलमङ्गलाप्तिः ।
देवद्विजार्चनसुतार्थसुखप्रयोगै-
र्गीवर्णपूजितदशां हरतीन्दुसूतौ ॥ ४१॥
शस्त्रव्रणं भवति भृत्यजनैविरोध-
श्चित्तव्यथा तनययोषिदुपद्रवश्च ।
प्रणच्युतिर्गुरुसुहृज्जनविप्रयोगः
सौरेड्यमायुरपहृत्य ददाति केतुः ॥ ४२॥
नानाविधार्थपशुधान्यपरिच्छदस्त्री-
पुत्रान्नपानशयनाम्बरभूषणाप्तिः ।
देवद्विजार्चनमुपासनतत्परत्व-
मायुर्यदा हरति जैवमथासुरेड्यः ॥ ४३॥
शत्रोर्जयः क्षितिपमाननकीर्तिलाभः
स्याच्चण्डता नरतुरङ्गमवाहनाप्तिः ।
श्रेण्यग्रहारपुरराष्ट्रसमस्तसम्पद
दुच्चैरुचथ्यसहजायुरपाहृतेऽर्के ॥ ४४॥
योषिद्बहुत्वमरिनाशनमर्थलाभः
कृष्यर्थवस्तुपरमोन्नतकीर्तिलाभः ।
दवद्विजार्चनपरत्वमतीव पुंसां
सञ्जायते गुरुदशाहृति शर्वरीशे ॥ ४५॥
बन्धूपतोषणमरिव्रजतोऽर्थलाभः
सुक्षेत्रसत्कृतिरिह प्रथितप्रभावः
इर्षद्गुरूपहतिरीक्षणसुक्षतिर्वा
क्षित्यात्मजे हरति वत्सरमार्यजातम् ॥ ४६॥
बन्धूपतप्तिरुरुमानसरुग्गदार्ति-
श्चोराद्भयं गुरुगदो जठरोद्भवो वा ।
राजेन्द्रपीडनमरिव्यसनं स्वनाशः
सम्पद्यते हरति सूरिदशां सुरारौ ॥ ४७॥
शनि को महादशा में विविध अन्तर्दशों का फल
कृषिवृद्धभृत्यमहिषाभ्युदयः
पवनामयो वृषलजातिधनम् ।
स्थविराङ्गनाप्तिरलसत्वमघो
निजवत्सरान्तरगते रविजे ॥ ४८॥
सुभगत्वमस्ति सुखित वनिता
नृपलालनं विजयमित्रयुतिः
त्रिगदोद्भवः सहजपुत्ररुजा
शनिदायहारिणि शशाङ्कसुते ॥ ४९॥
मरुदग्निपीडनमरिव्यसनं
सुतदारविग्रमतिः सततम् ।
अशुभावलोकनमहेश्च भयं
मृदुवत्सरं हरति केतुपतौ ॥ ५०॥
सुहृदङ्गनातनयसौख्ययुतः
कृषितोययानजनितार्थचयः ।
शुभकीर्तिरुद्भवति देहभृतां
यमदायहारिणि भृगोस्तनये ॥ ५१॥
मरणं तु वा रिपुभयं सततं
गुरुवर्गरुग्जठरनेत्ररुजा ।
धनधान्यविच्युतिरिह प्रभवेत्-
रविजायुराविशति तीव्रकरे ॥ ५२॥
वनिताहतिर्मरणमेव नृणां
सुहृदां विपत्तिरथ रोगभयम् ।
जलवातजं भयमतीव भवेत्-
रविजायुराविशति रात्रिकरे ॥ ५३॥
स्वपदच्युतिः स्वजनविग्रहरुक्-
ज्वरवाह्नशस्त्रविशभिरथ वा ।
अरिवृद्धिरान्तररुगक्षिभयं
रविजायुराविशति भुमिसुते ॥ ५४॥
अप्मार्गयानमसुभिविरहस्तु
अथ वा प्रमेहगुरुगुल्मभयम् ।
ज्वररुक्क्षतिः सततमेव नृणा-
मसितान्तरं विशति भोगिपतौ ॥ ५५॥
अमरार्चनद्विजगणाभिरुचि-
र्गृहपुत्रदारविहतिस्तु भवेत् ।
धनधान्यवृद्धिरधिका हि नृणां
गतवत्यथार्किवयसीन्द्रगुरौ ॥ ५६॥
बुध की महादशा में विविध अन्तर्दशों का फल
धर्मार्गनिरतिर्विवपश्चितां
सङ्गमो विमलधीर्घनं द्विजात् ।
विद्यया बहुयशः सुखं सदा
चन्द्रजे हरति वत्सरं स्वकम् ॥ ५७॥
दुःखशोककलहाकुलात्मता
गात्रकम्पनममित्रसंयुतिः ।
क्षेत्रयान्विप्युतिर्यदा भवेत्-
सोममसूनुशरदं गतः शिखी ॥ ५८॥
देवविप्रगुरुपूजनक्रिया दानधर्मपरतासमागमः ।
वस्त्रभूषणसुहृद्युतिर्भवेद्बोधनायुषि समागते सिते ॥ ५९॥
हेमविद्रुमतुरङ्गवारणप्रावृतं भवनमन्नपानयुक् ।
भूपतेरपि च पूजनं भवेद्भानुमालिनि बुधाब्दकं गते ॥ ६०॥
मस्तकव्यसनमक्षिपीडनं कुष्ठदद्रुबहुकण्ठपीडनम् ।
प्राणसंशययुतिर्नृणां भवेज्ज्ञायुषं व्रजति शीतदीघितौ ॥ ६१॥
अग्निभीतिरपि नेत्रजा रुजा चोरजं भयमतीव दुःखिता ।
स्थानहानिरथ वातरोगिता ज्ञायुषं हरति मेदिनीसुते ॥ ६२॥
मानहानिरथवाश्रयच्युतिः स्वक्षयोऽग्निविषतोयजं भयम् ।
मस्तकाक्षिजठरप्रपीडनं शीतरश्मिजदशां गतेऽसुरे ॥ ६३॥
व्याधिशत्रुभयविच्युतिर्भवे-
द्ब्रह्मसिद्धिरवनीशसत्कृतिः ।
धर्मसिद्धितपसां समुद्ग्रमो
देवमन्त्रिणि विदो दशां गते ॥ ६४॥
अर्थधर्मपरिलुप्तिरुच्चकैः
सर्वकार्यविफलत्वमङ्गिनाम् ।
श्लेष्मवातजनिता रुगुद्भवे-
द्वोधनायुषि समागतेऽसिते ॥ ६५॥
केतु की महादशा में विविध अन्तर्दशों का फल
रिपुजनकलहं सुहृद्विरोधं
त्वशुभचः श्रवणं ज्वराङ्गदाहम् ।
गमनपरधाम्नि वित्तनाशं
शिखिनि लभेत् दशां गते स्वकीयाम् ॥ ६६॥
द्विजवरकलहः स्त्रिया विरोधः
स्वकुलजनैरपि कन्यकाप्रसूतिः ।
परिभवजननं परोपतापो
भवति सिते शिखिवत्सरान्तराले ॥ ६७॥
गुरुजनमरणं ज्वर्तारः
स्वजनविरोधविदेशयानलभः ।
नृपकृतकलहः कफानिलाति-
र्विशति रवौ शिखिवत्सरान्तरालम् ॥ ६८॥
सुलभबहुधनं तथैव हानिः
सुतविरहो बहुदुःखभाक्प्रसूतिः ।
परिजनयुवतिप्रजाप्रलाभः
शशिनि यदा शिखिदायमभ्युपेते ॥ ६९॥
स्वकुलजकलहं स्वबन्धुनाशं
भयमपि पन्नगजं वदन्ति चोरात्
हुतवहभयशत्रुपीडनं च
व्रजतिकुजे ध्वजनामखेचरायुः ॥ ७०॥
अरिकृतकलहं नृपाग्निचौरै-
र्भयमपि पन्नगजं वदन्ति तज्ज्ञाः ।
खलजनवचनं दुरिष्टचेष्टा
समसि गतेऽत्र शिखीन्द्रदायमाहुः ॥ ७१॥
सुतवरजननं सुरेन्द्रपूजा
धरणिधनाप्तिरुपायनार्थसिद्धिः ।
धनचयजननं महीशमानो
भवति गतेऽत्र गुरौ शिखीन्द्रदायम् ॥ ७२॥
परिजनविहतिं परोपतापं
रिपुजनविग्रहमङ्गभङ्गतां च ।
धनपदविर्युतिं तथाहुरार्या
गतवति सूर्यसुते शिखाधरायुः ॥ ७३॥
सुतवर्जननं प्रभुप्रशस्तिः
क्षितिधनसिद्धिररीश्वरप्रपीडा ।
पशुकृषीविहतिर्भवेत्तु पुंसां
विशति बुधे शिखिवत्सरान्तरालम् ॥ ७४॥
शुक्र की महादशा में विविध अन्तर्दशों का फल
वसनभूषणवाहचन्दना-
द्यनुभवः प्रमदासुखसम्पदः ।
द्युतियुतिः क्षितिपाद्धनलब्धयो
भृगुसुते स्वदशां प्रविशत्यपि ॥ ७५॥
नयनकुक्षिकपोलगदोद्भवः
क्षितिभृतो भयमस्ति शरीरिणाम् ।
गुरुकुलोद्भवबान्धवपीडनं
भृगुसुतायुषि भानुमति स्थिते ॥ ७६॥
नखशिरोरदनक्षतिरुच्चकैः
पवनपित्तरुगर्थविनाशनम् ।
ग्रहणिगुल्मकयक्ष्मकपीडनं
सितवयोहृति तत्र हिमल्विषि ॥ ७७॥
रुधिरपित्तगदातिसमाश्रयः
कनकताम्रचयावनिसङ्ग्रहः ।
सुवतिदूषणमुद्यमविच्युति-
र्वृषभवल्लभवत्सरगे कुजे ॥ ७८॥
निधिभवः सुतलब्धिरभीष्तवाक्
स्वजनपूजनमप्यरिबन्धनम् ।
दहनचोरविषोद्भवपीडनं
तुलधरेश्वरवत्सरगेऽसुरे ॥ ७९॥
विविधधर्मसुरेशनमस्क्रिया
भवति चात्मजवामदृगागमः ।
विविधराज्यसुखं च शरीरिणां
कविदशाहृति कार्मुकनायके ॥ ८०॥
नगरयोधनृपोद्भवपूजनं
प्रवरयोषिदवाप्तिरथास्ति वा ।
विविधवित्तपरिच्छदसंयुति-
दितिपूजितदायगते शनौ ॥ ८१॥
तनयसौख्यमागमसम्पदां
निचयलब्धिरतिप्रभुता यशः ।
पवनपित्तकफातिररिच्युतिर्-
दनुजमन्त्रिदशाहृति चन्द्रजे ॥ ८२॥
सुतसुखादिबहिः स्थितिरग्निजं
भयमतीव विनाशनमङ्गरुक् ।
अपि च वारवधूजनसंयुतिः
शिखिनि यात्यलमौशनसीम् दशाम् ॥ ८३॥
दशापहारेषु फलं यदुक्तं
वर्णाधिकारानुगुणं वदन्तु ।
छिद्रेषु सूक्ष्मेष्वपि तत्फलाप्तिः
छायाङ्कवार्तश्रवणानि वा स्युः ॥ ८४॥

No comments