Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    एकोनविंशोऽध्यायः ।। दशाफल ।।

    भक्त्या येन नवग्रहा बहुविधैराराधितास्ते चिरं
    सन्तुष्ताः फलबोधहेतुमदिशन्सानुग्रहं निर्णयम् ।
    ख्यातां तेन पराशरेण कथितां सङ्गृह्य होरागमात्
    सारं भूरिपरीक्षयातिफलितां वक्ष्ये महाख्यां दशाम् ॥ १॥
    अग्न्यादितारपत्यो रविचन्द्रभौम-
    सर्पमरेण्यशनिचन्द्रजकेतुशुक्राः ।
    तेने नटः सनिजया चटुधान्यसौम्य-
    स्थने नखा निगदिताः शरदस्तु तेषां ॥ २॥
    तृक्षस्य गम्या घटिका दशाब्द-
    निघ्ना नताप्ता स्वदशाब्दसङ्ख्या ।
    रूपैर्नगैः सङ्गुणयेन्नतेन
    हृतास्तु मासा दिवसाः क्रमेण ॥ ३॥
    रविस्फुटं तज्जनने यदासीत्
    तथा विधश्चेत्प्रतिवर्षमर्कः ।
    आवृत्तयुः सन्ति दशाब्दकानां
    भागक्रमात्तदृवसाः प्रकल्प्याः ॥ ४॥
    दशाफल
    भानुः करोति कलहं क्षितिपालकोप-
    माकस्मिकं स्वजनरोगपरिभ्रमं च ।
    अन्योन्यवैरमतिदुःसहचित्तकोपं
    गुप्त्यर्थधान्यसुतदारकृशानुपीडाम् ॥ ५॥
    क्रौर्यध्विभूपैः कलहैर्धनाप्तिं
    वनाद्रिसञ्चारमतिप्रसिद्धिम् ।
    करोति सुस्थो विजयं दिनेश-
    स्तैक्ष्ण्यं सदोद्योगरतिं सुखं च ॥ ६॥
    मनःप्रसादं प्रकरोति चन्द्रः
    सर्वार्थसिद्धिं सुखभोजनं च ।
    स्त्रीपुत्रभूषाम्बररत्नसिद्धीं
    गोक्षेत्रेलाभं द्विजपूजनं च ॥ ७॥
    बलेन सर्वं शशिनस्तु वाच्यं
    पूर्वे दशाहे फलमत्र मध्यम् ।
    मध्ये दशहे परिपूर्णवीर्यं
    तृतीयेभागेऽल्पफलं क्रमेण ॥ ८॥
    भौमस्य स्वदशाफलानि हुतभुग्भूपाहवाद्यैर्धनं
    भैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः ।
    पित्तासृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवनं
    विद्वेषः सुतदारबन्धुगुरुभिः कष्टोऽन्यभाग्ये रतः ॥ ९॥
    सौम्यः करोति सुहृदागममात्मसौख्यं
    विद्वत्प्रशंसितयशश्च गुरुप्रसादम् ।
    प्रागल्भ्यमुक्तिविषयेऽपि परोपकारं
    जायात्मजादिसुहृदां कुशलं महत्त्वम् ॥ १०॥
    धर्मक्रियाप्तिममरेन्द्रगुरुर्विधत्ते
    सन्तानसिद्धिमवनीपतिपूजनं च ।
    श्लाघ्यत्वमुन्नतजनेषु गजाश्वयान-
    प्राप्तिं वधूसुतसुहृद्युतिमिष्टसिद्धिम् ॥ ११॥
    क्रीडासुखोपकरणानि सुवाहनाप्तिं
    गोरत्मभूषणनिधिप्रमदाप्रमोदम् ।
    ज्ञनक्रियां सलिलयानमुपैति शौक्रयां
    कल्याणकर्मबहुमानमिलाधिनाथात् ॥ १२॥
    पाकेऽर्कजस्यनिजदारसुतातिरोगान्-
    वातोत्तरान्कृषिविनाशमसत्प्रलापम् ।
    कुस्त्रीरतिं परिजनैर्वियुतिं प्रवास
    माकस्मिकं स्वजनभूमिसुखार्थनाशम् ॥ १३॥
    कुर्यार्दहिः क्षितिपचोरविषाग्नोशस्त्र-
    भीर्तिं सुतार्तिसतिविभ्रमबन्धुनाशम् ।
    नीचावमाननमतिक्रमतोऽपवादं
    स्थानच्युतिं पदहातिं कृतकार्यहानिम् ॥ १४॥
    विधुन्तुदे शुभान्विते प्रशस्तभावसंयुते
    दशा शुभप्रदा तदा महीपतुल्यभूतिदा ।
    अभीष्टकार्यसिद्धयो गृहे सुखस्थितिर्भवे-
    दचञ्चलार्थसञ्चयाः क्षितौ प्रसिद्धकीर्तयः ॥ १५॥
    पथोनमीनालिगतस्य राहो-
    र्दशाविपाके महितं च सौख्यम् ।
    देशाधिप्त्यं नरवाहनाप्ति-
    र्दशावसाने सकलस्य नाशः ॥ १६॥
    केतोर्दशायामरिचोरभूपैः
    पीडा च शस्त्रक्षतमुष्णरोगः ।
    मिथ्यापवादः कुलदूषितत्वं
    वह्नेर्भयं प्रोषणमात्मदेशात् ॥ १७॥
    अथ तरणिदशायां क्रौर्यभूपालयुद्धै-
    र्धनमनलचतुष्पात्पीडनं नेत्रतापः ।
    उदरदशनरोगः पुत्रदारार्तिरुच्चै-
    र्गुरुजनविरहः स्याद्भृत्यनाशोऽर्थहानिः ॥ १८॥
    शिशिरकरदशायां मन्त्रदेवद्विजोर्वी-
    पतिजनितविभूतिः स्त्रीधनक्षेत्रसिद्धिः ।
    कुसुमवसनभूषागन्धनानारसाप्ति-
    भर्वति खलविरोधः स्वक्षयो वातरोगः ॥ १९॥
    क्षितितनयदशायां क्षेत्रवैरक्षितिश-
    प्रतिजनितविभूतिः स्यात्पशुक्षेत्रलाभः ।
    सहजतनयवैरं दुर्जनस्त्रीषुसक्ति-
    दर्हनरुधिरपित्तव्याधिरर्थोपहानिः ॥ २०॥
    असुरवरदशायां दुःस्वभावोऽथवा स्या-
    दतिगहनगदार्तिः सूनुनार्योर्विनाशः ।
    विषभयमरिपीडावीक्षणोद्धर्वाङ्गीरोगः
    सुहृदि कृषविरोधो भूपतेर्द्वेषलाभः ॥ २१॥
    अमरगुरुदशायामम्बराद्यर्थसिद्धिः
    परिजनपरिवारप्रौढिरत्यर्थमानः ।
    सुतधनसुहृदाप्तिः साधुवादाप्तपूजा
    भवति गुरुवियोगः कर्णरोगः कफार्तिः ॥ २२॥
    रवितनयदशायां राष्टपीडाप्रहार-
    प्रतिजनितविभूतिः प्रेष्यवृद्धाङ्गनाप्तिः ।
    पशुमहिषवृषाप्तिः पुत्रदारप्रपीडा
    पवनकफगुदार्तिः पादहस्ताङ्गतापः ॥ २३॥
    शशितनयदशायां शश्वदाचार्यसिद्धि-
    र्द्विजजनितधनाप्तिः क्षेत्रेगोवाजिलाभः ।
    मनवरसुरपूजा वित्तसन्धातसिद्धिः
    प्रभवति मरुदुष्णश्लेष्मरोगप्रपीडा ॥ २४॥
    शिखिजनितदशायां शोकमोहोऽङ्गनाभिः
    प्रभुजनपरिपीडा वित्तनाशोऽपराधः ।
    प्रभवति तनुभाजां स्वीयदेशा-
    दृशनचरणरोगः श्लेष्मन्तापनं च ॥ २५॥
    भृगुतनयदशायामङ्गनारत्नवस्त्र-
    द्यतिमिधिधनभूषावाजिशय्यासनाप्तिः ।
    क्रयकृषिजलयानप्राप्तवित्तागमो वा
    भवति गुरुवियोगो बान्धवातिर्मनोरुक् ॥ २६॥

    No comments

    Post Top Ad

    Post Bottom Ad