Header Ads

  • Breaking News

    Ghora Kashtoddharana Stotram. घोर कष्टोद्धारणस्तोत्रम् ।। Astro Classes.

    अथ श्री घोर कष्टोद्धारणस्तोत्रम् ।। Astro Classes, Silvassa.

    श्रीपाद श्रीवल्लभ त्वं सदैव, श्रीदत्तास्मान् पाहि देवाधिदेव ।
    भवग्रहक्लेशहारिन् सुकीर्ते,  घोरकष्टादुद्धरास्मान् नमस्ते ॥ १॥

    त्वं नो माता त्वं पिताप्तोऽधिपस्त्वं, त्राता योगक्षेमकृत् सद्गुरुस्त्वम् ।
    त्वं सर्वस्वं नो प्रभो विश्वमूर्ते, घोरकष्टादुद्धरास्मान् नमस्ते ॥ २॥

    पापं तापं व्याध्यादीं च दैन्यम् , भीतिं क्लेशं त्वं हराशु त्वदन्यम् ।
    त्रातारं नो वीक्ष इषास्तजूर्ते, घोरकष्टादुद्धरास्मान् नमस्ते ॥ ३॥

    नान्यस्त्राता न पीडान् न भर्ता, त्वत्तो देव त्वं शरण्यो शोकहर्ता ।
    कुर्वत्रेय अनुग्रहं पूर्णरते, घोरकष्टादुद्धरास्मान् नमस्ते ॥ ४॥

    धर्मे प्रीतिं सन्मतिं देवभक्तिं, सत्सङ्गाप्तिं देहि भुक्तिं च मुक्तिम् ।
    भाव शक्तिं च अखिलानन्दमूर्ते, घोरकष्टादुद्धरास्मान् नमस्ते ॥ ५॥

    श्लोकपञ्चकमेतद्यो  लोकमङ्गलवर्धनम् ।
    प्रपत्तेन नियतो भक्त्या  स श्री दत्तप्रियो भवेत् ॥ ६॥

    इति श्रीमत् परमहंस परिव्राजकाचार्य श्रीमद् वासुदेवानन्द सरस्वती स्वामी विरचितं घोर कष्टोद्धारण स्तोत्रं सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad