Sumukhi or Matangi Kavacham. सुमुखी अथवा मातञ्गीकवचम् ।। Astro Classes.

सुमुखी अथवा मातञ्गीकवचम् ।। Astro Classes, Silvassa.

श्रीगणेशाय नमः । श्रीपार्वत्युवाच

देवदेव महादेव सृष्टिसंहारकारक ।
मातङ्ग्याः कवचं ब्रूहि यदि स्नेहोऽस्ति ते मयि ॥ १॥

शिव उवाच ।
अत्यन्तगोपनं गुह्यं कवचं सर्वकामदम् ।
तव प्रीत्या मयाऽऽख्यातं नान्येषु कथ्यते शुभे ॥ २॥

शपथं कुरु मे देवि यदि किञ्चित्प्रकाशसे ।
अनया सदृशी विद्या न भूता न भविष्यति ॥ ३॥

शवासनां रक्तवस्त्रां युवतीं सर्वसिद्धिदाम् ।
एवं ध्यात्वा महादेवीं पठेत्कवचमुत्तमम् ॥ ४॥

उच्छिष्टं रक्षतु शिरः शिखां चण्डालिनी ततः ।
सुमुखी कवचं रक्षेद्देवी रक्षतु चक्षुषी ॥ ५॥

महापिशाचिनी पायान्नासिकां ह्रीं सदाऽवतु ।
ठः पातु कण्ठदेशं मे ठः पातु हृदयं तथा ॥ ६॥

ठो भुजौ बाहुमूले च सदा रक्षतु चण्डिका ।
ऐं च रक्षतु पादौ मे सौः कुक्षिं सर्वतः शिवा ॥ ७॥

ऐं ह्रीं कटिदेशं च आं ह्रीं सन्धिषु सर्वदा ।
ज्येष्ठमातङ्ग्यङ्गुलिर्मे अङ्गुल्यग्रे नमामि च ॥ ८॥

उच्छिष्टचाण्डालि मां पातु त्रैलोक्यस्य वशङ्करी ।
शिवे स्वाहा शरीरं मे सर्वसौभाग्यदायिनी ॥ ९॥

उच्छिष्टचाण्डालि मातङ्गि सर्ववशङ्करि नमः ।
स्वाहा स्तनद्वयं पातु सर्वशत्रुविनाशिनी ॥ १०॥

अत्यन्तगोपनं देवि देवैरपि सुदुर्लभम् ।
भ्रष्टेभ्यः साधकेभ्योऽपि द्रष्टव्यं न कदाचन ॥ ११॥

दत्तेन सिद्धिहानिः स्यात्सर्वथा न प्रकाश्यताम् ।
उच्छिष्टेन बलिं दत्वा शनौ वा मङ्गले निशि ॥ १२॥

रजस्वलाभगं स्पृष्ट्वा जपेन्मन्त्रं च साधकः ।
रजस्वलाया वस्त्रेण होमं कुर्यात्सदा सुधीः ॥ १३॥

सिद्धविद्या इतो नास्ति नियमो नास्ति कश्चन ।
अष्टसहस्रं जपेन्मन्त्रं दशांशं हवनादिकम् ॥ १४॥

भूर्जपत्रे लिखित्वा च रक्तसूत्रेण वेष्टयेत् ।
प्राणप्रतिष्ठामन्त्रेण जीवन्यासं समाचरेत् ॥ १५॥

स्वर्णमध्ये तु संस्थाप्य धारयेद्दक्षिणे करे ।
सर्वसिद्धिर्भवेत्तस्य अचिरात्पुत्रवान्भवेत् ॥ १६॥

स्त्रीभिर्वामकरे धार्यं बहुपुत्रा भवेत्तदा ।
वन्द्या वा काकवन्द्या वा मृतवत्सा च साङ्गना ॥ १७॥

जीवद्वत्सा भवेत्सापि समृद्धिर्भवति ध्रुवम् ।
शक्तिपूजां सदा कुर्याच्छिवाबलिं प्रदापयेत् ॥ १८॥

इदं कवचमज्ञात्वा मातङ्गी यो जपेत्सदा ।
तस्य सिद्धिर्न भवति पुरश्चरणलक्षतः ॥ १९॥

।। इति श्रीरुद्रयामले तन्त्रे मातङ्गीसुमुखीकवचं समाप्तम् ।।

Post a Comment

0 Comments