Header Ads

  • Breaking News

    Sumukhi or Matangi Kavacham. सुमुखी अथवा मातञ्गीकवचम् ।। Astro Classes.

    सुमुखी अथवा मातञ्गीकवचम् ।। Astro Classes, Silvassa.

    श्रीगणेशाय नमः । श्रीपार्वत्युवाच

    देवदेव महादेव सृष्टिसंहारकारक ।
    मातङ्ग्याः कवचं ब्रूहि यदि स्नेहोऽस्ति ते मयि ॥ १॥

    शिव उवाच ।
    अत्यन्तगोपनं गुह्यं कवचं सर्वकामदम् ।
    तव प्रीत्या मयाऽऽख्यातं नान्येषु कथ्यते शुभे ॥ २॥

    शपथं कुरु मे देवि यदि किञ्चित्प्रकाशसे ।
    अनया सदृशी विद्या न भूता न भविष्यति ॥ ३॥

    शवासनां रक्तवस्त्रां युवतीं सर्वसिद्धिदाम् ।
    एवं ध्यात्वा महादेवीं पठेत्कवचमुत्तमम् ॥ ४॥

    उच्छिष्टं रक्षतु शिरः शिखां चण्डालिनी ततः ।
    सुमुखी कवचं रक्षेद्देवी रक्षतु चक्षुषी ॥ ५॥

    महापिशाचिनी पायान्नासिकां ह्रीं सदाऽवतु ।
    ठः पातु कण्ठदेशं मे ठः पातु हृदयं तथा ॥ ६॥

    ठो भुजौ बाहुमूले च सदा रक्षतु चण्डिका ।
    ऐं च रक्षतु पादौ मे सौः कुक्षिं सर्वतः शिवा ॥ ७॥

    ऐं ह्रीं कटिदेशं च आं ह्रीं सन्धिषु सर्वदा ।
    ज्येष्ठमातङ्ग्यङ्गुलिर्मे अङ्गुल्यग्रे नमामि च ॥ ८॥

    उच्छिष्टचाण्डालि मां पातु त्रैलोक्यस्य वशङ्करी ।
    शिवे स्वाहा शरीरं मे सर्वसौभाग्यदायिनी ॥ ९॥

    उच्छिष्टचाण्डालि मातङ्गि सर्ववशङ्करि नमः ।
    स्वाहा स्तनद्वयं पातु सर्वशत्रुविनाशिनी ॥ १०॥

    अत्यन्तगोपनं देवि देवैरपि सुदुर्लभम् ।
    भ्रष्टेभ्यः साधकेभ्योऽपि द्रष्टव्यं न कदाचन ॥ ११॥

    दत्तेन सिद्धिहानिः स्यात्सर्वथा न प्रकाश्यताम् ।
    उच्छिष्टेन बलिं दत्वा शनौ वा मङ्गले निशि ॥ १२॥

    रजस्वलाभगं स्पृष्ट्वा जपेन्मन्त्रं च साधकः ।
    रजस्वलाया वस्त्रेण होमं कुर्यात्सदा सुधीः ॥ १३॥

    सिद्धविद्या इतो नास्ति नियमो नास्ति कश्चन ।
    अष्टसहस्रं जपेन्मन्त्रं दशांशं हवनादिकम् ॥ १४॥

    भूर्जपत्रे लिखित्वा च रक्तसूत्रेण वेष्टयेत् ।
    प्राणप्रतिष्ठामन्त्रेण जीवन्यासं समाचरेत् ॥ १५॥

    स्वर्णमध्ये तु संस्थाप्य धारयेद्दक्षिणे करे ।
    सर्वसिद्धिर्भवेत्तस्य अचिरात्पुत्रवान्भवेत् ॥ १६॥

    स्त्रीभिर्वामकरे धार्यं बहुपुत्रा भवेत्तदा ।
    वन्द्या वा काकवन्द्या वा मृतवत्सा च साङ्गना ॥ १७॥

    जीवद्वत्सा भवेत्सापि समृद्धिर्भवति ध्रुवम् ।
    शक्तिपूजां सदा कुर्याच्छिवाबलिं प्रदापयेत् ॥ १८॥

    इदं कवचमज्ञात्वा मातङ्गी यो जपेत्सदा ।
    तस्य सिद्धिर्न भवति पुरश्चरणलक्षतः ॥ १९॥

    ।। इति श्रीरुद्रयामले तन्त्रे मातङ्गीसुमुखीकवचं समाप्तम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad