वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.

Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम्  ।। Astro Classes, Silvassa.

edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983

अथ लघुजातकम् । अथ ग्रहभेदाध्यायः ॥ २॥

आत्मा रविः शीतकरस्तु चेतः
सत्त्वं धराजः शशिजोऽथ दाणी ।
ज्ञानं सुखं चेन्द्रगुरुर्मदश्च
शुक्रः शनिः कालनरस्य दुःखम् ॥ १॥

आत्मादयो गगनगैर्वलिभिर्वलवत्तराः ।
दुर्बलैर्दुर्बलाग़्येया विपरीतः शनिः स्मृतः ॥ २॥

राजा रविः शशधरश्च बुधः कुमारः
सेनापतिः क्षितिसुतः सचिवौ सितेज्यौ ।
भृत्यस्तथा तरणिजः सबला ग्रहाश्च
कुर्वन्ति जन्मसमये निजमेव रूपम् ॥ ३॥

प्राच्यादीशा रविसितकुजराहुयमेन्दुसौम्यवाक्पतयः ।
शीणेन्द्वर्गयमाराः पापास्तैः संयुतः सौम्यः ॥ ४॥

क्लीबपती बुधसौरी चन्द्रसितौ योषितां नृणां शेषाः ।
ऋगर्थसामयजुषामधिपा गुरुसौम्यभौमसिताः ॥ ५॥

जीवैतौ विप्राणां क्षत्राणां रविकुजौ विशां चन्द्रः ।
शूद्राधिपः शशिसुतः शनैश्चरः सङ्करभवानाम् ॥ ६॥

बलवान् स्वगृहोच्चांशे मित्रर्क्षे वीक्षितः शुभैश्चापि ।
चन्द्रसितौ स्त्रीक्षेत्रो पुरुषक्षेत्रोपगाः शेषाः ॥ ७॥

प्राच्यादिषु जीवबुधौ सूर्यारौ भास्करिः शशाङ्कसितौ ।
उदगयने शशिसूर्यौ वक्रेऽन्ये स्निग्धविपुलाश्च ॥ ८॥

अहनि सितार्कसुरेज्या द्युनिशं ज्ञो नक्तमिन्दुकुजसौराः ।
स्वदिनादिष्वशुभशुभा बहुलोत्तरपक्षयोर्बलिनः ॥ ९॥

मन्दारसौम्यवाक्पतिसितश्चन्द्रार्का यथोत्तरं बलिनः ।
नैसर्गिकबलमेतद्बलसाम्येऽस्माद् बलाधिकता ॥ १०॥

मित्रक्षेत्रे स्वोच्चे स्वहोरायां स्वभवनत्रिकोणे च ।
स्वद्रेष्कणे स्वांशे स्वदिने च बलान्विताः सर्वे ॥ ११॥

दशम-तृतीये नव-पञ्चमे चतुर्थाष्टमे कलत्रं च ।
पश्यन्ति पादवृद्ध्या फलानि चिवं प्रयच्छन्ति ॥ १२॥

पूर्णम्पश्यति रविजस्तृतीयदशमे त्रिकोणमपि जीवः ।
चतुरस्र भूमिसुतः सितार्कबुधहिमकराः कलत्रं च ॥ १३॥

॥ इति लघुजातके ग्रहभेदाध्यायः द्वितीयः ॥

Post a Comment

0 Comments