वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.
Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes, Silvassa.
edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983
अथ लघुजातकम् । अथ राशिप्रभेदाध्यायः ॥ १॥
यस्योदयास्तसमये सुरकुटनिधृष्टचरणकमलोऽपि ।
कुरुतेऽञ्जलिं त्रिनेत्रः स जयति धाम्नां निधि सूर्यः ॥ १॥
होराशास्त्रं वृत्तैर्मया निबधं नरीक्ष्य शास्त्राणि ।
यत्तस्याप्यार्याभिः सारमहं सम्प्रवक्ष्यामि ॥ २॥
यदुपचितमन्यजन्मनि शुभाऽशुभं तस्य कर्मणः पक्तिम् ।
व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव ॥ ३॥
शीर्षमुखबाहुहृदयोदराणि कटिबस्तिगुह्यसंज्ञनि ।
अरू जानू जधे चरणाविति राशयोऽजाद्याः ॥ ४॥
कालनरस्यावयवान् पुरुषाणां चिन्तयेत्प्रसवकाले ।
सदसद्ग्रसंयोगात् पुष्टाः सोपद्रवास्ते च ॥ ५॥
अरुणसितहरितपाटलपाण्डुविचित्राः सितेतरपिशङ्गौ ।
पिङ्गलकर्बु रबभ्रुकमलिना रुचयो यथासङ्ख्यम् ॥ ६॥
पुंस्त्री-क्रूराक्रूरौ चर-स्थिर-द्विस्वभावसंज्ञाश्च ।
अजवृषमिथुनकुलिराः पञ्चमनवमैः सहैन्द्र्याद्याः ॥ ७॥
कुजशुक्रज्ञेन्द्वर्कज्ञशुक्रकुजजीवसौरियमगुरवः ।
मेषा नवांशकानामजमकरतुलाकुलीराद्याः ॥ ८॥
स्वगृहाद् द्वादशभागाः द्रेष्काणाः प्रथमपञ्चनवपानाम् ।
होरे विषमेऽर्केन्द्वोः समपाशौ चन्द्रतीक्ष्णांश्वोः ॥ ९॥
कुजयमजीवज्ञसिताः पञ्चेन्द्रयवसुमृनीन्द्द्रयांशानाम् ।
विषमेषु समर्क्षेषूत्क्रमेण त्रिंशांशपाः कल्प्याः ॥ १०॥
नृचतुष्पदकीताप्या बलिनः प्राग्दक्षिणापरोत्तरगाः ।
सन्ध्याद्युरात्रिबलिनः कीटा नृचतुष्पदाश्चैवम् ॥ ११॥
मेषवृषद्वन्द्विसिंहाश्चतुष्पदा मकरपूर्वभागश्च ।
कीटः कर्कटराशिः सरीसृपो वृश्चिकः कथितः ॥ १२॥
मकरस्य पश्चिमार्ध ज्ञेयो मीनश्च जलचरः ख्यातः ।
मिथुनतुलाघटकन्या द्विपदाख्या षन्विपूर्वभागश्च ॥ १३॥
अधिपयुतो दृष्टो वा बुधजीवयुतेक्षितश्च यो राशिः ।
स भवति बलवान्न यदा युक्तो दृष्टोऽपि वा शेषैः ॥ १४॥
तनुधनसहजसुहृत्सुतरिपुजायामृत्युधर्मकर्माख्याः ।
व्यय इति लग्नाद्भावाश्चतुरस्राख्येऽष्टमचतुर्थे ॥ १५॥
पातालहिबुकवेश्मसुखबन्धुसंज्ञाश्चतुर्थभावस्य ।
नव-पञ्चमे त्रिकोणे नवमर्क्ष त्रित्रिकोणं च ॥ १६॥
धीः पञ्चमे तृतीयं दुश्चिक्यं सप्तमं तु यामित्रम् ।
द्युनं द्युनं च तद्वच्छिद्रमष्ट्मं द्वादशं रिष्फम् ॥ १७॥
केन्द्रचतुष्टयकण्टकलग्नाऽस्तदशमचतुर्थानाम् ।
संज्ञा परतः पणफरमापोक्लिमं च तत्परतः ॥ १८॥
त्रिषडेकादशदशमान्युपचयभवनान्यतोऽन्यथाऽन्यानि ।
वर्गोत्तमा नवांशाश्चरादिषु प्रथममध्यान्त्याः ॥ १९॥
मेषाद्याश्चत्वारः सधन्विमकराः क्षपाबला ज्ञेयाः ।
पृष्ठोदया विमिथुनाः शिरसान्ये ह्युभयतो ज्ञेयाः ॥ २०॥
अजवृषमृगाङ्गनाकर्कमीनवणिजांशकेष्विनाद्युच्चाः ।
दशशिख्यष्टाविंशतितिथीन्दियत्रिनवविंशेषु ॥ २१॥
उच्चान्नीचं सप्तममर्कादीनां त्रिकोणसंज्ञानि ।
सिंहवृषाजप्रमदा-कार्मुकभृतौलिकुम्भधराः ॥ २२॥
गृहहोराद्रेष्काणा नवभागो द्वादशांशकस्त्रीम्शः ।
वर्गः प्रत्येतव्यो ग्रहस्य यो यस्य निर्दिष्टः ॥ २३॥
इति लघुजातके राशिप्रभेदाध्यायः ॥

No comments