वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.

Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम्  ।। Astro Classes, Silvassa.

edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983

अथ लघुजातकम् । अथ ग्रहमैत्रीविवेकाध्यायः ॥ ३॥

मित्राण्यर्काजीवो ग़्यगुरू ज्ञैतौ विभास्करा विकुजा ।
दीन्द्वरा विकुजरवीन्दवश्च केषाञ्चिदाचार्यणमयो ॥ १॥

यत्रू मन्दसितौ समय्च ययिजो मित्राणि येषा रवे-
स्तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदौ शेषाः समाः शीतगोः ।
जीवेन्दूष्णकराः कुजस्य सुहृदो ज्ञोऽरिः सितार्की समौ
मित्रे सूर्यसितौ बुधस्य हिमगुः शत्रुः समाश्चापरे ॥ २॥

सूरेः सौम्यसितावरी रविसुतो मध्योऽपरे त्वन्यथा
सौम्यार्की सुहृदौ समौ कुजगुरू शुक्रस्य शेषावरी
शुक्रग़्यौ सुहृदौ समः सुरगुरुः सौरेस्तथान्येऽरय-
स्तत्लाले च दशाऽयबन्धुसहजस्वाऽन्येषु मित्रं स्थितः ॥ ३॥

मित्रमुदासीनोऽरिर्व्याख्याता ये निसर्गभावेन ।
तेऽधिसुहृन्मित्रसमास्तत्कालमुपस्थिताश्चिन्त्याः ॥ ४॥

मूलत्रिकोणषष्ठत्रिकोणनिधनैकराशिसप्तमगाः ।
एकैकस्य यथा सम्भवन्ति तात्कालिका रिपवः ॥ ५॥

॥ इति लघुजातके ग्रहमैत्रीविवेकाध्यायस्तृतीयः ॥

Post a Comment

0 Comments