Header Ads

  • Breaking News

    वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.

    Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम्  ।। Astro Classes, Silvassa.

    edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983

    अथ लघुजातकम् । अथ ग्रहस्वरुपाध्यायः ॥ ४॥

    रविस्वरूपम् -
    चतुरस्त्रो नातुच्चस्तनुकेशः पैत्तिकोऽस्थिसारश्च ।
    शूरो मधुम्पिगाक्षो रक्तश्यामः पृतुश्चार्कः ॥ १॥

    चन्द्रस्वरूपम् -
    स्वच्छः प्राज्ञो गौरश्चपलः कफवातिको रुधिरसारः ।
    मृदुवाग् घृणी प्रियसखस्तनुवृत्तश्चन्द्रमाः प्रांशुः ॥ २॥

    कुजस्वरूपम् -
    हिम्स्रो ह्वस्वस्तरुणः पिङ्गाक्षः पैत्तिको दुरार्धषः ।
    चपलः सरक्तगौरो मज्जासारश्च माहेयः ॥ ३॥

    बुधस्वरूपम् -
    मध्यमरुपः प्रियवाग् दुर्वश्यामः शिराततो निपुणः ।
    त्वक्सारस्त्रीस्थूणः सततं हृष्वस्तु? चन्द्रसुतः ॥ ४॥

    गुरुस्वरूपम् -
    मधुनिभनयनो मतिमनुपचितमांसः कफत्मको गौरः ।
    इष्टिपङ्गलेशो मेदःसारो गुरुविर्घश्चः ॥ ५॥

    शुक्रस्वरूपम् -
    श्यामो विकुष्टपर्वा कुतिलासितमूर्धजः सुखी कान्तः ।
    कफवातिको मधुरवाग्ब्ःॠग़ूपुत्रः शुक्रसारश्च ॥ ६॥

    शनिस्वरूपम् -
    कृशदीर्घः पिङ्गाक्षः? कृष्णः पिशुनोऽनिलप्रकृतिः ।
    स्थूलनखदन्तरोमा शनैश्चरो स्नाशुसारश्च ॥ ७॥

    स्वरूपप्रयोजनम् -
    एति ग्रहा बलिष्ठाः प्रसूतिकले नृणां स्वर्मूतीसमम् ।
    कुर्युर्देहं नियते बहवश्च समागता मिश्रम् ॥ ८॥

    ॥ इति  लघुजातके ग्रहस्वरूपाध्यायश्चतुर्थः ॥

    No comments

    Post Top Ad

    Post Bottom Ad