वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.
Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes, Silvassa.
edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983
अथ लघुजातकम् । अथ गर्भाधानाध्यायः ॥ ५॥
आधानेऽस्तगृहं यत्तच्छिलो मैथूने पुमान् भवति ।
सायासमसद्युतवीक्षिते विदग्धं शुभैरस्ते ॥ १॥
सौरांशेऽब्जांशे वा चन्द्रः सौरान्वितोऽथ हिबुके वा ।
शान्तो दीपो जन्मन्याधाने चेन्न रविदृष्टः ॥ २॥
चन्द्रो यावर्सङ्ख्ये द्वादशभागे निषेकसमये स्यात् ।
तस्मात् तावति राशौ जन्मेन्दौ सम्भवे मासि ॥ ३॥
उदयति मृदुभांशे सप्तमस्थे च मन्दे
यदि भवति निषेकः सूतिमब्दत्रयेण ।
शशिनि तु विधिरेष द्वादशोऽब्दे प्रकिर्या-
न्निगदितमिह चिन्त्यं सूतिकालेऽपि युक्त्या ॥ ४॥
यमवक्रौ द्यूनेऽर्कात् पुंसो रोगप्रदौ स्त्रियश्चन्द्रात् ।
सन्मध्यगयोर्मृत्युस्तदेकयुतदृष्टयोश्चैवम् ॥ ५॥
कल्लधनावयवास्थित्वग्रोमस्मृतिसमुद्भवाः क्रमशः ।
मासेषु शुक्रकुजजीवसूर्यचन्द्रार्किसौम्यानाम् ॥ ६॥
अशनिद्वेगप्रसवाः परतो लग्नेशचन्द्रसूर्याणाम् ।
कलुषैः पीडा पतनं निपीडितैर्निर्मलैः पष्टिः ॥ ७॥
बलयुक्तौ स्वगृहांशेष्वर्कसितावुपचयर्क्षगौ पुंसाम् ।
स्त्रीणां वा कुजचन्द्रौ यदा तदा गर्भसम्भवो भवति ॥ ८॥
लग्ने बलिनि गुरौ वा नवपञ्चमसंस्थितेऽपि वा भवति ।
योगा हतबीजानामफला वीणेव वधिराणाम् ॥ ९॥
विषमर्क्षे विषमांशे संस्थिताश्च गुरुशशाङ्कलग्नार्काः ।
पुञ्जन्मकराः समभेषु योषितां समनवांशगताः ॥ १०॥
बलिनौ विषमेऽर्कगुरू नरं स्त्रियं समगृहे कुजेन्दुसिताः ।
यमलं द्विशरीरांशेष्विन्दुजदृष्टाः स्वपक्षसमम् ॥ ११॥
लग्नाद्विषमोपगतः शनिश्चरः पुत्रजन्मदो भवति ।
निगदितयोगबलाबलमवलोक्य विनिश्चयो वाच्यः ॥ १२॥
॥ इति लघुजातके गर्भाधानाध्यायः पञ्चमः ॥

No comments