वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.

Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम्  ।। Astro Classes, Silvassa.

edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983

अथ लघुजातकम् । अथ निर्याणाध्यायः ॥१५॥

सूर्यादिभिर्निधनगैर्हुतवहहुसलिलायुधज्ववरामवजः ।
क्षुत्तृट्कृतश्च मृत्युः परदेशे नैधने चरभे ॥ १॥

यो वा निधनं पश्यति बलवाम्स्तद्धातुकोपजो मृत्युः ।
लग्नात् त्र्यांशपतिर्वा द्वाविंशः कार्णं मृत्योः ॥ २॥

सुरपितृतिर्यङ्नरकान् गुरुरिन्दुसितावसृग्रवी ज्ञयमौ ।
रिपुरन्ध्रत्र्यंशकपा नयन्ति चाऽस्तारिनिधनास्थाः ॥ ३॥

षष्ठाष्टमकण्टकगो गुरुरुच्चो भवति मीनलग्ने वा ।
शेषैरबलैर्जन्मनि मरणे वा मोक्षगतिमाहुः ॥ ४॥

गुरुरुडुपतिशुक्रौ पूर्यभौमौ यमग़्यौ
विबुधपितृतिरश्चो नारकीयांश्च कुर्युः ।
दिनकरशशिवीर्याऽधिष्ठितत्र्यंशनाथाः
प्रवरसमनिकृष्टास्तुङ्गह्वासादनूके ॥ ५॥

इति लघुजातके निर्याणाध्यायः पञ्चदशः ॥

Post a Comment

0 Comments