Header Ads

  • Breaking News

    वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.

    Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम्  ।। Astro Classes, Silvassa.

    edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983

    अथ लघुजातकम् । अथ स्त्रीजातकाध्यायः ॥ १४॥

    त्रीपुंसोर्जन्मफलं तुल्यं कितत्वत्र लग्नचन्द्रस्थम् ।
    तद्बलयोगाद्वपुराकृतिश्च सौभग्यमस्तमयात् ॥ १॥

    युग्मर्क्षे लग्नेन्द्वोः प्रकृतिस्था रूपशीलगुणयुक्ता ।
    ओजे पुरूषाकारा दुःशीला दुःखिता चैव ॥ २॥

    अबले सप्तमभवने सौम्येक्षणवर्जिते च कापुरूषः ।
    भव्ति पतिश्चरभेऽस्ते प्रवासशीलो भवेद्भ्रान्ती ॥ ३॥

    बाल्ये विधवा भौमे पतिसन्त्यक्ता दिवाकरेऽस्तस्थे ।
    सौरे पापैदृष्टे कन्येव जारं समुपयाति ॥ ४॥

    सितकुजजीवेन्दुसुतैर्बलिभिर्लग्ने समश्च यदि राशिः ।
    स्त्री ब्रह्मवादिनी स्यात्सुशास्त्रकुशला प्रतीता सा ॥ ५॥

    पुञ्जन्मफलं यद्यन्न घटति वनितासु तत्तासाम् ।
    वक्तव्यं राज्याद्यं वृषणविनाशादि वा पापं ॥ ६॥

    इति लघुजातके स्त्रीजातकाध्यायः चतुर्दशः ।

    No comments

    Post Top Ad

    Post Bottom Ad