वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.
Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes, Silvassa.
edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983
अथ लघुजातकम् । अथ नष्टजातकाध्यायः ॥ १६॥
गोसिंहौ जितुमाष्टमौ क्रियतुले कन्यामृगौ च क्रमात्
संवर्ग्या दशकाष्टसप्तविषयैः स्वसङ्ख्यागुणाः ।
जीवारास्फुजिदैन्दवाः प्रथमवच्छेषा ग्रहाः सौम्यव-
द्राशीनां नियतो विधिर्ग्रहयुतैः कार्या च तद्वर्गणा ॥ १॥
सप्ताहतं त्रिघनभाजितशेषमृक्षं
दत्वाऽथवा नव शिशोध्य नवाऽथवा स्यात् ।
एवं कलत्रसहजात्मजशत्रुभेभ्यः
प्रष्टुर्वदेदुदयराशिवशेन तेषाम् ॥ २॥
वर्षर्तुमासतिथयो द्युनिशं हयुडुनि
वेलोदयर्क्षनवभागविकल्पनाः स्युः ।
भूयो दशादिगुणिताः स्व्विकल्पभक्ता
वर्षादयो नवकदानविशोधनाभ्याम् ॥ ३॥
विज्ञेया दशकेष्वब्दा ऋतुमासातथैव च ।
अष्टकेष्वपि मासार्ध तिथयश्च तथा स्मृताः ॥ ४॥
दिवारात्रिप्रसूतिं च नक्षत्रानयनं तथा ।
सप्तसङ्ख्येऽपि वर्गे तु नित्यमेवोपलक्षयेत् ॥ ५॥
वेलामथ विलग्नं च होरामंशकमेव च ।
पञ्चकेषु विजानीयान्नष्टजातकसिद्धये ॥ ६॥
इति वराहमिहिराचार्यकृते लघुजातके नष्टजातकाध्यायः षोडशः ।
समाप्तोऽयं ग्रन्थः ।

No comments