Header Ads

  • Breaking News

    वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.

    Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम्  ।। Astro Classes, Silvassa.

    edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983

    अथ लघुजातकम् । अथ सूतिकाध्यायः ॥ ६॥

    गुरुशशिरवयः सत्त्वं रजः सितग़्यौ तमोऽर्कसुतभौमौ ।
    एतेऽन्तरात्मनि स्वां प्रकृतिं जन्तोः प्रयच्छन्ति ॥ १॥

    सत्त्व रजस्तमो वा त्रिंशांशे यस्य भास्करस्तादृक् ।
    बलिनः सदृशी मूर्तिर्बुध्वा वा जातिकुलदेशान् ॥ २॥

    पूर्वविलग्ने यादृक् नव भागस्तादृशी भवति मूर्तिः ।
    यो वा ग्रहो बलिष्ठस्तत्काले तादृशी वाच्या ॥ ३॥

    चन्द्रे लग्नमपश्यति मध्ये वा शुक्रसौम्ययोश्चन्द्रे ।
    जन्म परोक्षस्य पितुर्य्मोदये वा कुजे वाऽस्ते ॥ ४॥

    पापयुतोऽर्कः सेन्दुः पश्यति होरां न चन्द्रमपि जीवः ।
    पश्यति सार्कं नेन्दु यदि जीवो वा परैर्जातः ॥ ५॥

    द्वरं वास्तुनि केन्द्रोपगाद् ग्रहादसति वा विलग्नर्क्षात् ।
    दीपोऽर्कादुदयाद् वर्तिरिन्दुतः स्नेहनिर्देशः ॥ ६॥

    अदृढं नवमथ दग्धं चित्रं सुदृढं मनोरमं जीणम् ।
    गृहमर्कादिकवीर्यात् पतिभवनं सन्निकृष्टैश्च ॥ ७॥

    गुरुरुच्चो दशमस्थो द्वित्रिचतुर्भूमिकं करोति गृहम् ।
    धनुषि सबलस्त्रिशालं द्विशालमन्येषु यम्लेषु ॥ ८॥

    षट्त्रिनवान्त्याः पादाह् खट्वाङ्गान्यन्तरालभवनानि ।
    विनतत्वं यमलर्क्षैः क्रूरैस्तत्तुल्य उपघातः ॥ ९॥

    छागे सिंहे वृषे लग्ने तत्स्थे सौरेऽथवा कुजे ।
    राश्यंशसदृशे गात्रे जायते नालवेष्टितः ॥ १०॥

    ग़्येयानि ताम्रमणिहेमयुक्तिरौप्याणि मौक्तिकं ओहम् ।
    अर्कद्यैर्बलवद्भिः स्वस्थाने हेम जीवेऽपि ॥ ११॥

    शशिलग्नान्तरसंस्थग्रहतुल्याश्चोपसूतिका ज्ञेयाः ।
    उदगर्धेऽभ्यन्तरगा बाह्याश्चक्रस्य द्ऱ्६इश्येऽर्धे ॥ १२॥

    ॥ इति लघुजातके सूतिकाध्यायः षष्ठः ॥

    No comments

    Post Top Ad

    Post Bottom Ad