वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.
Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes, Silvassa.
edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983
अथ लघुजातकम् । अथाष्टकवर्गाध्यायः ॥ ११॥
केन्द्रायाष्टद्विनवस्र्वकः स्वादार्किभौमतश्च शुभः ।
षट्सप्तान्त्येषु सितात् षडायधीधमर्गो जीवात् ॥ १॥
उपचयगोऽर्कश्चन्द्रादुपचयनवमान्त्यधीगतः सौम्यात् ।
लग्नादुपचयबन्धुव्ययस्थितः शोभनः प्रोक्तः ॥ २॥
शश्युपचयेषु लग्नात्साद्यमुनिः स्वात्कुजात्वनवधीषु ।
सूर्यत् साष्टस्मरगस्त्रिषडायसुतेषु सूर्यसुतात् ॥ ३॥
ज्ञात्केन्द्रत्रिसुतायाष्टगो गुरोर्व्ययायमृत्युकेन्द्रेषु ।
त्रिचतुःसुतनवदशमद्युनायगश्चन्द्रमाः शुक्रात् ॥ ४॥
भौमः स्वादायस्वाष्टकेन्द्रगस्त्र्यायषट्सुतेषु बुधात् ।
जीवादृशाय-शत्रु-व्ययेष्विनादुपचय-सुतेषु ॥ ५॥
उदयादुपचयतनुषु त्रिषडायेष्विन्दुतः समो दशमः ।
भृगुतोन्त्यषडष्टाय्ष्वसितात् केन्द्रायनववसुषु ॥ ६॥
सौम्योऽन्त्यषण्णवायात्मजेश्विनात् स्वात् त्रितनुदशयुतेषु ।
चन्द्राद्द्विरिपुदशायाष्टसुखगतः सादिषु विलग्नात् ॥ ७॥
प्रथमसुखायद्विनिधनधर्मेषु सितात् त्रिधीसमेतेषु ।
साशास्मरेषु सौरारयोर्व्ययायरिपुवसुषु गुरोः ॥ ८॥
जीवो भौमाद्द्वयायाष्टकेन्द्रगोऽर्कात्सधर्मसहजेषु ।
स्वात् सत्रिकेषु शुक्रान्नवदशलाभस्वधीरिपुषु ॥ ९॥
शशिनः स्वरत्रिकोणार्थलाभगस्त्रिरिपुधीव्ययेषु यमात् ।
नवदिक्सुखाध्यधीस्वायशत्रुषु ज्ञात्सकामगो लग्नात् ॥ १०॥
शुक्रो लग्नादासुतनवाष्टलाभेषु सव्ययश्चन्द्रात् ।
स्वात्सदिगसितात्त्रिसुखात्मजाष्ट्दिग्धर्मलाभेषु ॥ ११॥
वस्वन्त्यायेष्वर्कान्नवदिग्लाभाष्टधीस्थितो जीवात् ।
ज्ञात्त्रिसुतनवायारिष्वायसुतापोऽविलभेषु कुजात् ॥ १२॥
स्वात्सौरिस्त्रिसुतायारिगः कुजादन्त्यकर्मसहितेषु ।
स्वायाष्टकेन्द्रगोऽर्काच्छ्त्रात्वष्ठान्त्यलाभेषु ॥ १३॥
त्रिषडायगः शशाङ्कादुदयात्ससुखाद्यकर्मगोऽथ गुरोः ।
सुतषट्व्ययायगो ज्ञात् व्ययायरिपुदिङ्नवाष्टस्थः ॥ १४॥
स्थानेष्वेतुषु शुभाः शेषेष्वहिता भवन्ति चाष्टानाम् ।
अशुभशुभविशेषफलं ग्रहाः प्रयच्छन्ति चारगताः ॥ १५॥
इति लघुजातके अष्टकवर्गाध्याय एकादशः ॥

No comments