Header Ads

  • Breaking News

    वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.

    Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम्  ।। Astro Classes, Silvassa.

    edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983

    अथ लघुजातकम् । अथ दशान्तर्दशाध्यायः ॥ १०॥

    शोध्यक्षेपविशुद्धः कालो यो येन जीविते दत्तः ।
    स विचिन्त्या तस्य दशा स्वदशासु फलप्रदाः सर्वे ॥ १॥

    लग्नार्कंशशाङ्कानां यो बलवां स्तदृशा भवेत् प्रथमा ।
    तत्केन्द्रपणफरापोक्लिमगतानां बलाच्छेषाः ॥ २॥

    मित्रोच्चस्वगृहाम्शोपगतानां शोभना दशाः सर्वाः ।
    स्वोच्चाभिलाषिणमपि न तु कथितविपर्ययस्थानाम् ॥ ३॥

    होरादशा दृकाणैः पूजितमध्याधमा चरे क्रमशः ।
    द्विशरीरे विपरीता स्थिरे तु पापेष्टमध्यफला ॥ ४॥

    एकर्क्षेऽर्ध त्र्यंशं त्रिकोणयोः सप्तमे तु सप्तांशम् ।
    चतुरस्रयोस्तु पादं पाचयति गतो ग्रहः स्वगुणैः ॥ ५॥

    भागाः सदृशच्छेदैर्विवर्जिताः संयुता दशाच्छेदाः ।
    प्रत्यांशा गुणकाराः पृथक् पृथक् चान्तर्दशास्ताः ॥ ६॥

    इति लघुजातके दशान्तर्दशाध्यायः दाशमः ॥

    No comments

    Post Top Ad

    Post Bottom Ad