वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.
Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes, Silvassa.
edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983
अथ लघुजातकम् । अथ नाभसयोगाध्यायः ॥ १३॥
चर्भवनादिषु सर्वैराश्रयजा रज्जुमुसलयोगाः ।
ईर्ष्युमानी धनवान् क्रमेण कुलविश्रुताः सर्वे ॥ १॥
दलयोगौ (subtitlurile tin de comentariu)
केन्द्रत्रयगैः पापैः शुभर्दलाख्यावहिश्च माला च ।
सर्पेऽतिदुःखितानां मालायां जन्म सुखिनां च ॥ २॥
द्विरनन्तरकेन्द्रस्थैर्गदाविलग्नास्तसंस्थितैः शकटम् ।
स्वचतुर्थयोर्विहङ्गः शृङ्गाटकमुदयसुतनवगैः ॥ ३॥
शृण्गाटकतोऽन्यगतैर्हलमेतेषां क्रमात्फलोपनयः ।
यज्वा शकटाजीवी दूतश्चिरसौम्ख्यभाक्कृषिकृत् ॥ ४॥
क्रूरैः सुखकर्मस्थैः सौम्यैरुदयास्तसंस्थिवर्ज्नम् ।
यव इति तद्विपरीतैर्मश्रैः कमलं च्युतैर्वापी ॥ ५॥
लग्नादिकण्टकेभ्यश्चतुर्गृहावस्थितैर्ग्रहैर्योगाः ।
युपेषुशक्तिदण्दा वज्नादीनां फलान्यस्मात् ॥ ६॥
आद्यन्तयोः सुखयुतः सुख भाङ्मध्ये धनान्वितोऽल्पसुखः ।
त्यागी हिंस्त्रो धनवर्जितः पुमान् प्रियैर्वियुक्तश्च ॥ ७॥
तद्वत् सप्तभसंस्थैर्नौकूतच्छत्रकार्मुकाणि स्युः ।
नावाद्यैरप्येवं कण्टकान्यथैः स्मृतोऽर्धशशी ॥ ८॥
एकान्तरैर्विलग्नात्षड्भवनावस्थितैर्ग्रहैश्चक्रम् ।
अर्थाच्च तद्वदुदधिनौप्रभृतिफलान्यथो क्रमशः ॥ ९॥
कीर्त्यायुक्तोऽनतवाक् स्वजनहितः शूरसुभगधनीभूपाः ।
इत्याकृतिजा योगा विंशतिरात्मगुणैस्तेषु नन्दन्ते ॥ १०॥
एकादिगृहोपगतैरुक्तान् योगान्विहाय सङ्ख्याने ।
गोल-युग-शूल-केदार-पाश-दामाख्य-वीणाः स्युः ॥ ११॥
दुःखितदरिद्रघातककृषिकरदुःशीलपशुपतिनिपुणानाम् ।
जन्म क्रमेण सुखिनः परभाग्यैस्सर्व एवैते ॥ १२॥
इति लघुजातके नाभसयोगाध्यायस्त्रयोदशः ।

No comments