Header Ads

  • Breaking News

    Saubhagya AShtottarashatanam Stotram. सौभाग्याष्टोत्तरशतनामस्तोत्रम् ।। Astro Classes.

    सौभाग्याष्टोत्तरशतनामस्तोत्रम् ।। Astro Classes, Silvassa.

    दत्तात्रेयेण कृतं सौभाग्याष्टोत्तरशतनामस्तोत्रोपदेशवर्णनम्
    निशम्यैतज्जामदग्न्यो माहात्म्यं सर्वतोऽधिकम् ।
    स्तोत्रस्य भूयः पप्रच्छ दत्तात्रेयं गुरूत्तमम् ॥ १॥

    भगवन् त्वन्मुखाम्भोजनिर्गमद्वाक्सुधारसम् ।
    पिबतः श्रोतमुखतो वर्धतेऽनुक्षणं तृषा ॥ २॥

    अष्टोत्तरशतं नाम्नां श्रीदेव्या यत्प्रसादतः ।
    कामः सम्प्राप्तवान् लोके सौभाग्यं सर्वमोहनम् ॥ ३॥

    सौभाग्यविद्यावर्णानामुद्धारो यत्र संस्थितः ।
    तत्समाचक्ष्व भगवन् कृपया मयि सेवके ॥ ४॥

    निशम्यैवं भार्गवोक्तिं दत्तात्रेयो दयानिधिः ।
    प्रोवाच भार्गवं रामं मधुराऽक्षरपूर्वकम् ॥ ५॥

    शृणु भार्गव ! यत् पृष्टं नाम्नामष्टोत्तरं शतम् ।
    श्रीविद्यावर्णरत्नानां निधानमिव संस्थितम् ॥ ६॥

    श्रीदेव्या बहुधा सन्ति नामानि शृणु भार्गव ।
    सहस्रशतसङ्ख्यानि पुराणेष्वागमेषु च ॥ ७॥

    तेषु सारतमं ह्येतत्सौभाग्याऽष्टोत्तराऽऽत्मकम् ।
    यदुवाच शिवः पूर्वं भवान्यै बहुधाऽर्थितः ॥ ८॥

    सौभाग्याऽष्टोत्तरशतनामस्तोत्रस्य भार्गव ।
    ऋषिरुक्तः शिवश्छन्दोऽनुष्टुप् श्रीललिताऽम्बिका ॥ ९॥

    देवता विन्यसेत्कूटत्रयेणाऽऽवर्त्य सर्वतः ।
    ध्यात्वा सम्पूज्य मनसा स्तोत्रमेतदुदीरयेत् ॥ १०॥

           ॥ त्रिपुराम्बिकायैनमः॥

    कामेश्वरी कामशक्तिः कामसौभाग्यदायिनी।
    कामरूपा कामकला कामिनी कमलाऽऽसना ॥ ११॥

    कमला कल्पनाहीना कमनीयकलावती ।
    कमला भारतीसेव्या कल्पिताऽशेषसंसृतिः ॥ १२॥

    अनुत्तराऽनघाऽनन्ताऽद्भुतरूपाऽनलोद्भवा ।
    अतिलोकचरित्राऽतिसुन्दर्यतिशुभप्रदा ॥ १३॥

    अघहन्त्र्यतिविस्ताराऽर्चनतुष्टाऽमितप्रभा ।
    एकरूपैकवीरैकनाथैकान्ताऽर्चनप्रिया ॥ १४॥

    एकैकभावतुष्टैकरसैकान्तजनप्रिया ।
    एधमानप्रभावैधद्भक्तपातकनाशिनी ॥ १५॥

    एलामोदमुखैनोऽद्रिशक्रायुधसमस्थितिः ।
    ईहाशून्येप्सितेशादिसेव्येशानवराङ्गना ॥ १६॥

    ईश्वराऽऽज्ञापिकेकारभाव्येप्सितफलप्रदा ।
    ईशानेतिहरेक्षेषदरुणाक्षीश्वरेश्वरी ॥ १७॥

    ललिता ललनारूपा लयहीना लसत्तनुः ।
    लयसर्वा लयक्षोणिर्लयकर्णी लयात्मिका ॥ १८॥

    लघिमा लघुमध्याऽऽढ्या ललमाना लघुद्रुता ।
    हयाऽऽरूढा हताऽमित्रा हरकान्ता हरिस्तुता ॥ १९॥

    हयग्रीवेष्टदा हालाप्रिया हर्षसमुद्धता ।
    हर्षणा हल्लकाभाङ्गी हस्त्यन्तैश्वर्यदायिनी ॥ २०॥

    हलहस्ताऽर्चितपदा हविर्दानप्रसादिनी ।
    रामरामाऽर्चिता राज्ञी रम्या रवमयी रतिः ॥ २१॥

    रक्षिणीरमणीराका रमणीमण्डलप्रिया ।
    रक्षिताऽखिललोकेशा रक्षोगणनिषूदिनी ॥ २२॥

    अम्बान्तकारिण्यम्भोजप्रियाऽन्तकभयङ्करी ।
    अम्बुरूपाऽम्बुजकराऽम्बुजजातवरप्रदा ॥ २३॥

    अन्तःपूजाप्रियाऽन्तःस्वरूपिण्यन्तर्वचोमयी ।
    अन्तकाऽरातिवामाङ्कस्थिताऽन्तःसुखरूपिणी ॥ २४॥

    सर्वज्ञा सर्वगा सारा समा समसुखा सती ।
    सन्ततिः सन्तता सोमा सर्वा साङ्ख्या सनातनी ॥ २५॥

              ॥ फलश्रुतिः॥

    एतत्ते कथितं राम नाम्नामष्टोत्तरं शतम् ।
    अतिगोप्यमिदं नाम्नः सर्वतः सारमुद्धृतम् ॥ २६॥

    एतस्य सदृशं स्तोत्रं त्रिषु लोकेषु दुर्लभम् ।
    अप्राकश्यमभक्तानां पुरतो देवताद्विषाम् ॥ २७॥

    एतत् सदाशिवो नित्यं पठन्त्यन्ये हरादयः ।
    एतत्प्रभावात्कन्दर्पस्त्रैलोक्यं जयति क्षणात् ॥ २८॥

    सौभाग्याऽष्टोत्तरशतनामस्तोत्रं मनोहरम् ।
    यस्त्रिसन्ध्यं पठेन्नित्यं न तस्य भुवि दुर्लभम् ॥ २९॥

    श्रीविद्योपासनवतामेतदावश्यकं मतम् ।
    सकृदेतत्प्रपठतां नाऽन्यत्कर्म विलुप्यते ॥ ३०॥

    अपठित्वा स्तोत्रमिदं नित्यं नैमित्तिकं कृतम् ।
    व्यर्थीभवति नग्नेन कृतं कर्म यथा तथा ॥ ३१॥

    सहस्रनामपाठादावशक्तस्त्वेतदीरयेत् ।
    सहस्रनामपाठस्य फलं शतगुणं भवेत् ॥ ३२॥

    सहस्रधा पठित्वा तु वीक्षणान्नाशयेद्रिपून् ।
    करवीररक्तपुष्पैर्हुत्वा लोकान् वशं नयेत् ॥ ३३॥

    स्तम्भेयत् श्वेतकुसुमैर्नीलैरुच्चाटयेद्रिपून् ।
    मरिचैर्विद्वेषेणाय लवङ्गैर्व्याधिनाशने ॥ ३४॥

    सुवासिनीर्ब्राह्मणान् वा भोजयेद्यस्तु नामभिः ।
    यश्च पुष्पैः फलैर्वापि पूजयेत् प्रतिनामभिः ॥ ३५॥

    चक्रराजेऽथवाऽन्यत्र स वसेच्छ्रीपुरे चिरम् ।
    यः सदा वर्तयन्नास्ते नामाऽष्टशतमुत्तमम् ॥ ३६॥

    तस्य श्रीललिता राज्ञी प्रसन्ना वाञ्छितप्रदा॥

    No comments

    Post Top Ad

    Post Bottom Ad