Header Ads

  • Breaking News

    जागृहि जागृहि ॥ Astro Classes.

    जागृहि जागृहि ॥  Astro Classes, Silvassa.

    आशया बद्ध्यते लोकः कर्मणा परिबद्ध्यते ।
    आयुःक्षयं न जानाति तस्मात् जागृहि जागृहि ॥

    जन्मदुःखं जरादुःखं जायादुःखं पुनः पुनः ।
    अन्तकाले महादुःखं तस्मात् जागृहि जागृहि ॥

    कामक्रोधौ लोभमोहौ देहे तिष्ठन्ति तस्कराः ।
    ज्ञानरत्नापहाराय तस्मात् जागृहि जागृहि ॥

    ऐश्वर्यं स्वप्नसङ्काशं यौवनं कुसुमोपमम् ।
    क्षणिकं जलमायुश्च तस्मात् जागृहि जागृहि ॥

    माता नास्ति पिता नास्ति नास्ति बन्धुः सहोदरः ।
    संसारे किमपि नास्ति तस्मात् जागृहि जागृहि ॥
    (variation  नास्ति किञ्चिद्धि संसारे तस्मात् जागृहि जागृहि ॥)

    माता पिता च पुत्राश्च स्त्रीसहोदरबान्धवाः ।
    स्वार्थसम्बन्धिनः सर्वे तस्मात् जागृहि जागृहि ॥

    No comments

    Post Top Ad

    Post Bottom Ad