Header Ads

  • Breaking News

    ऋग्वेदः - मण्डल - ३. सूक्त – २६, २७, २८, २९ एवं ३०. Astro Classes, Silvassa.


    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – २६.

    वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम्।
    सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे॥ ३.०२६.०१
    तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम्।
    बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम्॥ ३.०२६.०२
    अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे।
    स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः॥ ३.०२६.०३
    प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिश्लाः पृषतीरयुक्षत।
    बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वताँ अदाभ्याः॥ ३.०२६.०४
    अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम्।
    ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः॥ ३.०२६.०५
    व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे।
    पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः॥ ३.०२६.०६
    अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन्।
    अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम॥ ३.०२६.०७
    त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन्।
    वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत्॥ ३.०२६.०८
    शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम्।
    मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम्॥ ३.०२६.०९

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – २७.

    प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या।
    देवाञ्जिगाति सुम्नयुः॥ ३.०२७.०१
    ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम्।
    श्रुष्टीवानं धितावानम्॥ ३.०२७.०२
    अग्ने शकेम ते वयं यमं देवस्य वाजिनः।
    अति द्वेषांसि तरेम॥ ३.०२७.०३
    समिध्यमानो अध्वरेऽग्निः पावक ईड्यः।
    शोचिष्केशस्तमीमहे॥ ३.०२७.०४
    पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः।
    अग्निर्यज्ञस्य हव्यवाट्॥ ३.०२७.०५
    तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः।
    आ चक्रुरग्निमूतये॥ ३.०२७.०६
    होता देवो अमर्त्यः पुरस्तादेति मायया।
    विदथानि प्रचोदयन्॥ ३.०२७.०७
    वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते।
    विप्रो यज्ञस्य साधनः॥ ३.०२७.०८
    धिया चक्रे वरेण्यो भूतानां गर्भमा दधे।
    दक्षस्य पितरं तना॥ ३.०२७.०९
    नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत।
    अग्ने सुदीतिमुशिजम्॥ ३.०२७.१०
    अग्निं यन्तुरमप्तुरमृतस्य योगे वनुषः।
    विप्रा वाजैः समिन्धते॥ ३.०२७.११
    ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि।
    अग्निमीळे कविक्रतुम्॥ ३.०२७.१२
    ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः।
    समग्निरिध्यते वृषा॥ ३.०२७.१३
    वृषो अग्निः समिध्यतेऽश्वो न देववाहनः।
    तं हविष्मन्त ईळते॥ ३.०२७.१४
    वृषणं त्वा वयं वृषन्वृषणः समिधीमहि।
    अग्ने दीद्यतं बृहत्॥ ३.०२७.१५

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – २८.

    अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः।
    प्रातःसावे धियावसो॥ ३.०२८.०१
    पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः।
    तं जुषस्व यविष्ठ्य॥ ३.०२८.०२
    अग्ने वीहि पुरोळाशमाहुतं तिरोअह्न्यम्।
    सहसः सूनुरस्यध्वरे हितः॥ ३.०२८.०३
    माध्यंदिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व।
    अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः॥ ३.०२८.०४
    अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम्।
    अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम्॥ ३.०२८.०५
    अग्ने वृधान आहुतिं पुरोळाशं जातवेदः।
    जुषस्व तिरोअह्न्यम्॥ ३.०२८.०६

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – २९.

    अस्तीदमधिमन्थनमस्ति प्रजननं कृतम्।
    एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा॥ ३.०२९.०१
    अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु।
    दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः॥ ३.०२९.०२
    उत्तानायामव भरा चिकित्वान्सद्यः प्रवीता वृषणं जजान।
    अरुषस्तूपो रुशदस्य पाज इळायास्पुत्रो वयुनेऽजनिष्ट॥ ३.०२९.०३
    इळायास्त्वा पदे वयं नाभा पृथिव्या अधि।
    जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे॥ ३.०२९.०४
    मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम्।
    यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम्॥ ३.०२९.०५
    यदी मन्थन्ति बाहुभिर्वि रोचतेऽश्वो न वाज्यरुषो वनेष्वा।
    चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन्॥ ३.०२९.०६
    जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः।
    यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु॥ ३.०२९.०७
    सीद होतः स्व उ लोके चिकित्वान्सादया यज्ञं सुकृतस्य योनौ।
    देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः॥ ३.०२९.०८
    कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ।
    अयमग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून्॥ ३.०२९.०९
    अयं ते योनिरृत्वियो यतो जातो अरोचथाः।
    तं जानन्नग्न आ सीदाथा नो वर्धया गिरः॥ ३.०२९.१०
    तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते।
    मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि॥ ३.०२९.११
    सुनिर्मथा निर्मथितः सुनिधा निहितः कविः।
    अग्ने स्वध्वरा कृणु देवान्देवयते यज॥ ३.०२९.१२
    अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम्।
    दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते॥ ३.०२९.१३
    प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि।
    न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत॥ ३.०२९.१४
    अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः।
    द्युम्नवद्ब्रह्म कुशिकास एरिर एकएको दमे अग्निं समीधिरे॥ ३.०२९.१५
    यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह।
    ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वाँ उप याहि सोमम्॥ ३.०२९.१६

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – ३०.

    इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि।
    तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः॥ ३.०३०.०१
    न ते दूरे परमा चिद्रजांस्या तु प्र याहि हरिवो हरिभ्याम्।
    स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ॥ ३.०३०.०२
    इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिरृघावान्।
    यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि॥ ३.०३०.०३
    त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः।
    तव द्यावापृथिवी पर्वतासोऽनु व्रताय निमितेव तस्थुः॥ ३.०३०.०४
    उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन्।
    इमे चिदिन्द्र रोदसी अपारे यत्संगृभ्णा मघवन्काशिरित्ते॥ ३.०३०.०५
    प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून्।
    जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु॥ ३.०३०.०६
    यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते गेह्यं सः।
    भद्रा त इन्द्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः॥ ३.०३०.०७
    सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र सं पिणक्कुणारुम्।
    अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ॥ ३.०३०.०८
    नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ।
    अस्तभ्नाद्द्यां वृषभो अन्तरिक्षमर्षन्त्वापस्त्वयेह प्रसूताः॥ ३.०३०.०९
    अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार।
    सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः॥ ३.०३०.१०
    एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीमुत द्याम्।
    उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान्॥ ३.०३०.११
    दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः।
    सं यदानळध्वन आदिदश्वैर्विमोचनं कृणुते तत्त्वस्य॥ ३.०३०.१२
    दिदृक्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम्।
    विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुकृता पुरूणि॥ ३.०३०.१३
    महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः।
    विश्वं स्वाद्म सम्भृतमुस्रियायां यत्सीमिन्द्रो अदधाद्भोजनाय॥ ३.०३०.१४
    इन्द्र दृह्य यामकोशा अभूवन्यज्ञाय शिक्ष गृणते सखिभ्यः।
    दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः॥ ३.०३०.१५
    सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम्।
    वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रन्धयस्व॥ ३.०३०.१६
    उद्वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि।
    आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य॥ ३.०३०.१७
    स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः।
    रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान्॥ ३.०३०.१८
    आ नो भर भगमिन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके।
    ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम्॥ ३.०३०.१९
    इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च।
    स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन्॥ ३.०३०.२०
    आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः।
    दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः॥ ३.०३०.२१
    शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ।
    शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्॥ ३.०३०.२२

    No comments

    Post Top Ad

    Post Bottom Ad