Header Ads

  • Breaking News

    ऋग्वेदः - मण्डल - ३. सूक्त – ३१, ३२, ३३, ३४ एवं ३५. Astro Classes, Silvassa.


    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ३१.

    शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वाँ ऋतस्य दीधितिं सपर्यन्।
    पिता यत्र दुहितुः सेकमृञ्जन्सं शग्म्येन मनसा दधन्वे॥ ३.०३१.०१
    न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानम्।
    यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन्॥ ३.०३१.०२
    अग्निर्जज्ञे जुह्वा रेजमानो महस्पुत्राँ अरुषस्य प्रयक्षे।
    महान्गर्भो मह्या जातमेषां मही प्रवृद्धर्यश्वस्य यज्ञैः॥ ३.०३१.०३
    अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन्।
    तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः॥ ३.०३१.०४
    वीळौ सतीरभि धीरा अतृन्दन्प्राचाहिन्वन्मनसा सप्त विप्राः।
    विश्वामविन्दन्पथ्यामृतस्य प्रजानन्नित्ता नमसा विवेश॥ ३.०३१.०५
    विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः।
    अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात्॥ ३.०३१.०६
    अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः।
    ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन्॥ ३.०३१.०७
    सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम्।
    प्र णो दिवः पदवीर्गव्युरर्चन्सखा सखीँरमुञ्चन्निरवद्यात्॥ ३.०३१.०८
    नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुम्।
    इदं चिन्नु सदनं भूर्येषां येन मासाँ असिषासन्नृतेन॥ ३.०३१.०९
    सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः।
    वि रोदसी अतपद्घोष एषां जाते निष्ठामदधुर्गोषु वीरान्॥ ३.०३१.१०
    स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः।
    उरूच्यस्मै घृतवद्भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः॥ ३.०३१.११
    पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन्।
    विष्कभ्नन्तः स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन्॥ ३.०३१.१२
    मही यदि धिषणा शिश्नथे धात्सद्योवृधं विभ्वं रोदस्योः।
    गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः॥ ३.०३१.१३
    मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः।
    महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः॥ ३.०३१.१४
    महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित्सखिभ्यश्चरथं समैरत्।
    इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्यमुषसं गातुमग्निम्॥ ३.०३१.१५
    अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः।
    मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः॥ ३.०३१.१६
    अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे।
    परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः॥ ३.०३१.१७
    पतिर्भव वृत्रहन्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः।
    आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन्॥ ३.०३१.१८
    तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम्।
    द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्सातये धाः॥ ३.०३१.१९
    मिहः पावकाः प्रतता अभूवन्स्वस्ति नः पिपृहि पारमासाम्।
    इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः॥ ३.०३१.२०
    अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णाँ अरुषैर्धामभिर्गात्।
    प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः॥ ३.०३१.२१
    शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ।
    शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्॥ ३.०३१.२२

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – ३२.

    इन्द्र सोमं सोमपते पिबेमं माध्यंदिनं सवनं चारु यत्ते।
    प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व॥ ३.०३२.०१
    गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय।
    ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदा वृषस्व॥ ३.०३२.०२
    ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्त ओजः।
    माध्यंदिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र॥ ३.०३२.०३
    त इन्न्वस्य मधुमद्विविप्र इन्द्रस्य शर्धो मरुतो य आसन्।
    येभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म॥ ३.०३२.०४
    मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय।
    स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि॥ ३.०३२.०५
    त्वमपो यद्ध वृत्रं जघन्वाँ अत्याँ इव प्रासृजः सर्तवाजौ।
    शयानमिन्द्र चरता वधेन वव्रिवांसं परि देवीरदेवम्॥ ३.०३२.०६
    यजाम इन्नमसा वृद्धमिन्द्रं बृहन्तमृष्वमजरं युवानम्।
    यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते॥ ३.०३२.०७
    इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे।
    दाधार यः पृथिवीं द्यामुतेमां जजान सूर्यमुषसं सुदंसाः॥ ३.०३२.०८
    अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमम्।
    न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त॥ ३.०३२.०९
    त्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे व्योमन्।
    यद्ध द्यावापृथिवी आविवेशीरथाभवः पूर्व्यः कारुधायाः॥ ३.०३२.१०
    अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान्।
    न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः॥ ३.०३२.११
    यज्ञो हि त इन्द्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः।
    यज्ञेन यज्ञमव यज्ञियः सन्यज्ञस्ते वज्रमहिहत्य आवत्॥ ३.०३२.१२
    यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्याम्।
    यः स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः॥ ३.०३२.१३
    विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः।
    अंहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते॥ ३.०३२.१४
    आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै।
    समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम्॥ ३.०३२.१५
    न त्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त।
    इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम्॥ ३.०३२.१६
    शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ।
    शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्॥ ३.०३२.१७

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – ३३.

    प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने।
    गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते॥ ३.०३३.०१
    इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः।
    समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे॥ ३.०३३.०२
    अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म।
    वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती॥ ३.०३३.०३
    एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः।
    न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति॥ ३.०३३.०४
    रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः।
    प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः॥ ३.०३३.०५
    इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम्।
    देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः॥ ३.०३३.०६
    प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत्।
    वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः॥ ३.०३३.०७
    एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि।
    उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते॥ ३.०३३.०८
    ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन।
    नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः॥ ३.०३३.०९
    आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन।
    नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते॥ ३.०३३.१०
    यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः।
    अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम्॥ ३.०३३.११
    अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम्।
    प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम्॥ ३.०३३.१२
    उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत।
    मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम्॥ ३.०३३.१३

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – ३४.

    इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून्।
    ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे॥ ३.०३४.०१
    मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन्।
    इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा॥ ३.०३४.०२
    इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः।
    अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम्॥ ३.०३४.०३
    इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः।
    प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय॥ ३.०३४.०४
    इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि।
    अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम्॥ ३.०३४.०५
    महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि।
    वृजनेन वृजिनान्सं पिपेष मायाभिर्दस्यूँरभिभूत्योजाः॥ ३.०३४.०६
    युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः।
    विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति॥ ३.०३४.०७
    सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः।
    ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः॥ ३.०३४.०८
    ससानात्याँ उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम्।
    हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत्॥ ३.०३४.०९
    इन्द्र ओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम्।
    बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम्॥ ३.०३४.१०
    शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ।
    शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्॥ ३.०३४.११

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – ३५.

    तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ।
    पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय॥ ३.०३५.०१
    उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि।
    द्रवद्यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमा वहात इन्द्रम्॥ ३.०३५.०२
    उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः।
    ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः॥ ३.०३५.०३
    ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू।
    स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वाँ उप याहि सोमम्॥ ३.०३५.०४
    मा ते हरी वृषणा वीतपृष्ठा नि रीरमन्यजमानासो अन्ये।
    अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः॥ ३.०३५.०५
    तवायं सोमस्त्वमेह्यर्वाङ्छश्वत्तमं सुमना अस्य पाहि।
    अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र॥ ३.०३५.०६
    स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम्।
    तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि॥ ३.०३५.०७
    इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन्।
    तस्यागत्या सुमना ऋष्व पाहि प्रजानन्विद्वान्पथ्या अनु स्वाः॥ ३.०३५.०८
    याँ आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते।
    तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र॥ ३.०३५.०९
    इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र।
    अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व॥ ३.०३५.१०
    शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ।
    शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्॥ ३.०३५.११

    No comments

    Post Top Ad

    Post Bottom Ad