Header Ads

  • Breaking News

    ऋग्वेदः - मण्डल - ३. सूक्त – २१, २२, २३, २४ एवं २५. Astro Classes, Silvassa.


    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – २१.

    इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व।
    स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य॥ ३.०२१.०१
    घृतवन्तः पावक ते स्तोकाः श्चोतन्ति मेदसः।
    स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम्॥ ३.०२१.०२
    तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य।
    ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव॥ ३.०२१.०३
    तुभ्यं श्चोतन्त्यध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य।
    कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर॥ ३.०२१.०४
    ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे।
    श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि॥ ३.०२१.०५

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – २२.

    अयं सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः।
    सहस्रिणं वाजमत्यं न सप्तिं ससवान्सन्स्तूयसे जातवेदः॥ ३.०२२.०१
    अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र।
    येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः॥ ३.०२२.०२
    अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये।
    या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः॥ ३.०२२.०३
    पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः।
    जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः॥ ३.०२२.०४
    इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध।
    स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे॥ ३.०२२.०५

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – २३.

    निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता।
    जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः॥ ३.०२३.०१
    अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम्।
    अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून्॥ ३.०२३.०२
    दश क्षिपः पूर्व्यं सीमजीजनन्सुजातं मातृषु प्रियम्।
    अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी॥ ३.०२३.०३
    नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम्।
    दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि॥ ३.०२३.०४
    इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध।
    स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे॥ ३.०२३.०५

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – २४.

    अग्ने सहस्व पृतना अभिमातीरपास्य।
    दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे॥ ३.०२४.०१
    अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः।
    जुषस्व सू नो अध्वरम्॥ ३.०२४.०२
    अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत।
    एदं बर्हिः सदो मम॥ ३.०२४.०३
    अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः।
    यज्ञेषु य उ चायवः॥ ३.०२४.०४
    अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम्।
    शिशीहि नः सूनुमतः॥ ३.०२४.०५

    ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३.  सूक्त – २५.

    अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः।
    ऋधग्देवाँ इह यजा चिकित्वः॥ ३.०२५.०१
    अग्निः सनोति वीर्याणि विद्वान्सनोति वाजममृताय भूषन्।
    स नो देवाँ एह वहा पुरुक्षो॥ ३.०२५.०२
    अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः।
    क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः॥ ३.०२५.०३
    अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम्।
    अमर्धन्ता सोमपेयाय देवा॥ ३.०२५.०४
    अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः।
    सधस्थानि महयमान ऊती॥ ३.०२५.०५

    No comments

    Post Top Ad

    Post Bottom Ad