Header Ads

  • Breaking News

    गजाननस्तोत्रम् देवर्षिकृतम् ।। Astro Classes, Silvassa.

    गजाननस्तोत्रम् देवर्षिकृतम् ।। Astro Classes, Silvassa.

    श्री गणेशाय नमः ।  देवर्षय ऊचुः ।।

    विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वसुखप्रदम् तम् ।
    अमेयसाङ्ख्येन च लक्ष्मीशं गजाननं भक्‍तियुतं भजामः ॥ १॥

    मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् ।
    विकारहीनं सकलाम्मकं वै गजाननं भक्‍तियुतं भजामः ॥ २॥

    अमेय रूपं हृदि संस्थितं तं ब्रह्माऽहमेकं भ्रमनाशकारम् ।
    अनादि-मध्यान्तमपाररूपं गजाननं भक्‍तियुतं भजामः ॥ ३॥

    जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् ।
    अनात्मनां मोहप्रदं पुराणं गजाननं भक्‍तियुतं भजामः ॥ ४॥

    न पृथ्विरूपं न जलप्रकाशनं न तेजसंस्थं न समीरसंस्थम् ।
    न खे गतं पञ्चविभूतिहीनं गजाननं भक्‍तियुतं भजामः ॥ ५॥

    न विश्वगं तैजसगं न प्राज्ञं समष्टि-व्यष्टिस्थ-मनन्तगं तम् ।
    गुणैर्विहीनं परमार्थभूतं गजाननं भक्‍तियुतं भजामः ॥ ६॥

    गणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढी ।
    सुयोगहीनं प्रवदन्ति तत्स्थं गजाननं भक्‍तियुतं भजामः ॥ ७॥

    अनागतं ग्रैवगतं गणेशं कथं तदाकारमयं वदामः ।
    तथापि सर्वं प्रतिदेहसंस्थं गजाननं भक्‍तियुतं भजामः ॥ ८॥

    यदि त्वया नाथ! घृतं न किञ्चित्तदा कथं सर्वमिदं भजामि ।
    अतो महात्मानमचिन्त्यमेवं गजानन भक्‍तियुतं भजामः ॥ ९॥

    सुसिद्धिदं भक्‍तजनस्य देवं सकामिकानामिह सौख्यदं तम् ।
    अकामिकानां भवबन्धहारं गजाननं भक्‍तियुतं भजामः ॥ १०॥

    सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयन्तम् ।
    अनन्तबाहु मूषकध्वजं तं गजाननं भक्‍तियुतं भजामः ॥ ११॥

    सदा सुखानन्दमयं जले च समुद्रजे इक्षुरसे निवासम् ।
    द्वन्द्वस्य यानेन च नाशरूपे गजाननं भक्‍तियुतं भजामः ॥ १२॥

    चतुःपदार्था विविधप्रकाशस्तदेव हस्तं सुचतुर्भुजं तम् ।
    अनाथनाथं च महोदरं वै गजाननं भक्‍तियुतं भजामः ॥ १३॥

    महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् ।
    अमायिनं मायिकमोहदं तं गजाननं भक्‍तियुतं भजामः ॥ १४॥

    रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् ।
    शिवस्वरूपं शिवभासनाशं गजाननं भक्‍तियुतं भजामः ॥ १५॥

    महेश्वरीस्थं च सुशक्‍तिहीनं प्रभुं परेशं परवन्द्यमेवम् ।
    अचालकं चालकबीजरूपं गजाननं भक्‍तियुतं भजामः ॥ १६॥

    शिवादि-देवैश्च खगैश्च वन्द्यं नरैर्लता-वृक्ष-पशुप्रमुख्यैः ।
    चराऽचरैर्लोक-विहीनमेवं गजाननं भक्‍तियुतं भजामः ॥ १७॥

    मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् ।
    तथाऽपि देवं पुरसंस्थितं तं गजाननं भक्‍तियुतं भजामः ॥ १८॥

    वयं सुधन्या गणपस्तवेन तथैव मर्त्यार्चनतस्तथैव ।
    गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्‍तियुतं भजामः ॥ १९॥

    गजाख्यबीजं प्रवदन्ति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् ।
    गच्छन्ति तेनैव गजाननं तं गजाननं भक्‍तियुतं भजामः ॥ २०॥

    पुराणवेदाः शिवविष्णुकाद्यामराः शुकाद्या गणपस्तवे वै ।
    विकुण्ठिताः किं च वयं स्तवामो गजाननं भक्‍तियुतं भजामः ॥ २१॥

    मुद्गल उवाच ॥

    एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः ।
    तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ २२॥

    गजानन उवाच ॥

    वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् ।
    स्तोत्रेण प्रीतिसंयुक्‍तो दास्यामि वाञ्छितं परम् ॥ २३॥

    गजाननवचः श्रुत्वा हर्षयुक्‍ता सुरर्षयः ।
    जगुस्तं भक्‍तिभावेन साश्रुनेत्रा प्रजापते ॥ २४॥

    देवर्षय ऊचुः ॥

    यदि गजानन स्वामिन् प्रसन्नो वरदोऽसि मे ।
    तदा भक्‍तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ २५॥

    लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा ।
    तया गजदिदं सर्वं वरयुक्‍तं कृतं त्वया ॥ २६॥

    अधुना देवदेवेश! कर्मयुक्‍ता द्विजातयः ।
    भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ २७॥

    स्व-स्वधर्मरताः सर्वे कृतास्त्वया गजानन!।
    अतः परं वरं ढुण्ढे याचमानः किमप्यहो!॥ २८॥

    यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो ।
    तदा सङ्कटहीनान् वै कुरू त्वं नो गजानन!॥ २९॥

    एवमुक्‍त्वा प्रणेमुस्तं गजाननमनामयम् ।
    तानुवाच सप्रीत्यात्मा भक्‍ताधीनः स्वभावतः ॥ ३०॥

    गजानन उवाच ॥

    यद्यच्च प्रार्थितं देवा मुनयः सर्वमञ्जसा ।
    भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ ३१॥

    भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् ।
    भविष्यति विशेषेण मम भक्‍ति-प्रदायकम् ॥ ३२॥

    पुत्र-पौत्र-प्रदं पूर्णं धन-धान्य-प्रवर्धनम् ।
    सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ ३३॥

    मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः ।
    परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ ३४॥

    सङ्ग्रामे जयदं चैव यात्राकाले फलप्रदम् ।
    शत्रूच्चाटनादिषु च प्रशस्तं तद् भविष्यति ॥ ३५॥

    कारागृहगतस्यैव बन्धनाशकरं भवेत् ।
    असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ ३६॥

    एकविंशति वारं तत् चैकविंशद्दिनावधिम् ।
    प्रयोगं यः करोत्येव सर्वसिद्धियुतो भवेत् ॥ ३७॥

    धर्माऽर्थकाम-मोक्षाणां ब्रह्मभूतस्य दायकम् ।
    भविष्यति न सन्देहः स्तोत्रं मद्भक्‍तिवर्धनम् ॥ ३८॥

    एवमुक्‍त्वा गणाधीशस्तत्रैवान्तरधीयत ॥

    इति मुद्गलपुराणान्तर्गतं गजाननस्तोत्रं सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad