Header Ads

  • Breaking News

    गजाननस्तोत्रम् शङ्करादिकृतम् ।। Astro Classes, Silvassa.

    गजाननस्तोत्रम् शङ्करादिकृतम् ।। Astro Classes, Silvassa.

    श्री गणेशाय नमः ।  देवा ऊचुः ।।
    गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते ।
    विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ १॥

    अमेयाय च हेरम्ब परशुधारकाय ते ।
    मूषकवाहनायैव विश्वेशाय नमो नमः ॥ २॥

    अनन्तविभवायैव परेशां पररूपिणे ।
    शिवपुत्राय देवाय गुहाग्रजाय ते नमः ॥ ३॥

    पार्वतीनन्दनायैव देवानां पालकाय ते ।
    सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ ४॥

    स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत ।
    विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ ५॥

    योगाकाराय सर्वेषां योगशान्तिप्रदाय च ।
    ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते ॥ ६॥

    सिद्धि-बुद्धिपते नाथ! सिद्धि-बुद्धिप्रदायिने ।
    मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ ७॥

    लम्बोदराय वै तुभ्यं सर्वोदरगताय च ।
    अमायिने च मायाया आधाराय नमो नमः ॥ ८॥

    गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप!।
    योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ ९॥

    तेन त्वं गजवक्‍त्रश्च किं स्तुमस्तवां गजानन ।
    वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवपाः ॥ १०॥

    शुक्रादयश्च शेषाद्याः स्तोतुं शक्‍ता भवन्ति नः ।
    तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ ११॥

    एवमुक्‍त्वा प्रणेमुस्तं गजाननं शिवादयः ।
    स तानुवाच प्रीतात्मा भक्‍तिभावेन तोषितः ॥ १२॥

    गजानन उवाच ।
    भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
    पठते शृण्वते चैव ब्रह्मभूतप्रदायकम् ॥ १३॥

    इति मौद्गलोक्तं गजाननस्तोत्रं समाप्तम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad