गजाननस्तोत्रम् शङ्करादिकृतम् ।। Astro Classes, Silvassa.

गजाननस्तोत्रम् शङ्करादिकृतम् ।। Astro Classes, Silvassa.

श्री गणेशाय नमः ।  देवा ऊचुः ।।
गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते ।
विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ १॥

अमेयाय च हेरम्ब परशुधारकाय ते ।
मूषकवाहनायैव विश्वेशाय नमो नमः ॥ २॥

अनन्तविभवायैव परेशां पररूपिणे ।
शिवपुत्राय देवाय गुहाग्रजाय ते नमः ॥ ३॥

पार्वतीनन्दनायैव देवानां पालकाय ते ।
सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ ४॥

स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत ।
विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ ५॥

योगाकाराय सर्वेषां योगशान्तिप्रदाय च ।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते ॥ ६॥

सिद्धि-बुद्धिपते नाथ! सिद्धि-बुद्धिप्रदायिने ।
मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ ७॥

लम्बोदराय वै तुभ्यं सर्वोदरगताय च ।
अमायिने च मायाया आधाराय नमो नमः ॥ ८॥

गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप!।
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ ९॥

तेन त्वं गजवक्‍त्रश्च किं स्तुमस्तवां गजानन ।
वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवपाः ॥ १०॥

शुक्रादयश्च शेषाद्याः स्तोतुं शक्‍ता भवन्ति नः ।
तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ ११॥

एवमुक्‍त्वा प्रणेमुस्तं गजाननं शिवादयः ।
स तानुवाच प्रीतात्मा भक्‍तिभावेन तोषितः ॥ १२॥

गजानन उवाच ।
भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते शृण्वते चैव ब्रह्मभूतप्रदायकम् ॥ १३॥

इति मौद्गलोक्तं गजाननस्तोत्रं समाप्तम् ॥

Post a Comment

0 Comments