गजाननस्तोत्रम् ।। Astro Classes, Silvassa.

गजाननस्तोत्रम् ।। Astro Classes, Silvassa.

श्रीगणेशाय नमः ।  देवर्षय ऊचुः ।।

नमस्ते गजवक्‍त्राय गजाननसुरूपिणे ।
पराशरसुतायैव वत्सलासूनवे नमः ॥ १॥

व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः ।
अनादिगणनाथाय स्वानन्दावासिने नमः ॥ २॥

रजसा सृष्टिकर्ते ते सत्त्वतः पालकाय वै ।
तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३॥

सुकृतेः पुरुषस्यापि रूपिणे परमात्मने ।
बोधाकाराय वै तुभ्यं केवलाय नमो नमः ।४॥

स्वसंवेद्याय देवाय योगाय गणपाय च ।
शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ५॥

विनायकाय वीराय गजदैत्यस्य शत्रवे ।
मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ६॥

देवरक्षकरायैव विघ्नेशाय नमो नमः ।
वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ७॥

त्वयाऽयं निहतो दैत्यो गजनामा महाबलः ।
ब्रह्माण्डे मृत्यु संहीनो महाश्चर्यं कृतं विभो!॥ ८॥

हते दैत्येऽधुना कृत्स्नं जगत्सन्तोषमेष्यति ।
स्वाहा-स्वधा युतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ९॥

एवमुक्‍त्वा गणाधीश सर्वे देवर्षयस्ततः ।
प्रणम्य तूष्णीभावं ते सम्प्राप्ता विगतज्वराः ॥ १०॥

कर्णौ सम्पीड्य गणप-चरणे शिरसो ध्वनिः ।
मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ ११॥

तानुवाच मदीया ये भक्‍ताः परमभाविताः ।
तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ १२॥

तेभ्योऽहं प्ररमप्रीतो दास्यामि मनसीप्सिताम् ।
एतादृशं प्रियं मे च मननं नाऽत्र संशयः ॥ १३॥

एवमुक्‍त्वा स तान् सर्वान् सिद्धि-बुद्ध्यादि-संयुतः ।
अन्तर्दधे ततो देवा मनुयः स्वस्थलं ययुः ॥ १४॥

॥ इति श्रीमदान्त्ये मौद्गले द्वितीयखण्डे गजासुरवधे गजाननस्तोत्रं सम्पूर्णम् ॥

Post a Comment

0 Comments