ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ५६.
न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि।
न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः॥ ३.०५६.०१
षड्भाराँ एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव
आगुः।
तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते
दर्श्येका॥ ३.०५६.०२
त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध
प्रजावान्।
त्र्यनीकः पत्यते माहिनावान्स रेतोधा वृषभः
शश्वतीनाम्॥ ३.०५६.०३
अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम।
आपश्चिदस्मा अरमन्त देवीः पृथग्व्रजन्तीः परि
षीमवृञ्जन्॥ ३.०५६.०४
त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता
विदथेषु सम्राट्।
ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे
पत्यमानाः॥ ३.०५६.०५
त्रिरा दिवः सवितर्वार्याणि दिवेदिव आ सुव
त्रिर्नो अह्नः।
त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे
सातये धाः॥ ३.०५६.०६
त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा
सुपाणी।
आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त
सवितुः सवाय॥ ३.०५६.०७
त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य
वीराः।
ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु
देवाः॥ ३.०५६.०८
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ५७.
प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं
प्रयुतामगोपाम्।
सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः
पनितारो अस्याः॥ ३.०५७.०१
इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः
शशयं दुदुह्रे।
विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः
सुम्नमश्याम्॥ ३.०५७.०२
या जामयो वृष्ण इच्छन्ति शक्तिं
नमस्यन्तीर्जानते गर्भमस्मिन्।
अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं
वपूंषि॥ ३.०५७.०३
अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो
अध्वरे मनीषा।
इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता
यजत्राः॥ ३.०५७.०४
या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत
उरूची।
तयेह विश्वाँ अवसे यजत्राना सादय पायया चा
मधूनि॥ ३.०५७.०५
या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव
चित्रा।
तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं
विश्वजन्याम्॥ ३.०५७.०६
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ५८.
धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति
दक्षिणायाः।
आ द्योतनिं वहति शुभ्रयामोषसः स्तोमो
अश्विनावजीगः॥ ३.०५८.०१
सुयुग्वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव
मेधाः।
जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा
यातमर्वाक्॥ ३.०५८.०२
सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं
श्लोकमद्रेः।
किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो
अश्विना पुराजाः॥ ३.०५८.०३
आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो
अश्विना हवन्ते।
इमा हि वां गोऋजीका मधूनि प्र मित्रासो न
ददुरुस्रो अग्रे॥ ३.०५८.०४
तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना
जनेषु।
एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो
मधूनाम्॥ ३.०५८.०५
पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं
जह्नाव्याम्।
पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू
समानाः॥ ३.०५८.०६
अश्विना वायुना युवं सुदक्षा नियुद्भिष्च सजोषसा
युवाना।
नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा
सुदानू॥ ३.०५८.०७
अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना
अमृध्राः।
रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति
सद्यः॥ ३.०५८.०८
अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं
दुरोणे।
रथो ह वां भूरि वर्पः करिक्रत्सुतावतो
निष्कृतमागमिष्ठः॥ ३.०५८.०९
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ५९.
मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार
पृथिवीमुत द्याम्।
मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं
घृतवज्जुहोत॥ ३.०५९.०१
प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य
शिक्षति व्रतेन।
न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो
न दूरात्॥ ३.०५९.०२
अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना
पृथिव्याः।
आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ
स्याम॥ ३.०५९.०३
अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो
अजनिष्ट वेधाः।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे
स्याम॥ ३.०५९.०४
महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते
सुशेवः।
तस्मा एतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत॥
३.०५९.०५
मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि।
द्युम्नं चित्रश्रवस्तमम्॥ ३.०५९.०६
अभि यो महिना दिवं मित्रो बभूव सप्रथाः।
अभि श्रवोभिः पृथिवीम्॥ ३.०५९.०७
मित्राय पञ्च येमिरे जना अभिष्टिशवसे।
स देवान्विश्वान्बिभर्ति॥ ३.०५९.०८
मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे।
इष इष्टव्रता अकः॥ ३.०५९.०९
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ६०.
इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि
वेदसा।
याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं
भागमानश॥ ३.०६०.०१
याभिः शचीभिश्चमसाँ अपिंशत यया धिया गामरिणीत चर्मणः।
येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश॥ ३.०६०.०२
इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो
दधन्विरे।
सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः
सुकृतः सुकृत्यया॥ ३.०६०.०३
इन्द्रेण याथ सरथं सुते सचाँ अथो वशानां भवथा सह
श्रिया।
न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो
वीर्याणि च॥ ३.०६०.०४
इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा
वृषस्वा गभस्त्योः।
धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह
मत्स्वा नृभिः॥ ३.०६०.०५
इन्द्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्सवने
शच्या पुरुष्टुत।
इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां
मनुषश्च धर्मभिः॥ ३.०६०.०६
इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं
जरितुरुप याहि यज्ञियम्।
शतं केतेभिरिषिरेभिरायवे सहस्रणीथो अध्वरस्य
होमनि॥ ३.०६०.०७

0 Comments