ऋग्वेदः - मण्डल - ३. सूक्त – ५१, ५२, ५३, ५४ एवं ५५. Astro Classes, Silvassa.
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ५१.
चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत।
वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे॥ ३.०५१.०१
शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप
यन्ति विश्वतः।
वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं
स्वर्विदम्॥ ३.०५१.०२
आकरे वसोर्जरिता पनस्यतेऽनेहसः स्तुभ इन्द्रो
दुवस्यति।
विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं
स्तुहि॥ ३.०५१.०३
नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता
सबाधः।
सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक
ईशे॥ ३.०५१.०४
पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि
पृथिवी बिभर्ति।
इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो
वनानि॥ ३.०५१.०५
तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे
हरिवो जुषस्व।
बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो
धाः॥ ३.०५१.०६
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः
सुतस्य।
तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः
सुयज्ञाः॥ ३.०५१.०७
स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः
सुतं नः।
जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत
विश्वे॥ ३.०५१.०८
अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु
दातिवाराः।
तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः
स्वे सधस्थे॥ ३.०५१.०९
इदं ह्यन्वोजसा सुतं राधानां पते।
पिबा त्वस्य गिर्वणः॥ ३.०५१.१०
यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम्।
स त्वा ममत्तु सोम्यम्॥ ३.०५१.११
प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा
शिरः।
प्र बाहू शूर राधसे॥ ३.०५१.१२
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ५२.
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम्।
इन्द्र प्रातर्जुषस्व नः॥ ३.०५२.०१
पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च।
तुभ्यं हव्यानि सिस्रते॥ ३.०५२.०२
पुरोळाशं च नो घसो जोषयासे गिरश्च नः।
वधूयुरिव योषणाम्॥ ३.०५२.०३
पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः।
इन्द्र क्रतुर्हि ते बृहन्॥ ३.०५२.०४
माध्यंदिनस्य सवनस्य धानाः पुरोळाशमिन्द्र
कृष्वेह चारुम्।
प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप
गीर्भिरीट्टे॥ ३.०५२.०५
तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं
मामहस्व नः।
ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप
शिक्षेम धीतिभिः॥ ३.०५२.०६
पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय
धानाः।
अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर
विद्वान्॥ ३.०५२.०७
प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय
नृणाम्।
दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा
सोमपेयाय धृष्णो॥ ३.०५२.०८
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ५३.
इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः।
वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया
मदन्ता॥ ३.०५३.०१
तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा
सुषुतस्य यक्षि।
पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया
गिरा शचीवः॥ ३.०५३.०२
शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः
कृणवाव जुष्टम्।
एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय
शस्तम्॥ ३.०५३.०३
जायेदस्तं मघवन्सेदु योनिस्तदित्त्वा युक्ता
हरयो वहन्तु।
यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो
धन्वात्यच्छ॥ ३.०५३.०४
परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते
अर्थम्।
यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो
रासभस्य॥ ३.०५३.०५
अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया
सुरणं गृहे ते।
यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो
दक्षिणावत्॥ ३.०५३.०६
इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य
वीराः।
विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त
आयुः॥ ३.०५३.०७
रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि
स्वाम्।
त्रिर्यद्दिवः परि
मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा॥ ३.०५३.०८
महाँ ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिन्धुमर्णवं
नृचक्षाः।
विश्वामित्रो यदवहत्सुदासमप्रियायत
कुशिकेभिरिन्द्रः॥ ३.०५३.०९
हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो
गीर्भिरध्वरे सुते सचा।
देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं
कुशिकाः सोम्यं मधु॥ ३.०५३.१०
उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता
सुदासः।
राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ
पृथिव्याः॥ ३.०५३.११
य इमे रोदसी उभे अहमिन्द्रमतुष्टवम्।
विश्वामित्रस्य रक्षति ब्रह्मेदं भारतं जनम्॥ ३.०५३.१२
विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे।
करदिन्नः सुराधसः॥ ३.०५३.१३
किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न
तपन्ति घर्मम्।
आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया
नः॥ ३.०५३.१४
ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता।
आ सूर्यस्य दुहिता ततान श्रवो
देवेष्वमृतमजुर्यम्॥ ३.०५३.१५
ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु
कृष्टिषु।
सा पक्ष्या नव्यमायुर्दधाना यां मे
पलस्तिजमदग्नयो ददुः॥ ३.०५३.१६
स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा
युगं वि शारि।
इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः
सचस्व॥ ३.०५३.१७
बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः।
बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि॥ ३.०५३.१८
अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पन्दने
शिंशपायाम्।
अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो
नः॥ ३.०५३.१९
अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत्।
स्वस्त्या गृहेभ्य आवसा आ विमोचनात्॥ ३.०५३.२०
इन्द्रोतिभिर्बहुलाभिर्नो अद्य
याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व।
यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु
प्राणो जहातु॥ ३.०५३.२१
परशुं चिद्वि तपति शिम्बलं चिद्वि वृश्चति।
उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति॥ ३.०५३.२२
न सायकस्य चिकिते जनासो लोधं नयन्ति पशु
मन्यमानाः।
नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो
अश्वान्नयन्ति॥ ३.०५३.२३
इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न
प्रपित्वम्।
हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि
णयन्त्याजौ॥ ३.०५३.२४
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ५४.
इमं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र
जभ्रुः।
शृणोतु नो दम्येभिरनीकैः
शृणोत्वग्निर्दिव्यैरजस्रः॥ ३.०५४.०१
महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति
प्रजानन्।
ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते
सचायोः॥ ३.०५४.०२
युवोरृतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र
भूतम्।
इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा
यामि रत्नम्॥ ३.०५४.०३
उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी
सत्यवाचः।
नरश्चिद्वां समिथे शूरसातौ ववन्दिरे पृथिवि
वेविदानाः॥ ३.०५४.०४
को अद्धा वेद क इह प्र वोचद्देवाँ अच्छा पथ्या
का समेति।
ददृश्र एषामवमा सदांसि परेषु या गुह्येषु
व्रतेषु॥ ३.०५४.०५
कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते
मदन्ती।
नाना चक्राते सदनं यथा वेः समानेन क्रतुना
संविदाने॥ ३.०५४.०६
समान्या वियुते दूरेअन्ते ध्रुवे पदे
तस्थतुर्जागरूके।
उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि
नाम॥ ३.०५४.०७
विश्वेदेते जनिमा सं विविक्तो महो देवान्बिभ्रती
न व्यथेते।
एजद्ध्रुवं पत्यते विश्वमेकं चरत्पतत्रि विषुणं
वि जातम्॥ ३.०५४.०८
सना पुराणमध्येम्यारान्महः पितुर्जनितुर्जामि
तन्नः।
देवासो यत्र पनितार एवैरुरौ पथि व्युते
तस्थुरन्तः॥ ३.०५४.०९
इमं स्तोमं रोदसी प्र ब्रवीम्यृदूदराः
शृणवन्नग्निजिह्वाः।
मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः
पप्रथानाः॥ ३.०५४.१०
हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे
पत्यमानः।
देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुव
सर्वतातिम्॥ ३.०५४.११
सुकृत्सुपाणिः स्ववाँ ऋतावा देवस्त्वष्टावसे
तानि नो धात्।
पूषण्वन्त ऋभवो मादयध्वमूर्ध्वग्रावाणो
अध्वरमतष्ट॥ ३.०५४.१२
विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता
अयासः।
सरस्वती शृणवन्यज्ञियासो धाता रयिं सहवीरं
तुरासः॥ ३.०५४.१३
विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो
यामनि ग्मन्।
उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो
जनित्रीः॥ ३.०५४.१४
इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ
रोदसी महित्वा।
पुरंदरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा
भूरि पश्वः॥ ३.०५४.१५
नासत्या मे पितरा बन्धुपृच्छा
सजात्यमश्विनोश्चारु नाम।
युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे
अकवैरदब्धा॥ ३.०५४.१६
महत्तद्वः कवयश्चारु नाम यद्ध देवा भवथ विश्व इन्द्रे।
सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये
तक्षता नः॥ ३.०५४.१७
अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य
व्रतानि।
युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमाँ
अस्तु गातुः॥ ३.०५४.१८
देवानां दूतः पुरुध प्रसूतोऽनागान्नो वोचतु
सर्वताता।
शृणोतु नः पृथिवी द्यौरुतापः सूर्यो
नक्षत्रैरुर्वन्तरिक्षम्॥ ३.०५४.१९
शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया
मदन्तः।
आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः
शर्म भद्रम्॥ ३.०५४.२०
सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः
सं पिपृक्त।
भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्यां
सदनं पुरुक्षोः॥ ३.०५४.२१
स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक्सं मिमीहि
श्रवांसि।
विश्वाँ अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा
सुमना दीदिही नः॥ ३.०५४.२२
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ५५.
उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं
पदे गोः।
व्रता देवानामुप नु
प्रभूषन्महद्देवानामसुरत्वमेकम्॥ ३.०५५.०१
मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने
पितरः पदज्ञाः।
पुराण्योः सद्मनोः
केतुरन्तर्महद्देवानामसुरत्वमेकम्॥ ३.०५५.०२
वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये
पूर्व्याणि।
समिद्धे अग्नावृतमिद्वदेम
महद्देवानामसुरत्वमेकम्॥ ३.०५५.०३
समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो
वनानु।
अन्या वत्सं भरति क्षेति माता
महद्देवानामसुरत्वमेकम्॥ ३.०५५.०४
आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु
तरुणीष्वन्तः।
अन्तर्वतीः सुवते अप्रवीता
महद्देवानामसुरत्वमेकम्॥ ३.०५५.०५
शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः।
मित्रस्य ता वरुणस्य व्रतानि
महद्देवानामसुरत्वमेकम्॥ ३.०५५.०६
द्विमाता होता विदथेषु सम्राळन्वग्रं चरति
क्षेति बुध्नः।
प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम्॥
३.०५५.०७
शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे
विश्वमायत्।
अन्तर्मतिश्चरति निष्षिधं
गोर्महद्देवानामसुरत्वमेकम्॥ ३.०५५.०८
नि वेवेति पलितो दूत आस्वन्तर्महाँश्चरति
रोचनेन।
वपूंषि बिभ्रदभि नो वि चष्टे
महद्देवानामसुरत्वमेकम्॥ ३.०५५.०९
विष्णुर्गोपाः परमं पाति पाथः प्रिया
धामान्यमृता दधानः।
अग्निष्टा विश्वा भुवनानि वेद
महद्देवानामसुरत्वमेकम्॥ ३.०५५.१०
नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते
कृष्णमन्यत्।
श्यावी च यदरुषी च स्वसारौ
महद्देवानामसुरत्वमेकम्॥ ३.०५५.११
माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते
समीची।
ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम्॥
३.०५५.१२
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे
धेनुरूधः।
ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम्॥
३.०५५.१३
पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ
त्र्यविं रेरिहाणा।
ऋतस्य सद्म वि चरामि
विद्वान्महद्देवानामसुरत्वमेकम्॥ ३.०५५.१४
पदे इव निहिते दस्मे
अन्तस्तयोरन्यद्गुह्यमाविरन्यत्।
सध्रीचीना पथ्या सा विषूची
महद्देवानामसुरत्वमेकम्॥ ३.०५५.१५
आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया
अप्रदुग्धाः।
नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम्॥
३.०५५.१६
यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि
दधाति रेतः।
स हि क्षपावान्स भगः स राजा
महद्देवानामसुरत्वमेकम्॥ ३.०५५.१७
वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम
विदुरस्य देवाः।
षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम्॥
३.०५५.१८
देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः
पुरुधा जजान।
इमा च विश्वा भुवनान्यस्य
महद्देवानामसुरत्वमेकम्॥ ३.०५५.१९
मही समैरच्चम्वा समीची उभे ते अस्य वसुना
न्यृष्टे।
शृण्वे वीरो विन्दमानो वसूनि
महद्देवानामसुरत्वमेकम्॥ ३.०५५.२०
इमां च नः पृथिवीं विश्वधाया उप क्षेति
हितमित्रो न राजा।
पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम्॥
३.०५५.२१
निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी
बिभर्ति।
सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम्॥
३.०५५.२२
No comments