Header Ads

  • Breaking News

    अथ श्रीगणाधिपति पञ्चरत्नस्तोत्रम् ।। Astro Classes, Silvassa.

    अथ श्रीगणाधिपति पञ्चरत्नस्तोत्रम् ।। Astro Classes, Silvassa.

    ॐ सरागिलोकदुर्लभं विरागिलोकपूजितं
    सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
    गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चकाः
    नमामि तं गणाधिपं कृपापयः पयोनिधिम् ॥ १॥

    गिरीन्द्रजामुखाम्बुज प्रमोददान भास्करं
    करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् ।
    सरीसृपेश बद्धकुक्षिमाश्रयामि सन्ततं
    शरीरकान्ति निर्जिताब्जबन्धुबालसन्ततिम् ॥ २॥

    शुकादिमौनिवन्दितं गकारवाच्यमक्षरं
    प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये ।
    चकासतं चतुर्भुजैः विकासिपद्मपूजितं
    प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ ३॥

    नराधिपत्वदायकं स्वरादिलोकनायकं
    ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
    कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैः
    हृदासदाविभावितं मुदा नमामि विघ्नपम् ॥ ४॥

    श्रमापनोदनक्षमं समाहितान्तरात्मनां
    सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम् ।
    रमाधवादिपूजितं यमान्तकात्मसम्भवं
    शमादिषड्गुणप्रदं नमामि तं विभूतये ॥ ५॥

    गणाधिपस्य पञ्चकं नृणामभीष्टदायकं
    प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
    भवन्ति ते विदां पुरः प्रगीतवैभवाजवात्
    चिरायुषोऽधिकः श्रियस्सुसूनवो न संशयः ॥ ॐ ॥

    ॥ इति दक्षिणाम्नाय श्रिङ्गेरी श्रीशारदापीठाधिपति शङ्कराचार्य जगद्गुरुवर्यो श्री सच्चिदानन्द शिवाभिनव नृसिंहभारती महास्वामिभिः विरचितम् श्री गणाधिपति पञ्चरत्न स्तोत्रम् सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad