Header Ads

  • Breaking News

    अथ योगशान्तिप्रदं गणाधीशस्तोत्रम् ।। Astro Classes, Silvassa.

    अथ योगशान्तिप्रदं गणाधीशस्तोत्रम् ।। Astro Classes, Silvassa.

    श्रीगणेशाय नमः ।  कर्दम उवाच ।।

    केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते ।
    तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥ १॥

    कपिल उवाच ।
    गणेशभजनं मुख्यं शान्तियोगप्रदं मतम् ।
    योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥ २॥

    सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने ।
    य आदिः प्रलयान्ते स तिष्ठति शास्त्रसंमतम् ॥ ३॥

    ज्येष्ठराजं गणेशानं वेदेषु प्रवदन्ति तम् ।
    गणाः समूहरूपाश्च तेषां स्वामी प्रकथ्यते ॥ ४॥

    नानाजगत्स्वरूपं वैदेहरूपं कृतं मुने ।
    नानाब्रह्ममयं तेन शिरः कृतं महात्मना ॥ ५॥

    यस्माज्जातमिदं यत्र ह्यन्ते गच्छति महामते ।
    तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥ ६॥

    त्रिविधं भेदयुक्तं यदखण्डं वै तुरीयकम् ।
    तयोर्योगे गणेशोऽयं देहमस्तकयोर्गतः ॥ ७॥

    चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा ।
    मोहरूपा महासिद्धिर्बुद्धिश्च मोहधारका ॥ ८॥

    तयोः स्वामी गणाधीशश्चित्ते नित्यं प्रतिष्ठितः ।
    चिन्तामणिर्महाभागो लभ्यते योगसेवया ॥ ९॥

    पञ्चधा चित्तमुत्सृज्य तदैश्चर्यं तथैव च ।
    योगः शान्तिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥ १०॥

    तस्मात्तं भज मन्त्रेणैकाक्षरेण महामुने ।
    तेन तुष्टो गणेशानो योगं दास्यति शान्तिदम् ॥ ११॥

    ।। इति मुद्गलपुराणान्तर्गतं श्रीगणाधीशस्तोत्रं समाप्तम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad