ऋग्वेदः - मण्डल - ३. सूक्त – ४१, ४२, ४३, ४४ एवं ४५. Astro Classes, Silvassa.
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ४१.
आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये।
हरिभ्यां याह्यद्रिवः॥ ३.०४१.०१
सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक्।
अयुज्रन्प्रातरद्रयः॥ ३.०४१.०२
इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद।
वीहि शूर पुरोळाशम्॥ ३.०४१.०३
रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन्।
उक्थेष्विन्द्र गिर्वणः॥ ३.०४१.०४
मतयः सोमपामुरुं रिहन्ति शवसस्पतिम्।
इन्द्रं वत्सं न मातरः॥ ३.०४१.०५
स मन्दस्वा ह्यन्धसो राधसे तन्वा महे।
न स्तोतारं निदे करः॥ ३.०४१.०६
वयमिन्द्र त्वायवो हविष्मन्तो जरामहे।
उत त्वमस्मयुर्वसो॥ ३.०४१.०७
मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि।
इन्द्र स्वधावो मत्स्वेह॥ ३.०४१.०८
अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना।
घृतस्नू बर्हिरासदे॥ ३.०४१.०९
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ४२.
उप नः सुतमा गहि सोममिन्द्र गवाशिरम्।
हरिभ्यां यस्ते अस्मयुः॥ ३.०४२.०१
तमिन्द्र मदमा गहि बर्हिःष्ठां ग्रावभिः सुतम्।
कुविन्न्वस्य तृप्णवः॥ ३.०४२.०२
इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः।
आवृते सोमपीतये॥ ३.०४२.०३
इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे।
उक्थेभिः कुविदागमत्॥ ३.०४२.०४
इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो।
जठरे वाजिनीवसो॥ ३.०४२.०५
विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे।
अधा ते सुम्नमीमहे॥ ३.०४२.०६
इममिन्द्र गवाशिरं यवाशिरं च नः पिब।
आगत्या वृषभिः सुतम्॥ ३.०४२.०७
तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये।
एष रारन्तु ते हृदि॥ ३.०४२.०८
त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे।
कुशिकासो अवस्यवः॥ ३.०४२.०९
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ४३.
आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः
सोमपेयम्।
प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो
हवन्ते॥ ३.०४३.०१
आ याहि पूर्वीरति चर्षणीराँ अर्य आशिष उप नो
हरिभ्याम्।
इमा हि त्वा मतयः स्तोमतष्टा इन्द्र हवन्ते
सख्यं जुषाणाः॥ ३.०४३.०२
आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव
हरिभिर्याहि तूयम्।
अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे
मधूनाम्॥ ३.०४३.०३
आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा
स्वङ्गा।
धानावदिन्द्रः सवनं जुषाणः सखा सख्युः
शृणवद्वन्दनानि॥ ३.०४३.०४
कुविन्मा गोपां करसे जनस्य कुविद्राजानं
मघवन्नृजीषिन्।
कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो
अमृतस्य शिक्षाः॥ ३.०४३.०५
आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो
वहन्तु।
प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो
वृषभस्य मूराः॥ ३.०४३.०६
इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते
जभार।
यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप
गोत्रा ववर्थ॥ ३.०४३.०७
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं
वाजसातौ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि
संजितं धनानाम्॥ ३.०४३.०८
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ४४.
अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः।
जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं
रथम्॥ ३.०४४.०१
हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः।
विद्वाँश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा
अभि श्रियः॥ ३.०४४.०२
द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम्।
अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत्॥ ३.०४४.०३
जज्ञानो हरितो वृषा विश्वमा भाति रोचनम्।
हर्यश्वो हरितं धत्त आयुधमा वज्रं
बाह्वोर्हरिम्॥ ३.०४४.०४
इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम्।
अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत॥ ३.०४४.०५
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ४५.
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः।
मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव
ताँ इहि॥ ३.०४५.०१
वृत्रखादो वलंरुजः पुरां दर्मो अपामजः।
स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा
चिदारुजः॥ ३.०४५.०२
गम्भीराँ उदधीँरिव क्रतुं पुष्यसि गा इव।
प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत॥
३.०४५.०३
आ नस्तुजं रयिं भरांशं न प्रतिजानते।
वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं
वसु॥ ३.०४५.०४
स्वयुरिन्द्र स्वराळसि स्मद्दिष्टिः स्वयशस्तरः।
स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः॥ ३.०४५.०५

No comments