ऋग्वेदः - मण्डल - ३. सूक्त – ४६, ४७, ४८, ४९ एवं ५०. Astro Classes, Silvassa.
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ४६.
युध्मस्य ते वृषभस्य स्वराज उग्रस्य यूनः स्थविरस्य घृष्वेः।
अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि॥ ३.०४६.०१
महाँ असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो
अन्यान्।
एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च
जनान्॥ ३.०४६.०२
प्र मात्राभी रिरिचे रोचमानः प्र
देवेभिर्विश्वतो अप्रतीतः।
प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो
अन्तरिक्षादृजीषी॥ ३.०४६.०३
उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं
मतीनाम्।
इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत
आ विशन्ति॥ ३.०४६.०४
यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता
बिभृतस्त्वाया।
तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ
पातवा उ॥ ३.०४६.०५
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ४७.
मरुत्वाँ इन्द्र वृषभो रणाय पिबा सोममनुष्वधं
मदाय।
आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि
प्रदिवः सुतानाम्॥ ३.०४७.०१
सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा
शूर विद्वान्।
जहि शत्रूँरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो
नः॥ ३.०४७.०२
उत ऋतुभिरृतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः
सुतं नः।
याँ आभजो मरुतो ये
त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः॥ ३.०४७.०३
ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये
गविष्टौ।
ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं
सगणो मरुद्भिः॥ ३.०४७.०४
मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं
शासमिन्द्रम्।
विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम॥ ३.०४७.०५
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ४८.
सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः
सुतस्य।
साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं
सोम्यस्य॥ ३.०४८.०१
यज्जायथास्तदहरस्य कामेंऽशोः पीयूषमपिबो
गिरिष्ठाम्।
तं ते माता परि योषा जनित्री महः पितुर्दम
आसिञ्चदग्रे॥ ३.०४८.०२
उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः।
प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे
पुरुधप्रतीकः॥ ३.०४८.०३
उग्रस्तुराषाळभिभूत्योजा यथावशं तन्वं चक्र एषः।
त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या
सोममपिबच्चमूषु॥ ३.०४८.०४
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं
वाजसातौ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि
संजितं धनानाम्॥ ३.०४८.०५
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ४९.
शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः
सोमपाः काममव्यन्।
यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां
जनयन्त देवाः॥ ३.०४९.०१
यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं
हरिष्ठाम्।
इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया
अमिनादायुर्दस्योः॥ ३.०४९.०२
सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी
मेहनावान्।
भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो
वयोधाः॥ ३.०४९.०३
धर्ता दिवो रजसस्पृष्ट ऊर्ध्वो रथो न
वायुर्वसुभिर्नियुत्वान्।
क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं
धिषणेव वाजम्॥ ३.०४९.०४
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं
वाजसातौ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि
संजितं धनानाम्॥ ३.०४९.०५
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - ३. सूक्त – ५०.
इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो
वृषभो मरुत्वान्।
ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वः
काममृध्याः॥ ३.०५०.०१
आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः
श्रुष्टिमावः।
इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य
सुषुतस्य चारोः॥ ३.०५०.०२
गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं
ज्यैष्ठ्याय धायसे गृणानाः।
मन्दानः सोमं पपिवाँ ऋजीषिन्समस्मभ्यं पुरुधा गा
इषण्य॥ ३.०५०.०३
इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा
पप्रथश्च।
स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः
कुशिकासो अक्रन्॥ ३.०५०.०४
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं
वाजसातौ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि
संजितं धनानाम्॥ ३.०५०.०५

No comments