Header Ads

  • Breaking News

    सर्वेष्टप्रदं गजाननस्तोत्रम् ।। Astro Classes, Silvassa.

    सर्वेष्टप्रदं गजाननस्तोत्रम् ।। Astro Classes, Silvassa.

    श्रीगणेशाय नमः ।  कपिल उवाच ।।

    नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
    अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १॥

    आकाशाय च भूतानां मनसे चामरेषु ते ।
    बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ २॥

    देहानां बिन्दुरूपाय मोहरूपाय देहिनाम् ।
    तयोरभेदभावेषु बोधाय ते नमो नमः ॥ ३॥

    साङ्ख्याय वै विदेहानां संयोगानां निजात्मने ।
    चतुर्णां पञ्च मायैव सर्वत्र ते नमो नमः ॥ ४॥

    नामरूपात्मकानां वै शक्तिरूपाय ते नमः ।
    आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ५॥

    आनन्दानां महाविष्णुरूपाय नेति धारिणाम् ।
    शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ ६॥

    कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम्।
    समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ७॥

    स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः ।
    तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ८॥

    निर्मायिकस्वरूपाणामयोगाय नमो नमः ।
    योगानां योगरूपाय गणेशाय नमो नमः ॥ ९॥

    शान्तियोगप्रदात्रे ते शान्तियोगमयाय च ।
    किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ १०॥

    ततस्तं गणनाथो वै जगाद भक्तमुत्तमम् ।
    हर्षेण महता युक्तो हर्षयन्मुनिसत्तम ॥ ११॥

    श्रीगणेश उवाच ।
    त्वया कृतं मदीयं यत्स्तोत्रं योगप्रदं भवेत् ।
    धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १२॥

    वरं वरय मत्तस्त्वं दास्यामि भक्तियन्‍त्रितः ।
    त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ १३॥

    तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह ।
    त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ १४॥

    त्वदीयभूषणं दैत्यो हृत्वा सद्यो जगाम ह ।
    ततश्चिन्तामणिं नाथ तं जित्वा मणिमानय ॥ १५॥

    यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय ।
    एतदेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ १६॥

    गृत्समद उवाच ।
    तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः ।
    उवाच तं महाभक्तं प्रेमयुक्तं विशेषतः ॥ १७॥

    त्वया यत्प्रार्थितं विष्णो तत्सर्वं प्रभविष्यति ।
    तव पुत्रो भविष्यामि गणासुरवधाय च ॥ १८॥

    ।। इति श्रीमुद्गलपुराणे गजाननस्तोत्रं समाप्तम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad