ऋग्वेद - प्रथम मण्डल - सूक्त - १९१. Astro Classes, Silvassa.


ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १९१.

कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः।

द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत॥ १.१९१.०१

अदृष्टान्हन्त्यायत्यथो हन्ति परायती।

अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती॥ १.१९१.०२

शरासः कुशरासो दर्भासः सैर्या उत।

मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत॥ १.१९१.०३

नि गावो गोष्ठे असदन्नि मृगासो अविक्षत।

नि केतवो जनानां न्यदृष्टा अलिप्सत॥ १.१९१.०४

एत उ त्ये प्रत्यदृश्रन्प्रदोषं तस्करा इव।

अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन॥ १.१९१.०५

द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा।

अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम्॥ १.१९१.०६

ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः।

अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत॥ १.१९१.०७

उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा।

अदृष्टान्सर्वाञ्जम्भयन्सर्वाश्च यातुधान्यः॥ १.१९१.०८

उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन्।

आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा॥ १.१९१.०९

सूर्ये विषमा सजामि दृतिं सुरावतो गृहे।

सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार॥ १.१९१.१०

इयत्तिका शकुन्तिका सका जघास ते विषम्।

सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार॥ १.१९१.११

त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन्।

ताश्चिन्नु न मरन्ति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार॥ १.१९१.१२

नवानां नवतीनां विषस्य रोपुषीणाम्।

सर्वासामग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार॥ १.१९१.१३

त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः।

तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव॥ १.१९१.१४

इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना।

ततो विषं प्र वावृते पराचीरनु संवतः॥ १.१९१.१५

कुषुम्भकस्तदब्रवीद्गिरेः प्रवर्तमानकः।

वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम्॥ १.१९१.१६

Post a Comment

0 Comments