Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - १८९ and १९०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १८९.

    अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्।

    युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम‍उक्तिं विधेम॥ १.१८९.०१

    अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा।

    पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः॥ १.१८९.०२

    अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः।

    पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र॥ १.१८९.०३

    पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान्।

    मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः॥ १.१८९.०४

    मा नो अग्नेऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै।

    मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः॥ १.१८९.०५

    वि घ त्वावाँ ऋतजात यंसद्गृणानो अग्ने तन्वे वरूथम्।

    विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट्॥ १.१८९.०६

    त्वं ताँ अग्न उभयान्वि विद्वान्वेषि प्रपित्वे मनुषो यजत्र।

    अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः॥ १.१८९.०७

    अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ।

    वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम्॥ १.१८९.०८


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १९०.

    अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः।

    गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः॥ १.१९०.०१

    तमृत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि।

    बृहस्पतिः स ह्यञ्जो वरांसि विभ्वाभवत्समृते मातरिश्वा॥ १.१९०.०२

    उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू।

    अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान्॥ १.१९०.०३

    अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः।

    मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायाँ अभि द्यून्॥ १.१९०.०४

    ये त्वा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः।

    न दूढ्ये अनु ददासि वामं बृहस्पते चयस इत्पियारुम्॥ १.१९०.०५

    सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः।

    अनर्वाणो अभि ये चक्षते नोऽपीवृता अपोर्णुवन्तो अस्थुः॥ १.१९०.०६

    सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः।

    स विद्वाँ उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः॥ १.१९०.०७

    एवा महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो धायि देवः।

    स नः स्तुतो वीरवद्धातु गोमद्विद्यामेषं वृजनं जीरदानुम्॥ १.१९०.०८

    No comments

    Post Top Ad

    Post Bottom Ad