ऋग्वेद - प्रथम मण्डल - सूक्त - १८७ and १८८. Astro Classes, Silvassa.
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १८७.
पितुं नु स्तोषं महो धर्माणं तविषीम्।
यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत्॥ १.१८७.०१
स्वादो पितो मधो पितो वयं त्वा ववृमहे।
अस्माकमविता भव॥ १.१८७.०२
उप नः पितवा चर शिवः शिवाभिरूतिभिः।
मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः॥ १.१८७.०३
तव त्ये पितो रसा रजांस्यनु विष्ठिताः।
दिवि वाता इव श्रिताः॥ १.१८७.०४
तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो।
प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते॥ १.१८७.०५
त्वे पितो महानां देवानां मनो हितम्।
अकारि चारु केतुना तवाहिमवसावधीत्॥ १.१८७.०६
यददो पितो अजगन्विवस्व पर्वतानाम्।
अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः॥ १.१८७.०७
यदपामोषधीनां परिंशमारिशामहे।
वातापे पीव इद्भव॥ १.१८७.०८
यत्ते सोम गवाशिरो यवाशिरो भजामहे।
वातापे पीव इद्भव॥ १.१८७.०९
करम्भ ओषधे भव पीवो वृक्क उदारथिः।
वातापे पीव इद्भव॥ १.१८७.१०
तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम।
देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम्॥ १.१८७.११
ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १८८.
समिद्धो अद्य राजसि देवो देवैः सहस्रजित्।
दूतो हव्या कविर्वह॥ १.१८८.०१
तनूनपादृतं यते मध्वा यज्ञः समज्यते।
दधत्सहस्रिणीरिषः॥ १.१८८.०२
आजुह्वानो न ईड्यो देवाँ आ वक्षि यज्ञियान्।
अग्ने सहस्रसा असि॥ १.१८८.०३
प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन्।
यत्रादित्या विराजथ॥ १.१८८.०४
विराट् सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः।
दुरो घृतान्यक्षरन्॥ १.१८८.०५
सुरुक्मे हि सुपेशसाधि श्रिया विराजतः।
उषासावेह सीदताम्॥ १.१८८.०६
प्रथमा हि सुवाचसा होतारा दैव्या कवी।
यज्ञं नो यक्षतामिमम्॥ १.१८८.०७
भारतीळे सरस्वति या वः सर्वा उपब्रुवे।
ता नश्चोदयत श्रिये॥ १.१८८.०८
त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्समानजे।
तेषां नः स्फातिमा यज॥ १.१८८.०९
उप त्मन्या वनस्पते पाथो देवेभ्यः सृज।
अग्निर्हव्यानि सिष्वदत्॥ १.१८८.१०
पुरोगा अग्निर्देवानां गायत्रेण समज्यते।
स्वाहाकृतीषु रोचते॥ १.१८८.११
No comments