Header Ads

  • Breaking News

    अथ सिद्धकुञ्जिकास्तोत्रम् ।। Siddha kunjika Stotram.

    शिव उवाच ।।

    शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।
    येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥

    न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
    न सूक्‍तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥

    कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
    अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥

    गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
    मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
    पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥

    ।। अथ मन्त्रः ।।
    ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
    ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
    ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५॥

    ।। इति मन्त्रः ।।

    नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
    नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥

    नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
    जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥ ७॥

    ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका ।
    क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥

    चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
    विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९॥

    धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
    क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ १०॥

    हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी ।
    भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥

    अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।
    धिजाग्रम् धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२॥

    पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
    सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरूष्व मे ॥ १३॥

    इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।
    अभक्‍ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ १४॥

    यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
    न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५॥

     इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।

    No comments

    Post Top Ad

    Post Bottom Ad