Header Ads

  • Breaking News

    सर्वमङ्गलाष्टकम् ।। Sarva MangalAShtakam.

    सर्वमङ्गलाष्टकम् ।। Sarva MangalAShtakam.


               श्रीगणेशाय नमः ।।

    लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः
    पौत्रश्चन्द्रविभूषणः सुरगुरुः शेपश्च शय्यासनः ।
    ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स
    त्रेलोक्यकुटुम्बपालनपरः कुर्यात् सदा मङ्गलम् ॥  १॥

    ब्रह्मा वायुगिरिशशेषगरुडा देवेन्द्रकामौ गुरुश्चन्द्रार्कौ
    वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ ।
    नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः
    सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ २॥

    विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः
    श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः ।
    माण्डवयो जमदग्निगौतमभरद्वाजादयस्तापसाः
    श्रीमद्विश्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम् ॥ ३॥

    मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान्
    धर्मसुतो नलो दशरथो रामो ययातिर्यदुः ।
    इक्ष्वाकुश्च विभीश्णश्च भरतश्चोत्तानपादध्रुवावित्याद्या भुवि
    भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ४॥

    श्रीमेरुर्हिमवाँश्च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो
    मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः ।
    सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमन्तकावित्याद्या भुवि
    भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ५॥

    गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा
    भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती ।
    कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो नद्यः
    श्रीहरिपादपङ्कजभवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ६॥

    वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता वेदान्ता अपि
    मन्त्र-तन्त्रसहितास्तर्कस्मृतीनां गणाः ।
    काव्यालङ्कृतिनीतिनातकगणाः शब्दाश्च नानाविधाः
    श्रीविष्णोर्गुणराशिकीर्तनकराः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ७॥

    आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि
    सयोगकाश्च तिथयस्तद्देवतस्तद्गणाः ।
    मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयाः सर्वे
    स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ८॥

    इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरैर्व्याखातं
    जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।
    माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा याः
    पठेद्धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवाः ॥ ९॥

    ।। इति श्रीमद्वादिराजविरचितं सर्वमङ्गलाष्टकं सम्पूर्णम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad