Header Ads

  • Breaking News

    श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका || Shivarchana Chandrika. Astro Classes.

    श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका || Srimad Appayya Dikshithar's  - Shivarchana Chandrika.

    श्री गङ्गाधराष्टकम् ॥ Astro Classes, Silvassa.


    क्षीराम्भोनिधिमन्थनोद्भवविषात्सन्दह्यंआनान् सुरान्
         ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।
    निश्शङ्कं निजलीलया कबळयन्लोकान् रक्षादरा
         दार्तत्राणपरायणः स भगवन्गङ्गाधरो मे गतिः ॥१॥

    क्षीरं स्वादु निपीय मातुलगृहे ग्तवा स्वकीयं गृहं
         क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते ।
    कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवा
         नार्तत्राणपसयणस्स भगवान्गङ्गाधरो मे गतिः ॥२॥

    मृत्युं वक्षसि ताडयन्निजपदध्यानैकभक्तं मुनिं
         मार्कण्डेयंअपालयत्करुणया लिङ्गाद्विनिर्गत्य यः ।
    नेत्राम्भोजसमर्पणेन हरयेषऽभीष्टं रथाङ्गन्ददावा
         र्तत्राणपरायणस्स भगवान्गङ्गाधरो मे गतिः ॥३॥

    सोढुं द्रोणजयद्रथादिरथिकैस्सैन्यं महात्कौरवं
         दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा ।
    पार्थं रक्षितवानमोघविषयं दिव्यास्त्रमुद्बोधय
         त्रार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥४॥

    बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं
         खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं धातुं समुद्यत्करम् ।
    दृष्ट्वानम्यविरिञ्चिरम्यनगरे पूजां त्वदीयाम्भज
         न्नार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥५॥

    सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिबृन्दारके
                       ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
    रक्षन्यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणा
                  दार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥६॥

    श्रौतस्मार्तपथो पराङ्मुखमपि प्रोद्यन्महापाताकं
         विश्वाधीशमपत्यंएव गतिरित्यालापवन्तं सकृत् ।
    रक्षन्यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
        ह्यार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥७॥

    गाङ्गं वेगमवाप्य मान्यविबुधैस्सोढुं पुरा या चितो
         दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले ।
    कारुण्यादवनीतले सुरनदीमापूरयन्पावनी
         मार्तत्राणपरायणः स भगवन्गङ्गाधरो मे गतिः ॥८॥

    ॥ इति श्रीमदप्पयदीक्षितविरचितं श्रीगङ्गाधराष्टकम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad