Header Ads

  • Breaking News

    Shivaraksha Stotram.श्रीशिवरक्षास्तोत्रम् ।। Astro Classes.

    Shivaraksha Stotram.श्रीशिवरक्षास्तोत्रम् ।। Astro Classes, Silvassa.

    श्री गणेशाय नमः ।।

    अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः । श्री सदाशिवो देवता । अनुष्टुप् छन्दः । श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ।।

    चरितं देवदेवस्य महादेवस्य पावनम् ।
    अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १॥

    गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
    शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ २॥

    गङ्गाधरः शिरः पातु भालं अर्धेन्दुशेखरः ।
    नयने मदनध्वंसी कर्णो सर्पविभूषण ॥ ३॥

    घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।
    जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः ॥ ४॥

    श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
    भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५॥

    हृदयं शङ्करः पातु जठरं गिरिजापतिः ।
    नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६॥

    सक्थिनी पातु दीनार्तशरणागतवत्सलः ॥

    उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७॥

    जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ॥

    चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥ ८॥

    एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
    स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९॥

    ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
    दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १० ॥

    अभयङ्करनामेदं कवचं पार्वतीपतेः ।
    भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११॥

    इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् ।
    प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् ॥ १२॥

    इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad