Header Ads

  • Breaking News

    ऋग्वेदः मण्डलं ७.Rigveda, Mandala - 7, Sutta - 1 To 10.



    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 1.

    अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम्।
    दूरेदृशं गृहपतिमथर्युम्॥ ७.००१.०१

    तमग्निमस्ते वसवो न्यृण्वन्सुप्रतिचक्षमवसे कुतश्चित्।
    दक्षाय्यो यो दम आस नित्यः॥ ७.००१.०२

    प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ।
    त्वां शश्वन्त उप यन्ति वाजाः॥ ७.००१.०३

    प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः।
    यत्रा नरः समासते सुजाताः॥ ७.००१.०४

    दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम्।
    न यं यावा तरति यातुमावान्॥ ७.००१.०५

    उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घृताची।
    उप स्वैनमरमतिर्वसूयुः॥ ७.००१.०६

    विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथम्।
    प्र निस्वरं चातयस्वामीवाम्॥ ७.००१.०७

    आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक।
    उतो न एभिः स्तवथैरिह स्याः॥ ७.००१.०८

    वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा।
    उतो न एभिः सुमना इह स्याः॥ ७.००१.०९

    इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः।
    ये मे धियं पनयन्त प्रशस्ताम्॥ ७.००१.१०

    मा शूने अग्ने नि षदाम नृणां माशेषसोऽवीरता परि त्वा।
    प्रजावतीषु दुर्यासु दुर्य॥ ७.००१.११

    यमश्वी नित्यमुपयाति यज्ञं प्रजावन्तं स्वपत्यं क्षयं नः।
    स्वजन्मना शेषसा वावृधानम्॥ ७.००१.१२

    पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः।
    त्वा युजा पृतनायूँरभि ष्याम्॥ ७.००१.१३

    सेदग्निरग्नीँरत्यस्त्वन्यान्यत्र वाजी तनयो वीळुपाणिः।
    सहस्रपाथा अक्षरा समेति॥ ७.००१.१४

    सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात्।
    सुजातासः परि चरन्ति वीराः॥ ७.००१.१५

    अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धे हविष्मान्।
    परि यमेत्यध्वरेषु होता॥ ७.००१.१६

    त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या।
    उभा कृण्वन्तो वहतू मियेधे॥ ७.००१.१७

    इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ।
    प्रति न ईं सुरभीणि व्यन्तु॥ ७.००१.१८

    मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै।
    मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः॥ ७.००१.१९

    नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः।
    रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः॥ ७.००१.२०

    त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि।
    मा त्वे सचा तनये नित्य आ धङ्मा वीरो अस्मन्नर्यो वि दासीत्॥ ७.००१.२१

    मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः।
    मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्त॥ ७.००१.२२

    स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम्।
    स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति॥ ७.००१.२३

    महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम्।
    येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः॥ ७.००१.२४

    नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः।
    रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः॥ ७.००१.२५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 2.

    जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन्।
    उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य॥ ७.००२.०१

    नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः।
    ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा उभयानि हव्या॥ ७.००२.०२

    ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम्।
    मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन्महेम॥ ७.००२.०३

    सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ।
    आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम्॥ ७.००२.०४

    स्वाध्यो वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता।
    पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन्॥ ७.००२.०५

    उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः।
    बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम्॥ ७.००२.०६

    विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै।
    ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि॥ ७.००२.०७

    आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः।
    सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु॥ ७.००२.०८

    तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व।
    यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः॥ ७.००२.०९

    वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति।
    सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद॥ ७.००२.१०

    आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः।
    बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम्॥ ७.००२.११

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 3.

    अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम्।
    यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः॥ ७.००३.०१

    प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात्।
    आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति॥ ७.००३.०२

    उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः।
    अच्छा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान्॥ ७.००३.०३

    वि यस्य ते पृथिव्यां पाजो अश्रेत्तृषु यदन्ना समवृक्त जम्भैः।
    सेनेव सृष्टा प्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि॥ ७.००३.०४

    तमिद्दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः।
    निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वृष्णः॥ ७.००३.०५

    सुसंदृक्ते स्वनीक प्रतीकं वि यद्रुक्मो न रोचस उपाके।
    दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः प्रति चक्षि भानुम्॥ ७.००३.०६

    यथा वः स्वाहाग्नये दाशेम परीळाभिर्घृतवद्भिश्च हव्यैः।
    तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि॥ ७.००३.०७

    या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर्नृवतीरुरुष्याः।
    ताभिर्नः सूनो सहसो नि पाहि स्मत्सूरीञ्जरितॄञ्जातवेदः॥ ७.००३.०८

    निर्यत्पूतेव स्वधितिः शुचिर्गात्स्वया कृपा तन्वा रोचमानः।
    आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः॥ ७.००३.०९

    एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम।
    विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः॥ ७.००३.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 4.

    प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम्।
    यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति॥ ७.००४.०१

    स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः।
    सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः॥ ७.००४.०२

    अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे।
    नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच॥ ७.००४.०३

    अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि।
    स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम॥ ७.००४.०४

    आ यो योनिं देवकृतं ससाद क्रत्वा ह्यग्निरमृताँ अतारीत्।
    तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति॥ ७.००४.०५

    ईशे ह्यग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य दातोः।
    मा त्वा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः॥ ७.००४.०६

    परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम।
    न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः॥ ७.००४.०७

    नहि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ।
    अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळेतु नव्यः॥ ७.००४.०८

    त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात्।
    सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयिः स्पृहयाय्यः सहस्री॥ ७.००४.०९

    एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम।
    विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः॥ ७.००४.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 05.

    प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः।
    यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः॥ ७.००५.०१

    पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभः स्तियानाम्।
    स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण॥ ७.००५.०२

    त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि।
    वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः॥ ७.००५.०३

    तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त।
    त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः॥ ७.००५.०४

    त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः।
    पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम्॥ ७.००५.०५

    त्वे असुर्यं वसवो न्यृण्वन्क्रतुं हि ते मित्रमहो जुषन्त।
    त्वं दस्यूँरोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय॥ ७.००५.०६

    स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः।
    त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन्॥ ७.००५.०७

    तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः।
    यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय॥ ७.००५.०८

    तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व।
    वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः॥ ७.००५.०९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 6.

    प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य।
    इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि॥ ७.००६.०१

    कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः।
    पुरंदरस्य गीर्भिरा विवासेऽग्नेर्व्रतानि पूर्व्या महानि॥ ७.००६.०२

    न्यक्रतून्ग्रथिनो मृध्रवाचः पणीँरश्रद्धाँ अवृधाँ अयज्ञान्।
    प्रप्र तान्दस्यूँरग्निर्विवाय पूर्वश्चकारापराँ अयज्यून्॥ ७.००६.०३

    यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः।
    तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयन्तं पृतन्यून्॥ ७.००६.०४

    यो देह्यो अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार।
    स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः॥ ७.००६.०५

    यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः।
    वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम्॥ ७.००६.०६

    आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य।
    आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः॥ ७.००६.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 07.

    प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः।
    भवा नो दूतो अध्वरस्य विद्वान्त्मना देवेषु विविदे मितद्रुः॥ ७.००७.०१

    आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः।
    आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि॥ ७.००७.०२

    प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता।
    आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः॥ ७.००७.०३

    सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम्।
    विशामधायि विश्पतिर्दुरोणेऽग्निर्मन्द्रो मधुवचा ऋतावा॥ ७.००७.०४

    असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता।
    द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम्॥ ७.००७.०५

    एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन्।
    प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य॥ ७.००७.०६

    नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम्।
    इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः॥ ७.००७.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 08.

    इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन।
    नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि॥ ७.००८.०१

    अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः।
    वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे॥ ७.००८.०२

    कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः।
    कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः॥ ७.००८.०३

    प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः।
    अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच॥ ७.००८.०४

    असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः।
    स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात॥ ७.००८.०५

    इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः।
    शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा॥ ७.००८.०६

    नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम्।
    इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः॥ ७.००८.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 09.

    अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः।
    दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु॥ ७.००९.०१

    स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः।
    होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम्॥ ७.००९.०२

    अमूरः कविरदितिर्विवस्वान्सुसंसन्मित्रो अतिथिः शिवो नः।
    चित्रभानुरुषसां भात्यग्रेऽपां गर्भः प्रस्व आ विवेश॥ ७.००९.०३

    ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः।
    सुसंदृशा भानुना यो विभाति प्रति गावः समिधानं बुधन्त॥ ७.००९.०४

    अग्ने याहि दूत्यं मा रिषण्यो देवाँ अच्छा ब्रह्मकृता गणेन।
    सरस्वतीं मरुतो अश्विनापो यक्षि देवान्रत्नधेयाय विश्वान्॥ ७.००९.०५

    त्वामग्ने समिधानो वसिष्ठो जरूथं हन्यक्षि राये पुरंधिम्।
    पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सदा नः॥ ७.००९.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 10.

    उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः।
    वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः॥ ७.०१०.०१

    स्वर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म।
    अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः॥ ७.०१०.०२

    अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः।
    सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम्॥ ७.०१०.०३

    इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम्।
    आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम्॥ ७.०१०.०४

    मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु।
    स हि क्षपावाँ अभवद्रयीणामतन्द्रो दूतो यजथाय देवान्॥ ७.०१०.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७. Rigveda, Mandala - 8, Sutta - 10.

    No comments

    Post Top Ad

    Post Bottom Ad