Header Ads

  • Breaking News

    ऋग्वेदः, मण्डलं ६.Rigveda, Mandala - 6, Sutta - 71 to 75.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६. Rigveda, Mandala - 6, Sutta - 71.

    उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः।
    घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि॥ ६.०७१.०१

    देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्च दावने।
    यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः॥ ६.०७१.०२

    अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयम्।
    हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशंस ईशत॥ ६.०७१.०३

    उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात्।
    अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम्॥ ६.०७१.०४

    उदू अयाँ उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका।
    दिवो रोहांस्यरुहत्पृथिव्या अरीरमत्पतयत्कच्चिदभ्वम्॥ ६.०७१.०५

    वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः।
    वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम॥ ६.०७१.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 72.

    इन्द्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः।
    युवं सूर्यं विविदथुर्युवं स्वर्विश्वा तमांस्यहतं निदश्च॥ ६.०७२.०१

    इन्द्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह।
    उप द्यां स्कम्भथुः स्कम्भनेनाप्रथतं पृथिवीं मातरं वि॥ ६.०७२.०२

    इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत।
    प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि॥ ६.०७२.०३

    इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु।
    जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः॥ ६.०७२.०४

    इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे।
    युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा॥ ६.०७२.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 73.

    यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान्।
    द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति॥ ६.०७३.०१

    जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार।
    घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूँरमित्रान्पृत्सु साहन्॥ ६.०७३.०२

    बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः।
    अपः सिषासन्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः॥ ६.०७३.०३

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 74.

    सोमारुद्रा धारयेथामसुर्यं प्र वामिष्टयोऽरमश्नुवन्तु।
    दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे॥ ६.०७४.०१

    सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश।
    आरे बाधेथां निरृतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु॥ ६.०७४.०२

    सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम्।
    अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत्॥ ६.०७४.०३

    तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः।
    प्र नो मुञ्चतं वरुणस्य पाशाद्गोपायतं नः सुमनस्यमाना॥ ६.०७४.०४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 75.

    जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे।
    अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु॥ ६.०७५.०१

    धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम।
    धनुः शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम॥ ६.०७५.०२

    वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना।
    योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती॥ ६.०७५.०३

    ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे।
    अप शत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान्॥ ६.०७५.०४

    बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कृणोति समनावगत्य।
    इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः॥ ६.०७५.०५

    रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः।
    अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः॥ ६.०७५.०६

    तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः।
    अवक्रामन्तः प्रपदैरमित्रान्क्षिणन्ति शत्रूँरनपव्ययन्तः॥ ६.०७५.०७

    रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म।
    तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः॥ ६.०७५.०८

    स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः।
    चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः॥ ६.०७५.०९

    ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा।
    पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नो अघशंस ईशत॥ ६.०७५.१०

    सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता।
    यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन्॥ ६.०७५.११

    ऋजीते परि वृङ्धि नोऽश्मा भवतु नस्तनूः।
    सोमो अधि ब्रवीतु नोऽदितिः शर्म यच्छतु॥ ६.०७५.१२

    आ जङ्घन्ति सान्वेषां जघनाँ उप जिघ्नते।
    अश्वाजनि प्रचेतसोऽश्वान्समत्सु चोदय॥ ६.०७५.१३

    अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः।
    हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः॥ ६.०७५.१४

    आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम्।
    इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः॥ ६.०७५.१५

    अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते।
    गच्छामित्रान्प्र पद्यस्व मामीषां कं चनोच्छिषः॥ ६.०७५.१६

    यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव।
    तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु॥ ६.०७५.१७

    मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम्।
    उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु॥ ६.०७५.१८

    यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति।
    देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम्॥ ६.०७५.१९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६. Rigveda, Mandala - 6, Sutta - 75.

    No comments

    Post Top Ad

    Post Bottom Ad