ऋग्वेदः मण्डलं ६. Rigveda, Mandala - 6, Sutta - 51 To 60.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
Rigveda, Mandala - 6, Sutta - 51.
उदु त्यच्चक्षुर्महि मित्रयोराँ एति प्रियं वरुणयोरदब्धम्।
ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत्॥ ६.०५१.०१
वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः।
ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान्॥ ६.०५१.०२
स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान्।
अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान्॥ ६.०५१.०३
रिशादसः सत्पतीँरदब्धान्महो राज्ञः सुवसनस्य दातॄन्।
यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु॥ ६.०५१.०४
द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः।
विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त॥ ६.०५१.०५
मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः।
यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव॥ ६.०५१.०६
मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे।
विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट॥ ६.०५१.०७
नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम्।
नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे॥ ६.०५१.०८
ऋतस्य वो रथ्यः पूतदक्षानृतस्य पस्त्यसदो अदब्धान्।
ताँ आ नमोभिरुरुचक्षसो नॄन्विश्वान्व आ नमे महो यजत्राः॥ ६.०५१.०९
ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति।
सुक्षत्रासो वरुणो मित्रो अग्निरृतधीतयो वक्मराजसत्याः॥ ६.०५१.१०
ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः।
सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः॥ ६.०५१.११
नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता।
आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द॥ ६.०५१.१२
अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम्।
दविष्ठमस्य सत्पते कृधी सुगम्॥ ६.०५१.१३
ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः।
जही न्यत्रिणं पणिं वृको हि षः॥ ६.०५१.१४
यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः।
कर्ता नो अध्वन्ना सुगं गोपा अमा॥ ६.०५१.१५
अपि पन्थामगन्महि स्वस्तिगामनेहसम्।
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु॥ ६.०५१.१६
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
Rigveda, Mandala - 6, Sutta - 52.
न तद्दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः।
उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा॥ ६.०५२.०१
अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात्।
तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः॥ ६.०५२.०२
किमङ्ग त्वा ब्रह्मणः सोम गोपां किमङ्ग त्वाहुरभिशस्तिपां नः।
किमङ्ग नः पश्यसि निद्यमानान्ब्रह्मद्विषे तपुषिं हेतिमस्य॥ ६.०५२.०३
अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः।
अवन्तु मा पर्वतासो ध्रुवासोऽवन्तु मा पितरो देवहूतौ॥ ६.०५२.०४
विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम्।
तथा करद्वसुपतिर्वसूनां देवाँ ओहानोऽवसागमिष्ठः॥ ६.०५२.०५
इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना।
पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव॥ ६.०५२.०६
विश्वे देवास आ गत शृणुता म इमं हवम्।
एदं बर्हिर्नि षीदत॥ ६.०५२.०७
यो वो देवा घृतस्नुना हव्येन प्रतिभूषति।
तं विश्व उप गच्छथ॥ ६.०५२.०८
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये।
सुमृळीका भवन्तु नः॥ ६.०५२.०९
विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः।
जुषन्तां युज्यं पयः॥ ६.०५२.१०
स्तोत्रमिन्द्रो मरुद्गणस्त्वष्टृमान्मित्रो अर्यमा।
इमा हव्या जुषन्त नः॥ ६.०५२.११
इमं नो अग्ने अध्वरं होतर्वयुनशो यज।
चिकित्वान्दैव्यं जनम्॥ ६.०५२.१२
विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ।
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम्॥ ६.०५२.१३
विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म।
मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम॥ ६.०५२.१४
ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे।
ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवाः॥ ६.०५२.१५
अग्नीपर्जन्याववतं धियं मेऽस्मिन्हवे सुहवा सुष्टुतिं नः।
इळामन्यो जनयद्गर्भमन्यः प्रजावतीरिष आ धत्तमस्मे॥ ६.०५२.१६
स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे।
अस्मिन्नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम्॥ ६.०५२.१७
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
Rigveda, Mandala - 6, Sutta - 53.
वयमु त्वा पथस्पते रथं न वाजसातये।
धिये पूषन्नयुज्महि॥ ६.०५३.०१
अभि नो नर्यं वसु वीरं प्रयतदक्षिणम्।
वामं गृहपतिं नय॥ ६.०५३.०२
अदित्सन्तं चिदाघृणे पूषन्दानाय चोदय।
पणेश्चिद्वि म्रदा मनः॥ ६.०५३.०३
वि पथो वाजसातये चिनुहि वि मृधो जहि।
साधन्तामुग्र नो धियः॥ ६.०५३.०४
परि तृन्धि पणीनामारया हृदया कवे।
अथेमस्मभ्यं रन्धय॥ ६.०५३.०५
वि पूषन्नारया तुद पणेरिच्छ हृदि प्रियम्।
अथेमस्मभ्यं रन्धय॥ ६.०५३.०६
आ रिख किकिरा कृणु पणीनां हृदया कवे।
अथेमस्मभ्यं रन्धय॥ ६.०५३.०७
यां पूषन्ब्रह्मचोदनीमारां बिभर्ष्याघृणे।
तया समस्य हृदयमा रिख किकिरा कृणु॥ ६.०५३.०८
या ते अष्ट्रा गोपशाघृणे पशुसाधनी।
तस्यास्ते सुम्नमीमहे॥ ६.०५३.०९
उत नो गोषणिं धियमश्वसां वाजसामुत।
नृवत्कृणुहि वीतये॥ ६.०५३.१०
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
Rigveda, Mandala - 6, Sutta - 54.
सं पूषन्विदुषा नय यो अञ्जसानुशासति।
य एवेदमिति ब्रवत्॥ ६.०५४.०१
समु पूष्णा गमेमहि यो गृहाँ अभिशासति।
इम एवेति च ब्रवत्॥ ६.०५४.०२
पूष्णश्चक्रं न रिष्यति न कोशोऽव पद्यते।
नो अस्य व्यथते पविः॥ ६.०५४.०३
यो अस्मै हविषाविधन्न तं पूषापि मृष्यते।
प्रथमो विन्दते वसु॥ ६.०५४.०४
पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः।
पूषा वाजं सनोतु नः॥ ६.०५४.०५
पूषन्ननु प्र गा इहि यजमानस्य सुन्वतः।
अस्माकं स्तुवतामुत॥ ६.०५४.०६
माकिर्नेशन्माकीं रिषन्माकीं सं शारि केवटे।
अथारिष्टाभिरा गहि॥ ६.०५४.०७
शृण्वन्तं पूषणं वयमिर्यमनष्टवेदसम्।
ईशानं राय ईमहे॥ ६.०५४.०८
पूषन्तव व्रते वयं न रिष्येम कदा चन।
स्तोतारस्त इह स्मसि॥ ६.०५४.०९
परि पूषा परस्ताद्धस्तं दधातु दक्षिणम्।
पुनर्नो नष्टमाजतु॥ ६.०५४.१०
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
Rigveda, Mandala - 6, Sutta - 55.
एहि वां विमुचो नपादाघृणे सं सचावहै।
रथीरृतस्य नो भव॥ ६.०५५.०१
रथीतमं कपर्दिनमीशानं राधसो महः।
रायः सखायमीमहे॥ ६.०५५.०२
रायो धारास्याघृणे वसो राशिरजाश्व।
धीवतोधीवतः सखा॥ ६.०५५.०३
पूषणं न्वजाश्वमुप स्तोषाम वाजिनम्।
स्वसुर्यो जार उच्यते॥ ६.०५५.०४
मातुर्दिधिषुमब्रवं स्वसुर्जारः शृणोतु नः।
भ्रातेन्द्रस्य सखा मम॥ ६.०५५.०५
आजासः पूषणं रथे निशृम्भास्ते जनश्रियम्।
देवं वहन्तु बिभ्रतः॥ ६.०५५.०६
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
Rigveda, Mandala - 6, Sutta - 56.
य एनमादिदेशति करम्भादिति पूषणम्।
न तेन देव आदिशे॥ ६.०५६.०१
उत घा स रथीतमः सख्या सत्पतिर्युजा।
इन्द्रो वृत्राणि जिघ्नते॥ ६.०५६.०२
उतादः परुषे गवि सूरश्चक्रं हिरण्ययम्।
न्यैरयद्रथीतमः॥ ६.०५६.०३
यदद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः।
तत्सु नो मन्म साधय॥ ६.०५६.०४
इमं च नो गवेषणं सातये सीषधो गणम्।
आरात्पूषन्नसि श्रुतः॥ ६.०५६.०५
आ ते स्वस्तिमीमह आरेअघामुपावसुम्।
अद्या च सर्वतातये श्वश्च सर्वतातये॥ ६.०५६.०६
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
Rigveda, Mandala - 6, Sutta - 57.
इन्द्रा नु पूषणा वयं सख्याय स्वस्तये।
हुवेम वाजसातये॥ ६.०५७.०१
सोममन्य उपासदत्पातवे चम्वोः सुतम्।
करम्भमन्य इच्छति॥ ६.०५७.०२
अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता।
ताभ्यां वृत्राणि जिघ्नते॥ ६.०५७.०३
यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः।
तत्र पूषाभवत्सचा॥ ६.०५७.०४
तां पूष्णः सुमतिं वयं वृक्षस्य प्र वयामिव।
इन्द्रस्य चा रभामहे॥ ६.०५७.०५
उत्पूषणं युवामहेऽभीशूँरिव सारथिः।
मह्या इन्द्रं स्वस्तये॥ ६.०५७.०६
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
Rigveda, Mandala - 6, Sutta - 58.
शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु॥ ६.०५८.०१
अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः।
अष्ट्रां पूषा शिथिरामुद्वरीवृजत्संचक्षाणो भुवना देव ईयते॥ ६.०५८.०२
यास्ते पूषन्नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति।
ताभिर्यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः॥ ६.०५८.०३
पूषा सुबन्धुर्दिव आ पृथिव्या इळस्पतिर्मघवा दस्मवर्चाः।
यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम्॥ ६.०५८.०४
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
Rigveda, Mandala - 6, Sutta - 59.
प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः।
हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम्॥ ६.०५९.०१
बळित्था महिमा वामिन्द्राग्नी पनिष्ठ आ।
समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा॥ ६.०५९.०२
ओकिवांसा सुते सचाँ अश्वा सप्ती इवादने।
इन्द्रा न्वग्नी अवसेह वज्रिणा वयं देवा हवामहे॥ ६.०५९.०३
य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा।
जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन॥ ६.०५९.०४
इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति।
विषूचो अश्वान्युयुजान ईयत एकः समान आ रथे॥ ६.०५९.०५
इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः।
हित्वी शिरो जिह्वया वावदच्चरत्त्रिंशत्पदा न्यक्रमीत्॥ ६.०५९.०६
इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः।
मा नो अस्मिन्महाधने परा वर्क्तं गविष्टिषु॥ ६.०५९.०७
इन्द्राग्नी तपन्ति माघा अर्यो अरातयः।
अप द्वेषांस्या कृतं युयुतं सूर्यादधि॥ ६.०५९.०८
इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा।
आ न इह प्र यच्छतं रयिं विश्वायुपोषसम्॥ ६.०५९.०९
इन्द्राग्नी उक्थवाहसा स्तोमेभिर्हवनश्रुता।
विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये॥ ६.०५९.१०
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
Rigveda, Mandala - 6, Sutta - 60.
श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात्।
इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता॥ ६.०६०.०१
ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः।
दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान्॥ ६.०६०.०२
आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक्।
युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः॥ ६.०६०.०३
ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम्।
इन्द्राग्नी न मर्धतः॥ ६.०६०.०४
उग्रा विघनिना मृध इन्द्राग्नी हवामहे।
ता नो मृळात ईदृशे॥ ६.०६०.०५
हतो वृत्राण्यार्या हतो दासानि सत्पती।
हतो विश्वा अप द्विषः॥ ६.०६०.०६
इन्द्राग्नी युवामिमेऽभि स्तोमा अनूषत।
पिबतं शम्भुवा सुतम्॥ ६.०६०.०७
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा।
इन्द्राग्नी ताभिरा गतम्॥ ६.०६०.०८
ताभिरा गच्छतं नरोपेदं सवनं सुतम्।
इन्द्राग्नी सोमपीतये॥ ६.०६०.०९
तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत्।
कृष्णा कृणोति जिह्वया॥ ६.०६०.१०
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः।
द्युम्नाय सुतरा अपः॥ ६.०६०.११
ता नो वाजवतीरिष आशून्पिपृतमर्वतः।
इन्द्रमग्निं च वोळ्हवे॥ ६.०६०.१२
उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै।
उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम्॥ ६.०६०.१३
आ नो गव्येभिरश्व्यैर्वसव्यैरुप गच्छतम्।
सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे॥ ६.०६०.१४
इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः।
वीतं हव्यान्या गतं पिबतं सोम्यं मधु॥ ६.०६०.१५
Rigveda, Mandala - 6, Sutta - 60.
No comments